________________
महामुनिश्रीव्यासमणीवं
[ १ आदिखण्डेविचारयन्ति ये शास्त्र वेदाभ्यासरताच ये । पुराण संहितां ये च श्रावयन्ति पठन्ति च ॥ ९६ व्याकुर्वन्ति स्मृतिं ये च ये धर्मप्रतिबोधकाः । वेदान्तेषु निषण्णा ये तैरियं जगती धृता ॥ ९७ सत्तदभ्यासमाहात्म्यैः सर्वे ते हतकिल्विषाः । गच्छन्ति ब्रह्मणो लोकं यत्र मोहो न विद्यते।।९८ ज्ञानमहाय यो दद्याद्वेदशास्त्रसमुद्भवम् । अपि वेदास्तमर्चन्ति भवबन्धविदारणम् ॥ ९९ श्रूयतामद्भुतं ह्येतद्रहस्यं वैश्यसत्तम । संमतं धर्मराजस्य सर्वलोकामृतपदम् ॥ १०० न यमं यमलोकंच ने भूतान्योरदर्शनान् । पश्यन्ति वैष्णवा नूनं सत्यं सत्यं मयोदितम् ॥१०१ पाहास्मान्यमुनाभ्राता सदैव हि पुनः पुनः। भवद्भिवैष्णवास्त्याज्या न ते स्युर्मम गोचराः॥ १०२ स्मरन्ति ये सकृद्भूताः प्रसङ्गेनापि केशवम्।ते विध्वस्ताखिलापौघा यान्ति विष्णोः परं पदम् ॥१०३ दुराचारो दुष्कृतोऽपि सदाचाररतोऽपि यः। भवद्भिः स सदा त्याज्यो विष्णुं च भजते नरः॥१०४ वैष्णवो यन्हे भुक्ते येषां वैष्णवसंगतिः। तेऽपि वः परिवार्याः स्युस्तत्सङ्गहतकिल्बिषाः ॥१०५ इत्यं वैश्यानुशास्त्यस्मान्देवो दण्डधरः सदा। अतो नो वैष्णवा यान्ति राजधानी यमस्य तु ॥ १०६ विष्णुभक्तिं विना नणां पापिष्टानां विशां वर। उपायो नास्ति नास्त्यन्यःसंततु नरकाम्बुधिम् १०७ श्वपाकमपि नेक्षेत लोकेष्टं वैश्य वैष्णवम् । वैष्णवो वर्णबाह्योऽपि पुनाति भुवनत्रयम् ॥ १०८
एतावताऽलमघनिर्हरणाय पुंमां संकीर्तनं भगवतो गुणकर्मनाम्नाम् ।
विक्रुश्य पुत्रमघवान्यदजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्तिम् ॥१०९ नरके तु चिरं मग्नाः पूर्वे ये च कुलद्वये । तदैव यान्ति ते स्वर्ग यदाऽर्चन्ति मुदा हरिम् ॥ ११० विष्णुभक्तस्य ये दासा वैष्णवानभुजश्च ये । ते तु क्रतुभुजां वैश्य गतिं यान्ति निराकुलाः ॥१११ प्रार्थयेद्वेष्णवस्यान्नं प्रयत्नेन विचक्षणः । सर्वपापविशुद्ध्यर्थ तदभावे जलं पिबेत ॥ ११२ गोविन्देति जपन्मन्नं कुत्रचिन्त्रियते यदि । स नरो न यमं पश्येत्तं च नक्षामहे वयम् ॥ ११३ साङ्गं समुद्रं सध्यानं सऋषिच्छन्ददैवतम् । दीक्षया विधिवन्मत्रं जपेद्वै द्वादशाक्षरम् ॥ ११४ अष्टाक्षरेण मत्रेण ये जपन्ति नरोत्तमाः। तान्दृष्ट्वा ब्रह्महा शुध्येद्वाजते विष्णुवत्स्वयम् ॥ ११५ शनिश्चक्रिणो भूत्वा ब्रह्माभ्यन्तरगामिनः । वसन्ति वैष्णवे लोके विष्णुरूपेण ते नराः॥११६ हृदि सूर्ये जले वाऽथ प्रतिमास्थण्डिलेऽपि च । समभ्यर्च्य हरिं यान्ति नरास्तद्वैष्णवं पदम् ॥११७ अथवा सर्वदा पूज्यो वासुदेवो मुमुक्षुभिः । शालग्रामे मणी चक्र वज्रकीटविनिर्मिते ॥ ११८ अधिष्ठानं हि तद्विष्णोः सर्वपापप्रणाशनम् । सर्वपुण्यप्रदं वैश्य सर्वेषामपि मुक्तिदम् ॥ ११९ यः पूजयेद्धरिं चक्रे शालग्रामशिलोद्भवे । राजसूयसहस्रेण तनष्टं प्रतिवासरे ॥ १२० सदा नमन्ति वेदान्ता ब्रह्म निर्वाणमच्युतम् । तत्प्रसादो भवेन्नृणां शालग्रामशिलार्चनात्।। १२१ महाकाष्ठस्थितो बहिर्मुखस्थाने प्रकाशते । यथा तथा हरिर्व्यापी शालग्रामे प्रकाशते ॥ १२२ अपि पापसमाचाराः कर्मण्यनधिकारिणः। शालग्रामार्चका वैश्य नैव यान्ति यमालयम् ॥ १२३ न तथा रमते लक्ष्म्यां न तथा स्वपुरे हरिः। शालग्रामशिलाचक्र यथा स रमते सदा ॥ १२४ अमिहोत्रं कृतं तेन दत्ता पृथ्वी ससागरा । येनार्चितो हरिश्चक्रे शालग्रामशिलोद्भवे ॥ १२५ शिला द्वादश भो वैश्य शालग्रामशिलोद्भवाः । विधिवत्पूजिता येन तस्य पुण्यं वदामि ते १२६ कोटिद्वादशलिङ्गैस्तु पूजितैः स्वर्णपङ्कजैः । यत्स्यावादशकालेषु दिननैकेन तद्भवेत् ॥ १२७ यः पुनः पूजयेद्भक्त्या शालग्रामशिलांशतम् । उषित्वा स हरेर्लोके चक्रवर्तीह जायते ॥ १२८
१ स. ज. न दूता। २ स. अ. 'लातलम् ।