________________
१०६ महामुनिश्रीव्यासमणीत
[ १ आदिखण्डेप्रयाणामपि चैतेषां ज्ञानी त्वभ्यधिको मतः । न तस्य विद्यते कार्य न लिङ्ग वा विपश्चितः ॥ निर्ममो निर्भयः शान्तो निद्वः पर्णभोजनः । जीर्णकोपीनवासाः स्यान्नग्नो वो ज्ञानतत्परः॥१. ब्रह्मचारी जिताहारो ग्रामादनं समाहरेत् । अध्यात्मरतिरासीत निरपेक्षो निरामिषः ॥ १: आत्ममैव सहायेन सुखार्थ विचरेदिह । नाभिनन्देत मरणं नाभिनन्देत जीवनम् ॥ १. कालमेव प्रतीक्षेत निदेशं भृतको यथा । नाध्येतव्यं न वक्तव्यं श्रोतव्यं न कदाचन ॥ ? एवं ज्ञानपरो योगी ब्रह्मभूयाय कल्पते । एकवासाऽथवा विद्वान्कोपीनाच्छादनोऽपि वा ॥ १ मुण्डी शिखी वाऽथ भवेत्रिदण्डी निष्परिग्रहः । कषायवासाः सततं ध्यानयोगपरायणः॥ प्रामान्ते वृक्षमूले वा वसेदेवालयेऽपि वा ॥ समः शत्रौ तथा मित्रे तथा मानापमानयोः। भैक्षेण वर्तयेन्नित्यं नैकान्नादी भवेत्कचित् ॥ १६ यस्तु मोहेन वाऽन्यस्मादेकानादी भवेद्यतिः । न तस्य निष्कृतिः काचिद्धर्मशास्त्रेषु दृश्यते ॥१॥ रागद्वेषवियुक्तात्मा समलोष्टाश्मकाञ्चनः । प्राणिहिमानिवृत्तश्च मोनी स्यात्सर्वनिस्पृहः॥ १. दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिवेत् । सत्यपूतां वदेद्वाणी मनःपूतं समाचरेत् ॥ १ नेकत्र निवसेदेशे वर्षाभ्योऽन्यत्र भिक्षुकः । स्नात्वा शोचतो नित्यं कमण्डलुकरः शुचिः ॥२॥ ब्रह्मचर्यरतो नित्यं वनवासरतो भवेत् । मोक्षशास्त्रेषु निरतो ब्रह्मसूत्री जितेन्द्रियः॥ २' दम्भाहंकारनिर्मुक्तो निन्दापैशुन्यवर्जितः । आत्मज्ञानगुणोपेतो यदि मोक्षमवामुयात् ॥ २ अभ्यसेत्सततं देवं प्रणवाख्यं सनातनम् । स्नात्वाऽऽचम्य विधानेन शुचिर्देवालयादिषु ॥ २: यज्ञोपवीती शान्तात्मा कुशपाणिः समाहितः । धौतकाषायवसनो भस्माच्छन्नतनूरुहः ॥ २ः अधियझं ब्रह्म जपेदाधिदैविकमेव च । आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ २८ पुत्रेषु वाऽथ निवसन्ब्रह्मचारी यतिर्मुनिः । वेदमेवाभ्यसन्नित्यं स याति परमां गतिम् ॥ २६ अहिंसा सत्यमस्तेयं ब्रह्मचर्य तपः परम् । क्षमा दया च संतापो व्रतान्यस्य विशेषतः ॥ २॥ वेदान्तज्ञाननिष्ठो वा पञ्चयज्ञान्समाहितः । कुर्यादहरहः स्नात्वा भिक्षार्थेनैव तेन हि ॥ २॥ होममन्त्राञ्जपेन्नित्यं काले काले समाहितः । स्वाध्यायं चान्वहं कुर्यात्सावित्री संध्ययोर्जपेत् २९ ध्यायीत सततं देवमेकान्ते परमेश्वरम् । एकानं वर्जयन्नित्यं कामक्रोधं परिग्रहम् ॥ ३. एकवासा द्विवासाऽथ शिखी यज्ञोपवीतवान् । कमण्डलुकरो विद्वांस्त्रिदण्डो याति तत्परम् ॥ ३॥ __ इति श्रीमहापुराणे पाद्म आदिखण्डे यतिधर्मनिरूपणं नामकोनषष्टितमोऽध्यायः ॥ ५९॥
आदितः श्लोकानां समष्टयङ्काः-२९९.०
अथ षष्टितमोऽध्यायः ।
व्यास उवाचएवं त्वाश्रमनिष्ठानां यतीनां नियतात्मनाम् । भैक्ष्येण वर्तनं प्रोक्तं फलमूलेरथापि वा ॥ एककालं चरेद्रेक्ष्यं न प्रसज्येत विस्तरम् । भैक्ष्ये प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ ६ सप्तागारं चरेद्रेक्ष्यमलाभे न पुनश्चरेत् । गोदोहमात्र तिष्ठेत कालं भिक्षुरधोमुखः ॥ भिक्षेत्युक्त्वा सकतूणीमश्नीयाद्वाग्यतः शुचिः । प्रक्षाल्य पाणिपादौ च समाचम्य यथाविधि॥
१ ट. वा ध्यान । २ म. 'राशिषः । ३ ट. निदोषोऽसत्यव'।