________________
१०५ पञ्चाधिकशततमोऽध्यायः ] पत्रपुराणम् ।
२४९ मनः खिमं बभूवास्य हुण्डस्यापि दुरात्मनः । एवं वर्षशतं तस्य पश्यमानस्य वै गतम् ॥ ११ प्रसूता सा हि पुत्रं चे धर्मात्मानं महामतिम् । रात्रौ चैव सुतश्रेष्ठ तस्याः पुत्रो व्यजायत ॥ तेजस्वी वीरशोभाभिर्यथा सूर्यो नभस्तले ।
सूत उवाच-- अथ दासी महादृष्टा काचित्सूतिगृहागता । अशौचाचारसंयुक्ता महामङ्गलवादिनी ॥ १३ तस्याः सर्व परिज्ञाय स हुण्डो दानवाधमः । अस्या अङ्गं प्रविश्यैव प्रविष्टश्चाऽऽयुमन्दिरे ॥ १४ महाजने प्रसुप्ते च निद्रयाऽनीव मोहिते । तं पुत्रं देवगर्भाभमपहृत्य बहिर्गतः ॥ १५ काश्चनाख्यं पुरं प्राप्तः स्वकीयं दानवाधमः । समाहूय प्रियां भार्या विपुलां तामयाब्रवीत् ॥१६ वधस्वैनं महापापं बालरूपं रिपुं मम । पश्चात्सूदस्य वै हस्ते भोजनार्थ प्रदीयताम् ॥ १७ नानाद्रव्यैः समायुक्तं पाचयस्त्र हि निघृणम् । सूदहस्तान्महाभागे अहं भोक्ष्ये न संशयः ॥१८ वाक्यमाकर्ण्य तद्भतुर्विपुला विस्मिताऽभवत् । कस्मानिघृणतां याति मम भर्ताऽतिनिष्ठुरः ॥१९ सर्वलक्षणसंपन्नं देवगर्भोपमं मुतम् । कस्य कस्मात्प्रभक्षेत कृपाहीनः सुनिघृणः ॥ २० इत्येवं चिन्तयामास कारुण्येन समन्विता । पुनः पप्रच्छ भर्तारं कस्माद्भक्षसि बालकम् ॥ २१ यस्माद्भवसि संक्रुधो ह्यतीव निरपत्रपः । सर्व मे कारणं हि तत्त्वेन दनुजेश्वर ॥ आत्मदोषस्य वृत्तान्तं समासेन निवेदितम् । शापं ह्यशोकसन्दर्या हुण्डेनापि दुरात्मना ॥ २३ तया ज्ञातं तु तत्सर्व कारणं दानवस्य वै । वध्योऽयं बालकः सत्यं नो वा भर्ता मरिष्यति॥२४ इत्येवं संविचार्यैव विपुला क्रोधमूर्छिता । मेकलां तु समाहूय सैरन्ध्रीं वाक्यमब्रवीत् ॥ २५ जह्येनं बालकं दुष्ट मेकलेऽद्य महानसे । सूदहस्ते प्रदेहि त्वं हुण्डभोजनहेतवे ॥ २६ मेकला बालकं गृह्य सूदमाहूय चाब्रवीत् । राजादेशं कुरुष्वाद्य पचस्वैनं हि बालकम् ॥ २७ एवमाणितं तेन सूदेनापि महात्मना । आदाय बालकं हस्ताच्छवमुद्यम्य चोयतः॥ २८ एष वै देवदेवस्य दत्तात्रेयस्य तेजसा । रक्षितस्त्वायुपुत्रश्च म जहास पुनः पुनः॥ २९ तं हसन्तं समालोक्य स सूदः कृपयाऽन्वितः । सैरन्ध्री कृपया युक्ता मूदं तं प्रत्युवाच ह॥३० नैव वध्यस्त्वयाँ सूद शिशुरेप महामते । दिव्यलक्षणसंपन्नः कस्य जातः मुसत्कुले ॥ १
सूत उवाच-- सत्यमुक्तं त्वया भद्रे वाक्यं वै कृपयाऽन्वितम् । राजलक्षणसंपन्नो रूपवान्कस्य बालकः ॥ १२ कस्माद्भोक्ष्यति पापात्मा हुण्डोऽयं दानवाधमः । येन वै रक्षितो वंशः पूर्वमेव स्वकर्मणा ॥३३ आपत्स्वपि स जीवेत दुर्गेषु नान्यथा भवेत् । नद्या वेगहतश्चापि वह्निमध्यगतोऽपि वा ॥ ३४ जीवते नात्र संदेहो यस्य कर्म सहायकम् । तस्माद्धि क्रियते कर्म धर्मपुण्यममन्वितम् ॥ ३५ आयुष्मन्तो नरास्तेन प्रविन्दन्ति सुखं ततः । तारकं पालकं कर्म रक्षते जाग्रते हि तत् ॥ १६ भुक्तिदं जायते नित्यं मैत्रस्थानप्रदायकम् । दानपुण्यान्वितं कर्म पियवाक्यसमन्वितम् ॥ ३७ उपकारयुतं यश्च करोति शुभकृत्तदा । तमेव रक्षते कर्म सर्वदैव न संशयः ॥
१ क ख ङ, च. छ. झ. ट. . मनेप्सित नव जात हु । २ क. ख. घ. इ. च. छ. स. ट. ठ. ह. द. च स्वर्भानोस्तनया तदा । रा। ३ क. ख. घ. ङ. च. छ. झ ड. द. विद्युदां । ४ . निर्जितम् । ५ छ. उ. विद्युदा। घ. छ. ठ. ठ... विद्यदा । ७ इ. 'तः । स त देवेन देवेश कृपयाऽपि स्वकर्मणा ।र'। ८ क, ख. घ. ङ. प.छ.स. ट... . 'याऽयव शि।