________________
१०९ नवाधिकशततमोऽध्यायः ] पद्मपुराणम् ।
वसिष्ठ उवाचआय राजा स धर्मात्मा सप्तद्वीपाधिपो बली। भार्या चेन्दुमती तस्य सत्यरूपा तपस्विनी ॥१६ तस्यामुत्पादितः पुत्रो भवान्वे गुणमन्दिरम् । आयुना गजगजेन सोमवंशस्य भूषणम् ॥ १७ हरस्य कन्या सुश्रोणी गुणरूपैरलंकृता । अशोकमुन्दरी नाम्ना सुभगा चारुहासिनी ॥ १८ तवार्थे सा तपस्तेपे निरालम्बो तु यौवने । तस्या भर्ता भवान्सृष्टो धात्रा योगेन निश्चितः ॥१९ गङ्गायास्तीरमासाद्य ध्यानयोगममन्विताम् । हुण्डस्तु दानवेन्द्रो यो दृष्ट्वा चैकाकिनी स ताम् २० तपसा प्रज्वलन्ती च सुभगां कमलेक्षणाम् । रूपोदार्यगुणोपेतां कामबाणैः प्रपीडितः॥ २१ तां बभाषेऽन्तिकं गत्वा मम भार्या भवेति च । एवं सा तद्वचः श्रुत्वा तमुवाच यशस्विनी ॥२२ मा हुण्ड साहसं कार्षीमा जल्पस्व पुनः पुनः । अप्राप्याऽहं त्वया दैत्य परभार्या विशेषतः॥२३ देवेन मे पुरा सृष्ट आयुपुत्रो महाबलः । नहुषो नाम मेधावी भविष्यनि पतिर्मम ॥ २४ देवेंदत्तो महातेजा मरणं त्वं परीप्समि। [*ततः शापं प्रदास्यामि येन भस्मी भविष्यसि ॥ २५ एवमाकर्ण्य तद्वाक्यं कामवाणप्रपीडितः । मायया च हना नेन प्रणीता निजमन्दिरम् ॥ २६ ज्ञात्वा तया महाभाग शप्तोऽसौ दानवाधमः । नहुषस्यैव हस्तेन तव मृत्युभविष्यति ॥ २७ अजाते त्वयि संजाता वदसे त्वं यथैव तत् । स त्वमायुसुतो वीर हतो हुण्डेन पापिना ॥ २८ सूदेन रक्षितो दास्या प्रेषितो मम चाऽऽश्रमम् । एवं त्वं वनमध्ये च दृष्टश्चारणकिंनरैः॥ २९ यत्तु वै स्मारितं वत्स मया तन्कथितं पुनः । जहि तं पापकर्तारं हुण्डाख्यं दानवाघमम् ॥ ३० नेत्राभ्यां हि प्रमुश्चन्तीमश्रूणि परिमार्जय । इतो गत्वा प्रपश्य॑ त्वं गङ्गातीरं महाबलम् ॥ ३१ निपात्य दानवेन्द्रं त्वं कारागृहात्समानय । अशोकसुन्दरी या हि तस्या भर्ता भवस्व हि ॥ ३२ एतत्ते सर्वमाख्यातं प्रश्नस्यापि हि कारणम् । आभाप्य नहुपं विप्रो विरराम महामतिः ॥ ३३
आकर्ण्य सर्व मुनिना नियुक्तमाश्चर्यरूपं प्रविचिन्त्य भूयः ।
तस्यान्तमेकः परिकर्तुकाम आयोः सुतः कोपमथो चकार । इति श्रीमहापुराणे पाने भमिन्यण्डे वेनोपाग्याने गुरुतीर्थ नहुपेऽटोत्तर शततमोऽध्यायः ॥ १०८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-८४२३
अथ नवाधिकशमतमोऽध्यायः ।
कुञ्जल उवाचप्रणिपत्य महात्मानं वसिष्ठं तपतां वरम् । अरण्यं निर्जगामाथ वाणपाणिधनुर्धरः॥
एणस्य मांसं सुविपाच्य भाजितं बालस्तया रक्षित एव बुद्ध्या । आयोः सुपुत्रः सगुणः सरूपो देवोपमो देवगुणैश्च युक्तः ॥
* एतच्चिदान्तगतः पाठः, छ. पुस्तकस्थः ।
१क. ख. इ. च. छ. झ. ड.इ. म्वा तपांव । २. इ. तपस्विनी। ३ घ. छ. ट. ठ. इ. "ति महाबलः। दे। ४ ट. "ववृत्तिर्महा। ५ क. ख. ङ. च छ. झ. ड. ४. रेः । त्वं तु मुश्रावितो व । ६ क. ख. घ. इ. च. छ.स. ड.. 'श्य त्वमिन्दमती प्रबोधय । नि । क.ख.घ. उ. च. छ. झ.ट. इ.इ. विष्णुरुवाच । ८ क.ख.. च. छ. ..... भामन्त्र्य।