________________
३३ त्रयस्त्रिंशोऽध्यायः ]
पद्मपुराणम् । शतसाहस्रक तत्र तीर्य भरतसत्तम । तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः ॥ गोसहस्रफलं पुण्यमामोति भरतर्षभ ॥
२८ ततो गच्छेत धर्मज्ञ ऊर्ध्वस्थानमनुत्तमम् । कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप ॥ ३९ गोसहस्रफलं विन्यात्तेजस्वी चापि जायते । ततो वाराणसी गत्वा अर्चयित्वा वृषध्वजम् ॥४० कपिलानां इदे स्नात्वा राजसूयफलं लभेत् । मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य दुर्लभम् ॥ ४१ गोमतीगङ्गयोश्चैव संगमे लोकविश्रुते । अनिष्टोममवानोति कुलं चैव समुद्धरेत् ॥ १२
इति श्रीमहापुराणे पाद्म आदिखण्डे द्वात्रिंशोऽध्यायः ॥ ३२ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१७९४
अथ त्रयस्त्रिंशोऽध्यायः । युधिष्ठिर उवाचवाराणस्याश्च माहात्म्यं संक्षेपात्कथितं त्वया । विस्तरेण मुने ब्रूहि तदा प्रीणाति मे मनः ॥ १
नारद उवाचअत्रेतिहासं वक्ष्यामि वाराणस्या गुणाश्रयम् । यस्य श्रवणमात्रेण मुच्यते ब्रह्महत्यया ॥ २ मेरुशृङ्गे पुरा देवमीशानं त्रिपुरद्विपम् । दिव्यासनगता देवी महादेवमपृच्छत ॥
देव्युवाचदेवदेव महादेव भक्तानामातिनाशन । कथं न्वां पुरुपो देवमचिरादेव पश्यति ॥ ४ सांख्ययोगस्तथा ध्यानं कर्मयोगोऽथ वैदिकः। आयासबहुला लोके यानि चान्यानि शंकर॥५ येन विश्रान्तचित्तानां योगिनां कर्मिणामपि । दृश्यो हि भगवान्सूक्ष्मः सर्वेपामथ देहिनाम् ॥६ एतद्गृह्यतमं ज्ञानं गूढं ब्रह्मादिसेवितम् । हिताय सर्वभूतानां हि कामाङ्गनाशन ॥
ईश्वर उवाचअवाच्यमबविज्ञानं ज्ञानम बहिष्कृतम् । वक्ष्ये तव यथातत्त्वं यदुक्तं परमर्पिभिः । परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी । सर्वेषामेव भूतानां संसारार्णवतारिणी ॥ तत्र भक्त्या महादेवि मदीयं व्रतमास्थिताः । निवसन्ति महात्मानः परं नियममास्थिताः॥१० उत्तमं सर्वतीर्थानां स्थानानामुत्तमं च तत् । ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम ॥ ११ स्थानान्तरपवित्राणि तीर्थान्यायतनानि च । श्मशानसंस्थितान्येव दिव्यभूमिगतानि च ॥ १२ भूलॊके नैव संलग्नमन्तरिक्षे ममालयम् । अमुक्तास्तन्न पश्यन्ति मुक्ताः पश्यन्ति चेतसा ॥ १३ श्मशानमेतद्विख्यातमविमुक्तमिति श्रुतं । कालो भृत्वा जगदिदं संहराम्यत्र सुन्दरि ॥ १४ देवीदं सर्वगुह्यानां स्थानं प्रियतरं मम । मद्भक्तास्तत्र गच्छन्ति मामेव प्रविशन्ति च ॥ १५ दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् । ध्यानमध्ययनं ज्ञानं सर्व तत्राक्षयं भवेत् ॥ १६ जन्मान्तरसहस्रेषु यत्पापं पूर्वसंचितम् । अविमुक्तं प्रषिष्टस्य तत्सर्वं व्रजति क्षयम् ॥ . १७ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च वर्णसंकराः। खियो म्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः१८ कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः । काले संनिधनं प्राप्ता अविमुक्ते वरानने ॥ १९ चन्द्रार्धमोलयत्यक्षा महापभवाहनाः। शिवे मम पुरे देवि जायन्ते तत्र मानवाः॥ २०
१ ख. ज. ट
मध्यापनं ।