________________
३१ एकत्रिंशोऽध्यायः ]
पद्मपुराणम् । नैवाऽऽक्रामन्ति दातारो दारुणं रौरवं पथम् । इह लोके न जायन्ते कुले धनविवर्जिते ॥ ६२ सत्यवादी सदामोनी प्रियवादी च यो नरः । अक्रोधनः समाचारो नातिवाद्यनसूयकः ॥ ६१ सदा दाक्षिण्यसंपन्नः सदा भूतदयान्वितः । गोप्ता च परमर्माणां वक्ता परगुणस्य च ॥ ६४ परस्वं तृणमात्रं च मनसाऽपि न यो हरेत् । न पश्यन्ति विशां श्रेष्ठ येते नरकयातनाम् ॥ ६५ परापवादी पाखण्डः पापेभ्योऽपि मतोऽधिकः । पच्यते नरके तावद्यावदाभूतसंप्लवम् ॥ ६६ वक्ता परुषवाक्याना मन्तव्यो नरकागतः । संदेहो न विशां श्रेष्ठ पुनर्याति च दुर्गतिम् ॥ ६७ न तीथेने तपोभिश्च कृतघ्नस्य च निष्कृतिः। सहते यातनां घोरां स नरो नरके चिरम् ॥ ६८ पृथिव्यां यानि तीर्थानि तेषु मज्जति यो नरः । जितेन्द्रियो जिताहारो न स याति यमालयम्६९ न तीर्थे पातकं कुयोन च तीर्थोपजीवनम् । तीर्थे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्य विक्रयः ॥७० दुर्जरं पातकं तीर्थे दुर्जरश्च प्रतिग्रहः। तीर्थे च दुर्जरं सर्वमेतत्किनरकं व्रजेत् ॥ सकृद्गगाभसि स्नातः पूतो गाङ्गेयवारिणा । न नरो नरकं याति अपि पातकराशिकृत् ॥ ७२ व्रतदानतपोयज्ञाः पवित्राणीतराणि च । गङ्गाविन्द्वभिषिक्तस्य न समा इति नः श्रुतम् ॥ ७३ अन्यतीर्थसमां गङ्गां यो ब्रवीति नराधमः । म याति नरकं वैश्य दारुणं रौरवं महत् ॥ ७४ धर्मद्रवं झपां वीजं वैकुण्ठचरणच्युतम् । धृतं मूर्ति महेशेन यद्गाङ्गममलं जलम् ॥ तब्रह्मैव न संदेहो निर्गुणं प्रकृतेः परम् । तेन किं समतां गच्छेदपि ब्रह्माण्डगोचरे ।। गङ्गा गङ्गेति यो ब्रूयायोजनानां शनैरपि । नरो न नरकं याति किं तया सदृशं भवेत् ॥ ७७ नान्येन दह्यते सद्यः क्रिया नरकदायिनी । गङ्गाम्भसि प्रयत्नेन स्नातव्यं तेन मानवैः॥ ७८ प्रतिग्रहनिवृत्तो यः प्रतिग्रहक्षमोऽपि सन् । म द्विजो द्योतते वैश्य तारारूपश्चिरं दिवि ॥ ७९ गामुद्धरन्ति ये पङ्काये रक्षन्ति च रोगिणः । म्रियन्ते गीगृहे ये च तेषां नमसि तारकाः॥८० यमलोकं न पश्यन्ति प्राणायामपरायणाः । अपि दुष्कृतकर्माणस्तरेव हतकिल्विषाः॥ ८१ दिवसे दिवसे वैश्य प्राणायामास्तु पोडश । अपि ब्रह्महणं माक्षात्पुनन्त्यहरहः कृताः॥ ८२ तपांमि पानि तप्यन्ते व्रतानि नियमाश्च ये । गोमहस्रपदानं च प्राणायामस्तु तत्समः॥ ८१ अबिन्दुं यः कुशाग्रेण मासे मासे नरः पिवेत् । संवत्सरशतं मागं प्राणायामस्तु तत्समः ॥ ८४ पातकं तु महद्यच्च तथा क्षुद्रोपपातकम् । प्राणायामैः क्षणान्सर्व भस्मसात्कुरुते नरः॥ ८५ मातृवत्परदारान्ये मन्यन्ते वै नरोत्तमाः । न ते यान्ति नरश्रेष्ठ कदाचिद्यमयातनाम् ॥ ८६ मनसाऽपि परेषां यः कलत्राणि न सेवते । सह लोकदयेनास्ति तेन वैश्य धरा धृता ॥ ८७ तस्माद्धान्वितैस्त्याज्यं परदारोपसेवनम् । नयन्ति परदारास्तु नरकानेकविंशतिम् ॥ ८८ लाभो न जायते येषां परदारेषु मानसे । ते यान्ति देवलोकं तु न यमं वैश्यसत्तम ॥ ८९ शश्वत्क्रोधनिदानेषु यः क्रोधेन न जीयते । जितस्वर्गः स मन्तव्यः पुरुषोऽक्रोधनो भुवि ॥९० मातरं पितरं पुत्र आराधयति देववत । अप्राप्ते वार्धके काले न याति च यमालयम् ॥ ९१ पितुश्चाधिकभावेन येऽर्चयन्ति गुरुं नराः। भवन्त्यतिथयो लोके ब्रह्मणस्ते विशां वर ॥ ९२ इह चैव स्त्रियो धन्याः शीलस्य परिरक्षणात् । शीलभङ्गे च नारीणां यमलोकः सुदारुणः ॥९३ शीलं रक्ष्यं सदा स्त्रीभिर्दुष्टसाविवर्जनात । शीलेन हि परः स्वर्गः स्त्रीणां वैश्य न संशयः॥९४ शद्रस्य पाकयज्ञेन निषिद्धाचरणेन च । दुर्गतिर्विहिता वैश्य तस्य सा नारकी गतिः॥ ९५
१८. भातृहण ।