________________
३२ द्वात्रिंशोऽध्यायः ]
पद्मपुराणम् ।
६१
१९१
१९२
गेहं तावकमाजग्मुर्मध्याह्ने क्षुत्पिपासिताः । वैश्वदेवान्तरे काले त्वया दृष्टा गृहाङ्गणे ।। सगद्गदं माश्रुनेत्रं सहर्षं च ससंभ्रमम् । दण्डवत्प्रणिपातेन बहुमानपुरःसरम् || प्रणम्य चरणैर्मूर्ध्ना कृत्वा पाणियुगाञ्जलिम् । तदाऽभिनन्दिताः सर्वे त्वया सूतृतया गिरा ।। १९३ अद्य मे सफलं जन्म जीवितं सफलं तथा । अद्य विष्णुः प्रसन्नो मे सनाथोऽथास्मि पावनः १९४ धन्योऽस्य गृहं धन्यं धन्या अग्र कुटुम्बिनः । ममाद्य पितरो धन्या धन्या गावः श्रुतं धनम् ॥ यदृष्टौ भवतां पादौ तापत्रयहरौ मया । भवतां दर्शनं यस्माद्धन्यस्यैव हरेरिव ॥ १९६ एवं संपूज्य कृत्वा तु पादप्रक्षालनं तथा । धृतं मूर्ध्नि विशां श्रेष्ठ श्रद्धया परया तदा ॥ १९७ यत्र पादोदकं वैश्य श्रद्धया शिरमा धृतम् । गन्धपुष्पाक्षतैर्धूपैदीपैर्भावपुरःसरम् ।। १९८ संपूज्य सुन्दरानेन भोजिता यतयस्तथा । तृप्ताः परमहंसास्ते विश्रान्ता मन्दिरे निशि ।। १९९ ध्यायन्तश्च परं ब्रह्म यज्ज्योतिर्ज्योतिषां मतम् । तेषामातिथ्यजं पुण्यं जातं यते विशां वर । २०० न तद्वक्त्रसहस्त्रेण वक्तुं शक्नोम्यहं खलु । भूतानां प्राणिनः श्रेष्ठाः प्राणिनां मतिजीविनः ॥ मतिमत्सु नराः श्रेष्ठा नरेषु ब्रह्मजातयः ॥
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः । कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः || अत एव सुपूज्यास्ते तस्माच्छ्रेष्ठा जगत्रये । तत्संगतिर्विशां श्रेष्ठ महापातकनाशिनी ॥ विश्रान्ता गृहिणो गेहे संतुष्टा ब्रह्मवेदिनः । आजन्मसंचितं पापं नाशयन्तीक्षणेन वै ॥ संचितं यनृहस्थस्य पापमामरणान्तिकम् । विनिर्दहति तत्सर्वमेकरात्रोपिनो यतिः ।। स्वभ्रात्रे देहि तत्पुण्यं नरकाद्येन मुच्यते । इति दूतवचः श्रुत्वा ददौ पुण्यं स सत्वरम् || हृष्टेन चेतसा भ्राता निरयात्सोऽपिनिर्गतः ||
२०६
देवैस्तौ पुष्पवर्षेण पूजितौ च दिवं गतौ । ताभ्यां संपूजितः सम्यग्गतो दूतो यथागतः || २०७ अखिलभुवनबोधं देवदूतस्य वाक्यं निगमवचनतुल्यं वैश्यपुत्रो निशम्य । स्वकृतसुकृतदानाद्धातरं तारयित्वा सुरपतिवरलोकं तेन सार्धं जगाम ॥
इतिहासमिमं राजन्यः पठेच्छृणुयादपि । स गोसहस्रदानस्य विशोको लभते फलम् ॥ इति श्रीमहापुराणे पाच आदिखण्ड एकत्रिंशोऽध्यायः ॥ ३१ ॥ आदितः लोकानां समथ्र्यङ्काः
अथ द्वात्रिंशोऽध्यायः ।
-
- १७५२
२०१
२०२
२०३
२०४
२०६
नारद उवाच -
ततो गच्छेत राजेन्द्र सुगन्धं लोकविश्रुतम् । सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते ।। रुद्रावर्त ततो गच्छेत्तीर्थसेवी नराधिप । तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते ।। गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च संगमे । स्नातोऽश्वमेधमाप्नोति स्वर्गलोकं च गच्छति ॥ तत्र कर्णहूदे स्नात्वा देवमभ्यर्च्य शंकरम् । न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति ।। ततः कुब्जाम्रकं गच्छेत्तीर्थसेवी यथाक्रमम् । गोसहस्रमवाप्रोति स्वर्गलोकं च गच्छति ॥ अरुन्धतीवढं गच्छेत्तीर्थमेवी नराधिप । सामुद्रकमुपस्पृश्य त्रिरात्रोपोषितो नरः || गोसहस्रफलं विन्द्यात्स्वर्गलोकं च गच्छति ।।
1
१. या भवता जलम् । ग. २ ख ज 'नः । यतयश्च सु ।
२०८
२०९
a. r