________________
३१ एकत्रिंशोऽध्यायः ] पद्मपुराणम् । कामैः क्रोधैः प्रलोभैश्च व्याप्तो योऽत्र नराधमः । सोऽपि याति हरेर्लोक शालग्रामशिलार्चनात्१२९ यः पूजयेच्च गोविन्दं शालग्रामे मुदा नरः । आभूतसंप्लवं यावन स प्रच्यवते दिवः ॥ १३० विना तीर्थेविना दानविना यज्ञैविना मंतिम् । मुक्तिं याम्ति नरा वैश्य शालग्रामाशलार्चनात् १३१ नरकं गर्भवासं च तिर्यक्त्वं कृमियोनिताम् । न याति वैश्य पापोऽपि शालग्रामशिलार्चकः १३२ दीक्षाविधानमत्रज्ञो यश्चक्रे बलिमाहरेत् । गङ्गागोदावरीरेवा नद्यो मुक्तिमदाश्च याः॥ निवसन्तीह ताः सर्वाः शालग्रामशिलाजले ॥ नैवेद्यविविधैः पुष्पधूपदीपैविलेपनैः ।। गीतवादित्रस्तोत्राद्यैः शालग्रामशिलार्चनम् ॥ १३४ कुरुते मानवो यस्तु कलौ भक्तिपरायणः । कल्पकोटिसहस्राणि रमते संनिधौ हरेः॥ १३५ लिङ्गैस्तु कोटिभिर्यत्फलं पूजितैस्तुतैः । शालग्रामशिलायास्तु टेकेनाहा ह तत्फलम् ॥ १३६ सदभ्यचित लिङ्गे शालग्रामधिलोद्भवे । मुक्तिं प्रयान्ति मनुजा नूनं सांख्येन वर्जिताः॥१३७ शालग्रामशिलारूपी यत्र तिष्ठति केशवः । तत्र देवाः सुरा यक्षा भुवनानि चतुर्दश ॥ १३८ शालग्रामशिलायां तु यः श्राद्धं कुरुते नरः । पितरस्तस्य तिष्ठन्ति तृप्ताः कल्पशप्तं दिवि॥ १३९ ये पिबन्ति नरा नित्यं शालग्रामशिलाजलम् । पञ्चगव्यसहस्रैस्तु सेवितैः किं प्रयोजनम् ॥१४० कोटितीर्थसहस्रेस्तु सेवितैः किं प्रयोजनं । तोयं यदि पिवेत्पुण्यं शालग्रामशिलाङ्गजम् ॥ १४१ शालग्रामशिला यत्र तत्तीर्थ योजनत्रयम् । तत्र दानं च होमं च सर्व कोटिगुणं भवेत् ॥ १४२ शालग्रामशिलातोयं यः पिवेद्विन्दुना समम् ॥ मातृस्तन्यं पुनर्नव स पिवद्विष्णुभानरः॥ १४३ शालग्रामसमीपे तु कोशमात्रं समन्ततः । कीटकोऽपि मृतो याति वैकुण्ठं भुवनं परम् ॥ १४४ शालग्रामशिलाचक्रं यो दद्यादानमुत्तमम् । भूचक्रं तन दत्तं स्यात्सशैलवनकाननम् ॥ १४५ शालग्रामशिलाया यो मूल्यमुत्पादयनरः। विक्रेता चानुमन्ता यः परीक्षासु च मोदते ॥ १४६ ते सर्वे नरकं यान्ति यावदाभतसंप्लवम् । अतस्तं वर्जयेद्वेश्य चक्रस्य क्रयविक्रयम् ॥ १४७ बहुनोक्तेन किं वैश्य कर्तव्यं पापभीरुणा । स्मरणं वासुदेवस्य सर्वपापहरं हरेः॥ १४८ तपस्तप्त्वा नरो घोरमरण्ये नियतेन्द्रियः॥ यत्फलं समवामोति तन्नत्वा गरुडध्वजम् ॥ १४९ कृत्वाऽपि बहुशः पापं नरा मोहसमन्विनः । न याति नरकं नत्वा सर्वपापहरं हरिं ॥ १५० पृथिव्यां यानि तीथानि पुण्यान्यायतनानि च । तानि मर्वाण्यवानोति विष्णोर्नामानुकीर्जनात् १५१ देवं शार्ङ्गधरं विष्णुं ये प्रपन्नाः परायणाः। न तेषां यमसालोक्यं न ते स्युर्नरकोकमः॥ १५२ वेपणवः पुरुषो वेश्य शिवनिन्दा करोति यः। न विन्देवैष्णवं लोकं स याति नरकं महत् १५३ उपोष्यैकादशीमेकां प्रसङ्गनापि मानवः । न याति यातनां यामीमिति लोमशतः श्रुतम् ॥ १५४ नेदृशं पावनं किंचित्रिषु लोकेषु विद्यते । उभयं पद्मनाभस्य दिनं पातकनाशनम् ।। १५५ तावत्पापानि देहेऽस्मिन्वसन्तीह विशां वर । यावन्नोपवसेज्जन्तुः पद्मनाभदिनं शुभम् ।। १५६ अश्वमेधसहस्राणि राजस्यशतानि च । एकादश्युपवासस्य कलां नाईन्ति पोडशीम् ॥ १५७ एकादशेन्द्रियैः पापं यत्कृतं वैश्य मानवैः । एकादश्युपवासेन तत्सर्वं क्लियं व्रजेत् ॥ १५८ एकादशीसमं किंचित्पुण्यं लोके न विद्यते । व्याजेनापि कृता यैस्तु वशं यान्ति न भास्करेः१५९ स्वर्गमोक्षपदा ह्येषा शरीरारोग्यदायिनी । सुकलत्रपदा ह्येषा जीवत्पुत्रप्रदायिनी ॥ १६० न गङ्गा न गया वैश्य न काशी न च पुष्करम् । न चापि वैष्णवं क्षेत्रं तुल्यं हरिदिनेन तु॥१६१
१ ख. अ. व्रतैः । २ ख. ज 'मामेति लोकं स वैष्णवम् ।