________________
महामुनिश्रीव्यासपणीत
( २ भूमिखण्डेअन्ययोनि प्रयाति स्म प्रतिषिद्धन कर्मणा । किं करोति पिता माता अन्ये स्वजनवान्धवाः ३९ कर्मणा निहतो यस्तु न स्युस्तस्य हि रक्षणे । येनैव कर्मणा चैव रक्षितश्चाऽऽयुनन्दनः ॥ ४० तस्मात्कृपान्वितो जातः सूदः कर्मवशानुगः । सैरन्ध्री च तथा जाता प्रेरिता तस्य कर्मणा॥४१ द्वाभ्यामेव सुतस्तस्य रक्षितश्चारुलक्षणः । रात्रावेव प्रणीतोऽसौ तस्माद्भीत्या महाश्रमे ॥ ४२ वसिष्ठस्याऽऽश्रमे पुण्ये सैरन्ध्या पुण्यकर्मणा । शुभे पर्णकुटीद्वारे तस्मिन्नेव महाश्रमे ॥ ४३ गता सा स्वगृहं पश्चानिक्षिप्य बालकं च तम् । एणं निपात्य सूदन पाचितं मांसमेव हि ॥ ४४ भोजयित्वा स देत्येन्द्रो हुण्डस्तुष्टोऽभवत्तदा । शापं ह्यशोकसुन्दर्या मोघं मेने तदाऽसुरः।। हर्षेण महताऽऽविष्टः स हुण्डो दानवेश्वरः॥
कुञ्जल उवाचप्रभाते विमले जाते वसिष्ठो मुनिसत्तमः । बहिर्गतो हि धर्मात्मा कुटीद्वारान्पपश्यति ॥ ४६ संपूर्ण बालकं दृष्ट्वा दिव्यलक्षणसंयुतम् । संपूर्णेन्दुप्रतीकाशं सुन्दरं चारुलोचनम् ॥ पश्यन्तु मुनयः सर्वे यूयमागत्य बालकम् । कस्य केन समानीतं रात्रौ चैवाङ्गणे मम ॥ ४८ देवगन्धर्वगर्भाभं राजलक्षणसंयुतम् । कन्दर्पकोटिसंकाशं पश्यन्तु मुनयोऽमलम् ॥ ४९ महाकौतुकसंयुक्ता हृष्टा द्विजवरास्ततः । समपश्यंस्तं तु पुत्रमायोश्चैव महात्मनः ॥ वसिष्ठः स तु धर्मात्मा ज्ञानेनाऽऽलोक्य बालकम् । [*आयुपुत्रं समाज्ञातं चरित्रेण समन्वितम्] वृत्तान्तं तस्य दुष्टस्य हुण्डस्यापि दुरात्मनः । कृपया ब्रह्मपुत्रस्तु समुत्थाय सुबालकम् ॥ ५२ कराभ्यामथ गृह्णाति यावद्द्विजवरोत्तमः । तावदृष्टिं सौमनस्यां चक्रुर्देवा द्विजापरि ॥ ५३ ललितं सुस्वरं गीतं जगुर्गन्धर्व किन्नराः। ऋषयो वेदमत्रेश्च स्तुवन्ति नृपनन्दनम् ॥ ५४ वसिष्ठस्तं समालोक्य वरं वै दत्तवांस्तदा । नहुपत्येव ते नाम ख्याति लोकं गमिष्यति ॥ ५५ हुषितो नैव तेनापि बालभावेनराधिप । तस्मान्नहुष ते नाम देवपूज्यो भविष्यसि ॥ ५६ जातकर्मादिकं कर्म तस्य चक्रे द्विजोत्तमः । व्रतदानं विसर्ग च गुरुशिष्यादिलक्षणम् ॥ ५७ वेदं चाधीत्य संपूर्ण षडङ्ग सपदक्रमम् । सर्वाण्येव च शास्त्राणि ह्यधीत्य द्विजसत्तमात् ॥ ५८ सेविसर्ग धनुर्वेद सरहस्योपसंयमम् । शस्त्रास्त्राणि च दिव्यानि जग्राह मुनिसत्तमात् ॥ ५९ ज्ञानशास्त्राणि चान्यानि राजनीत्यादिकानि च । वसिष्ठादायुपुत्रस्तु शिष्यरूपेण भक्तिमान्॥६० सर्व विद्यासुनिष्पन्नो नहुषश्चातिसुन्दरः । प्रसादाच वसिष्ठस्य चापबाणधरोऽभवत् ॥ ६१ इति श्रीमहापुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे पश्चोत्तरशततमोऽध्यायः ॥ १०५ ॥
आदितः श्लोकानां समष्ट्यङ्काः-८३५४
अथ षडधिकशततमोऽध्यायः ।
कुञ्जल उवाचआयुभार्या महाभागा स्वर्भानोस्तनया सुतम् । अपश्यन्ती स्वकं चापि देवोपममनोपमम् ।। १
* एतचिहान्तर्गतः पाठो घ. छ. ट. ठ. ड. पुस्तकस्थः । १क.ख. ड. च. छ.स. ढ. अनयो नयतां याति प्रेरितस्तस्य क । २ घ. छ. ट. ठ. ड. अन्यं । ३ ड. 'मलाः । म। ४ छ.स. ट. ठ. इ. सुतोपरि । ५ क. ख. ङ. च. छ. झ. 6. ड. द. वसिष्ठाच । ६ क. ख. ड. च. छ. स. ड. ढ. नि प्रहमक्षोयुतानि च ज्ञा"। ७ घ. छ. ट. ठ. ड. सूत ।