________________
१६४ महामुनिश्रीव्यासपणीतं
[ २ भूमिखण्डेएवं निपातितं दैत्यं दितिनन्दनमेव च । वीक्ष्योत्सवं चकाराऽऽशु सुखेन पाकशासनः ॥ ४४
इति श्रीमहापुराणे पाझे भूमिखण्डे बलदैत्यवधो नाम द्वाविंशोऽध्यायः ॥ २२ ॥
आदितः श्लोकानां समष्ट्यङ्काः-४३८४
अथ त्रयोविंशोऽध्यायः ।
...'
.
"
सूत उवाचहतं श्रुत्वा दितिः पुत्रमिन्द्रेण तु महाद्विजाः । दुःखिता करुणं कृत्वा रुरोद च भृशं तथा ॥ ? भर्तारं च पुनः प्राप्य स्वदुःखं समुवाच ह । तव पुत्रो महापाप इन्द्रः सुरगणेश्वरः॥ २ सागरोपगतं दृष्ट्वौ मम पुत्रं बलं तथा । वज्रेण पातयामास जपमानं सनातनम् ॥ एवं श्रुत्वा ततः कुद्धो मरीचितनयस्तदा । क्रोधेन महताऽऽविष्टः प्रजज्बालेव वह्निना ॥ ४ अवलुभ्य जटामेको जुहावासौ द्विजोत्तमः । इन्द्रस्यैव वधार्थाय पुत्रमुत्पादयाम्यहम् ॥ तस्मात्कुण्डात्समुत्पन्नो हुताशनमुखादपि । कृष्णाञ्जनचयांपेतः पिङ्गाक्षो भीषणाकृतिः॥ ६ दंष्ट्राकरालवक्त्रान्तो जगतां भयदायकः । महासत्त्व निभो घोरो मृगचर्मधरस्तथा॥ ७ सखगस्तेजसा दीप्तो महामेघोपमो बली । उवाच कश्यपं विप्रमादेशो मम दीयताम् ॥ ८ कस्मादुत्पादितो विप्र भवता कारणं वद । तमहं साधयिष्यामि प्रसादात्तव सुव्रत ।
कश्यप उवाचअस्या मनोरथं पुत्र पूरयस्व ममैव हि । आदित्याख्यं महाप्राज्ञ जहि इन्द्रं दुरात्मकम् ॥ १० निहते देवराजे तु पदमन्द्रं प्रभुक्ष्व च । एवं तेन समादिष्टः कश्यपेन महात्मना ॥ ११ वृत्रस्तु ह्युद्यम चक्रे तस्येन्द्रस्य वधाय च । चतुर्वेदस्य चाभ्याम स चक्रे पौरुषान्वितः ॥ १२ बलं वीर्य तथा क्षात्रं तेजोधैर्यसमन्वितम् । [* दृष्ट्वा वृत्रस्य दैत्यस्य सहस्राक्षो भयातुरः] ॥ १३ उपायश्चिन्तितस्तस्य वृत्रस्यापि दुरात्मनः । वधार्थ देवराजेन ह्याहृयासो महामुनीन् ॥ सप्तपीन्प्रेषयामास वृत्रं देत्येश्वरं प्रति ॥ भवन्तस्तत्र गच्छन्तु यत्र वृत्रः स तिष्ठति । संधि कुर्वन्तु वै तेन सार्ध मम मुनीश्वराः ॥ १५ एवं तेन समादिष्टा मुनयः सप्त ते तदा । वृत्रासुरं गताः पोचुः सहस्राक्षः प्रयाचति ॥ १६ सख्यं कर्तुं प्रयच्छेत्स क्रियतां दत्यसत्तम । ['ऋषयः सप्त तत्त्वज्ञा ऊचुव॒त्रं महाबलम् ॥ १७ सहस्राक्षो महाप्राज्ञो भवता सह सत्तम । मैत्रमिच्छति वे कर्तुं तत्कथं न करोषि किम् ] ॥१८ अर्धमैन्द्रं पदं वीर स त्वं भुव मुखेन वै । वक्ति त्वामेवमिन्द्रोऽपि ह्यसुरा देवतास्तां ॥ कुरु मैत्री तु तेः सर्वैरं दूरे विसृज्य वै ॥
* एतचिहान्तर्गत पाठोड
. पुस्तकस्थः । एतचिहनानागतोऽयं पाटः क. ख. ग. घ. इ.च.छ.ट. ड. द.
पुस्तकस्थः।
१क. ख, ग, घ. इ. च. छ.झ.ट.ड.द, च। राज्यं चकार धर्मात्मा सु। २ क.ख. दृ.च.छ.झ.ड.. त्वा तया पुत्रं सुबलं बलमेव च । रुदितं करुणं कृत्वा हाहा कष्ट भृशं मम । एवं सुकरुणं कृत्वा बहुकालं तपस्विनी। सा गता कश्यपं कान्तं तमुवाच यशस्विनी । तव । ३ क.व. ग.घ. च. छ. झ.ट.ड. द. वा बलं में ब्रह्मलक्षणम् । व। ४ क.ख. ग. घ. हु च. छ. स. ट. ड. द. धनुर्वेदस्य । ५ क. ख. च. स. महात्मनः । ६ के.ख. ग. ह. च छ. झ. ह. द. था। सखं वर्तन्त ते सर्वे बैरं।