________________
१६५
३२ त्रयोविंशोऽध्यायः ]
पअपुराणम् । वृत्र उवाचयदि सत्येन देवेन्द्रो मैत्रमिच्छति सत्तमः । सत्यमाश्रित एवाहं करिष्ये नात्र संशयः॥ २० छअमेवं पुरस्कृत्य इन्द्रो द्रोह समाचरेत् । तदा किं क्रियते विमा इत्यर्थे प्रत्ययं हि किम् ॥ २१ अथर्षयस्त्विन्द्रमूचुरित्यर्थप्रत्ययं वद । तत्र त्वं सत्यतां भूहि यदि मैत्रमिहेच्छसि ॥ २२
इन्द्र उवाचयद्यसत्येन वर्तेऽहं भवद्भिः सह च्छमना । ब्रह्महत्यादिकैः पापैलिप्येऽहं नात्र संशयः॥ २३ [*ते वृत्रं दैत्यनाथं तं पुनरूचुर्महौजसः । ब्रह्महत्यादिकः पापैलिप्येऽहं नात्र संशयः ॥ २४ इत्युवाच महाप्राज्ञ त्वामेवं स पुरंदरः । एतेन प्रत्ययेनापि सख्यं कुरु महामते ॥ २५
वृत्र उवाच-- भवतां शिष्टधर्मेण सत्येन तेन तस्य च । मैत्रमेवं करिष्यामि तेन सार्ध द्विजोत्तमाः॥ २६ वृत्रमिन्द्रस्य संस्थानं नीतं ब्राह्मणपुङ्गवैः । इन्द्रस्तमागतं दृष्ट्वा वृत्रमित्रार्थमुद्यतम् ॥ २७ सिंहासनात्समुत्थाय वर्षमादाय सत्वरः । ददौ तस्मै स धर्मात्मा वृत्राय द्विजसत्तमाः ॥ २८ अर्थ भुश्व महाप्राज्ञ ऐन्द्रमेवं महत्पदम् । वर्तितव्यं मुखेनापि चाऽऽवाभ्यां दैत्यसत्तम ॥ २९ एवं विश्वासयन्देत्यं वृत्रं मेत्रेण वे तदा । तेषु तेषु च कार्येषु च्छद्मना द्विजसत्तमाः ॥ ३० छिद्रं पश्यति दुष्टान्मा वृत्रस्यैवं सदेव हि । निराधारत्वमिन्द्रोऽपि दिवारात्रौ प्रवर्तते ॥ ३१ त्रस्य पश्यन्म च्छिद्रं छद्मनाऽपि महात्मनः । उपायं चिन्तयामास वृत्रहत्यै महाबलः ॥ ३२ रम्भा संप्रेषिता तेन मोहायास्यासुरस्य वे । येन केनाप्युपायेन यथाऽहं घातये शुभे॥ ३३ तथा कुरुष्व कल्याणि संमोहाय सुरद्विषः। वनं पुण्यं महदिव्यं पुण्यपादपशोभितम् ॥ ३४ बहुपुष्पफलोपेतं मृगपक्षिसमाकुलम् । विमानरतैर्दिव्यैः परितः परिशोभितम् ॥ दिव्यगन्धर्वसंगीतं भ्रमराकुलितं सदा । कोकिलानां रुतेः पुण्यैः सर्वत्र मधुरायते ॥ ['शिखिसारङ्गनादैश्च सर्वतुकुसुमाकुलम् ] । दिव्यस्तु चन्दनैक्षैः सर्वत्र समलंकृतम् ।। [*वापीकृपतडागेश्व जलपूर्णमनोहरेः । कमलेः शतपत्रश्च पुष्पितेः समलंकृतम् ॥ देवगन्धर्वसिद्धेश्च चारणैश्चैव किंनरः ] । मुनिभिः शुशुभे दिव्यैर्देवोद्यानवनेन च ॥ अप्सरोगणसंकीर्णनानाकौतुकमङ्गलैः । हेमप्रासादसंवाघेर्दण्डच्छत्रेश्च चामरैः ।। ['कलशेश्च पताकाभिः सर्वत्र समलंकृतम् ] । वेदध्वनिसमाकीर्ण गीतध्वनिसमाकुलम् ॥ ४१ एवं नन्दनमासाद्य सा रम्भा चारुहासिनी । अप्सरोभिः समं तत्र क्रीडत्येवं विलासिनी ॥४२
सूत उवाचएकदा तु स वृत्रो वै जगाम नन्दनं वनम् । कतिभिर्दानवैः सार्ध विश्वस्तः परया मुदा ॥ ४३ अलक्ष्यो भ्रमते पार्चे तस्यैव च महात्मनः । देवराजः स विप्रेन्द्राश्छिद्रान्वेषी विशङ्कितः॥ ४४
* एतचिहनान्तर्गतोऽय पाठः क. ख. ग. घ. च. छ. . ड. द.पुस्तकस्थः । । एतचिदान्तर्गतोऽयं पाठः क. ख.
ग.घ.च. छ. झ... पुस्तकस्थ: । एतचिदान्तगतोऽयं पाठः क ख ग. इ.च. छ. झ.ट.. पुस्तकस्थः । + एतथिहान्तर्गतोऽयं पाठः क. ख. ग. च. छ. झ. दृ ढ. पुस्तकस्थः ।
१. 'यं वदेत् । अ। २ क ख. ङ. च. छ. झ. ड. ढ. 'दा । गतेषु तेषु विप्रेषु स्वस्थानं द्वि' । ३ क.ख. ग. घ. १. च. छ. झ. ड. द. प्राचन्तयेत् । ४ ग. घ. 'मानमन्दिरैर्दिव्यः सर्वत्र पाट. 'मानवापिकारामः सर्वत्र प।५ क. ख, ग. घ. ङ, च. छ. १. ड. द. 'ध मुदया परया युतः । ।