________________
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डेब्रह्मावर्स ततो गच्छेब्रह्मचारी समाहितः । अश्वमेधमवामोति स्वर्गलोकं च गच्छति ॥ ७ यमुमामभवं गच्छेत्समुपस्पृश्य यामुनम् । अश्वमेधफलं लब्ध्वा ब्रह्मलोके महीयते ॥ ८ दर्वीसंक्रमणं प्राप्य तीर्थ त्रैलोक्यविश्रुतम् । अश्वमेधमवामोति स्वर्गलोकं च गच्छति ॥ ९ सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम् । तत्रोप्य रजनीः पश्च दद्याद्वहुसुवणेकम् ॥ १० अथ देवीं समासाद्य नरः परमदुर्गमम् । अश्वमेधमवामांति गच्छेच्चोशनसीं गतिम् ॥ ११ ऋषिकुल्यां समासाद्य वसिष्ठं चैव भारत । वसिष्ठं समतिक्रम्य सर्वे वर्णा द्विजातयः ॥ १२ ऋषिकुल्यां नरः स्नात्वा ऋपिलोकं प्रपद्यते । यदि तत्र वसेन्मासं शाकाहारो नराधिप ॥ १३ भृगुतुङ्ग समासाद्य वाजिमेधफलं लभेत् । गत्वा वीरममोक्षं च सर्वपापैः प्रमुच्यते ॥ १४ कृत्तिकामघयोश्चैव तीर्थमासाद्य दुर्लभम् । अग्निष्टोमातिरात्राभ्यां फलं प्रामोति पुण्यकृत् ॥ १५ ततः संध्यां समासाद्य विद्यातीर्थमनुत्तमम् । उपस्पृशेत्स विद्यानां सर्वासां परमो भवेत् ॥ १६ महाश्रमे वसेद्रात्रि सर्वपापप्रमोचने । एककालं निराहारी लोकान्संवसते शुभान् ॥ षष्ठकालोपवासेने मासमुष्य महालये । तीणस्तारयते जन्तून्दश पूर्वान्दशापरान् ॥ १८ दृष्ट्वा महेश्वरं पुण्यं परं सुरनमस्कृतम् । कृतार्थः सर्वकृत्येषु न शोचन्मरणं कचित् ॥ सर्वपापविशुद्धात्मा विन्द्याद सुवर्णकम् ॥ अथ वेतसिकां गच्छेत्पितामहनिषेविताम् । अश्वमेधमवामोति गतिं च परमां ब्रजेत् ॥ २० अथ सुन्दरिका तीर्थ प्राप्य सिद्धनिपविताम् । रूपस्य भागी भवति दृष्टमेतत्पुरातनः ॥ २१ ततो ब्राह्मणिकां गत्वा ब्रह्मचारी समाहितः । पद्मवर्णेन यानन ब्रह्मलोकं प्रपद्यते ॥ २२ सतश्च नैमिषं गच्छेत्पुण्यं द्विजनिषेवितम् । तत्र नित्यं निवसति ब्रह्मा देवगणः सह ॥ २३ नैमिषं प्रार्थयानस्य पापस्याध प्रणश्यति । प्रविष्टमानस्तु नरः सर्वपापात्प्रमुच्यते ॥ २४ तत्र मासं वसेद्धीरो नैमिषे तीर्थतत्परः। पृथिव्यां यानि तीर्थानि नैमिप तानि भारत ॥ २५ अभिषेकं सत्र कृत्वा नियता नियताशनः । राजसूयस्य यज्ञस्य फलं प्रामाति मानवः ॥ २६ धुनात्यासप्तमं चैव कुलं भरतसत्तम । यस्त्यजन्नमिपं प्राणानुपवासपरायणः॥ स मोदेत्स्वगेलोकस्थ एवमाहुमेनीपिणः । नित्यं मध्यं च पुण्यं च नमिष नृपसत्तम ।। २८ गणोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः । वानपेयमवामीति ब्रह्मभृतां भवेत्सदा ॥ सरस्वतीं समासाद्य तर्पयेत्पितृदेवताः। सारस्वतेषु लोकेषु मांदत नात्र संशयः ॥ ततश्च बहुदां गच्छेत्तीर्थसेवी नराधिप । तत्रोप्य रजनीमकां स्वर्गलोके महीयते ॥ देवसत्रस्य यज्ञस्य फलं पामोति मानवः ॥ ततश्च रजनी मच्छेत्पुण्यां पुण्यजनैताम् । पितृदेवार्चनरती वाजपेयमवाप्नुयात् ।। विमलाशोकमासाद्य विराजति यथा शशी । तत्रोष्य रजनीमेकां स्वर्गलोके महीयते ॥ ३३ गोमतारं ततो गच्छेत्सरयूतीर्थमुत्तमम् । यत्र रामो गतः स्वर्ग सभृत्यवलवाहनः ॥ देहं त्यक्त्वा पुरा राजस्तस्य तीर्थस्य तेजसा । रामस्य च प्रसादेन व्यवसायाच्च भारत ॥ ३५ तस्पिस्तीर्थे नरः स्नात्वा गोमतारे नराधिपं । सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥ ३६ रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन । अश्वमेधमवामोति पुनाति स्वकुलं नरः॥ ३७
१ ख. म. 'न नरः पुण्यो महाश्रमे । ती । २ ख. अ. महाश्रमं । ३ क. गवामयस्य । ४ ख. इ. स. ट. ढ. बाहुदा । ५ट, गेहं।