________________
१६३
महामुनिश्रीव्यासप्रणीतं
[१ आदिखण्डेयमुना चन्द्रभागा न तुल्या हरिदिनेन तु । अनायासेन येनात्र प्राप्यते वैष्णवं पदम् ॥ १६२ रात्रौ नागरणं कृत्वा समुपोप्य हरेर्दिने । दश वै पैतृके पक्षे मातृके दश पूर्वजाः॥ भियाया दश ये वैश्य तानुद्धरति निश्चितम् ॥ द्वंद्वसङ्गं परित्यक्त्वा नागारिकृतकेतनाः । स्रग्विणः पीतवसनाः प्रयान्ति हरिमन्दिरम् ॥ १६४ बालत्वे यौवने वाऽपि वार्धके वा विशां वर । उपोप्यैकादशीं नृनं नैति पापोऽतिदुर्गतिम् १६५ उपोप्येह त्रिरात्राणि कृत्वा वा तीर्थमज्जनम् । दत्त्वा हेमतिलान्गाश्च स्वर्ग यान्तीह मानवाः१६६ तीर्ये स्नान्ति न ये वैश्य न दत्तं काश्चनं च यः। नैव तप्तं तपः किंचित्ते स्युः सर्वत्र दुःखिताः१६७ संक्षिप्य कथितं धर्म नरकस्य निरूपणम् । अद्रोहः सर्वभूतंपु वाङ्मनःकायकर्मभिः ॥ १६८ इन्द्रियाणां निरोधश्च दानं च हरिसेवनम् । वर्णाश्रमक्रियाणां च पालनं विधितः सदा ॥१६९ स्वर्गार्थी सर्वदा वैश्य तपो दानं न कीर्तयेत् । यथाशक्ति तथा दद्यादात्मनो हितकाम्यया १७० उपानद्वस्त्रदत्तानि पत्रं मूलं फलं जलम् । अवन्ध्यं दिवसं कार्य दरिद्रणापि वेश्यक ॥ १७१ इह लोके परे चैव न दत्तं नापतिष्ठते । दातारो नेव पश्यन्ति तां तां वे यमयातनाम् ॥ दीर्घायुषो धनाढ्याश्च भवन्तीह पुनः पुनः॥ किमत्र बहुनोक्तेन यान्त्यधर्मेण दुर्गतिम् । आरोहन्ति दिवं धर्मेनराः सर्वत्र सर्वदा ॥ १७३ तेन पालत्वमारभ्य कर्तव्यो धर्मसंग्रहः । इति ते कथितं सर्व किमन्यच्छ्रोतुमिच्छास ॥ १७४
वैश्य उवाचश्रुत्वा त्वद्वचनं सौम्य प्रसन्नं चित्तमेव मे । गङ्गादं पापहं सद्यः पापहारि सतां वचः॥ १७५ उपकर्तुं प्रियं वक्तुं गुणो नैसर्गिकः सताम् । शीतांशुः क्रियते केन शीतलोऽमृतमण्डलः ॥ १७६ देवदूत ततो ब्रूहि कारुण्यान्मम पृच्छतः । नरकानिप्कृतिः सद्यो भ्रातुर्मे जायते कथम् ॥१७७ इति तस्य वचः श्रुत्वा देवदूतो जगाद ह । ध्यानं दृष्ट्वा क्षणं ध्यात्वा तन्मैत्रीरज्जुबन्धनः।।१७८ यत्ते वैश्याष्टमे पुण्यं त्वया जन्मनि संचितम् । तद्धात्र दीयतां सर्व स्वर्ग तस्य यदीच्छसि ॥१७९
विकुण्डल उवाचकिं तत्पुण्यं कथं जातं किं जन्म च पुरातनम् । तत्सर्व कथ्यतां दूत ततो दास्यामि सत्वरम् १८०
देवदूत उवाचभृणु वैश्य प्रवक्ष्यामि तत्पुण्यं च सहेतुकम् । पुरा मधुवने पुण्य ऋपिरासीच शाकुनिः ॥ १८१ तपोध्यपनसंपन्नस्तंजसा ब्रह्मणा समः । जज्ञिरे तस्य रेवत्यां नव पुत्रा ग्रहा इव ॥ १८२ ध्रुवः शाली बुधस्तारो ज्योतिप्मानुत पञ्चमः । अग्निहोत्ररता ह्यते गृहधर्मेपु रेमिरे ॥ १८३ निर्मोहो जितकामश्च ध्यानकाष्ठो गुणाधिकः। एतं गृहविरक्ताश्च चत्वारा द्विजसूनवः ॥ १८४ चतुर्थाश्रममापन्नाः सर्वकामविनिस्पृहाः । ग्रामकवासिनः सर्वे निःसङ्गा निष्परिग्रहाः॥ १४५ निराशा निष्पयत्नाश्च समलोष्टाश्मकाञ्चनाः। येन केनचिदाच्छन्ना येन केनचिदासि(शि)ताः १८६ सायंगृहास्तथा नित्यं नित्यं ध्यानपरायणाः । जितनिद्रा जिताहारा वातशीतसहिष्णवः ॥ १८७ पश्वन्तो विष्णुरूपेण जगत्मने चराचरम् । चरन्ति लीलया पृथ्वी तेऽन्योन्यं मानमास्थिताः१८८ न कुर्वन्ति क्रियां कांचिदर्थमात्रं हि योगिनः । दृष्टज्ञाना असंदहाश्चिद्विकारविशारदाः ॥ १८९ एवं ते तव विप्रस्य पूर्वमष्टमजन्मनि । तिष्ठता मध्यदेशेषु पुत्रदारकुटुम्बिनः ॥ १९०
१ ट. 'त्वा अब्रवीद्वाक्यमुत्तमम् । य । २ ख. अ. 'नकोशा गु। ३ ट. 'दल्पमा ।