________________
१४४ महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेपुण्यं चैव ह्यनेनापि ह्यनेन फलमश्नुते । प्रियं कृत्वा पुनः पुण्यमनेन परिभुज्यते ॥ १०९ तत्सर्व हि सुखं प्रोक्तं यत्तथा यस्य लक्षणम् । धर्मशास्त्रोदितं चैव कृतं सर्वत्र नान्यथा ॥ ११० येन कायेन कुर्वन्ति तेन दुःखं सहन्ति ते । परत्र तेन भुञ्जन्ति ह्यनेनापि तथैव वा ॥ इति ज्ञात्वा स धर्मात्मा भैवान्समवलोकयेत् ॥ यथा चौरा महापापाः स्वकायेन सहन्ति ते । दुःखं च दारुणं ती तथा सुखं कथं न हि ११२
धर्म उवाचयेन कायेन ये पापा आचरन्ति हि पातकम् । तेन पीडा सहन्त्येव पातकस्य हि तत्फलम् ११३ दण्डमेकं परं दृष्टं धर्मशास्त्रेषु पण्डितैः । तं धर्मपूर्वकं विद्धि ह्येतेार्यस्त्वमेव हि ॥ ११४
दुर्वासा उवाचएवं न्यायं न मन्येऽहं तथैव शृणु धर्मराद । शापत्रयं प्रदास्यामि क्रुद्धोऽहं तव नान्यथा ॥ ११५
धर्म उवाचयदा क्रुद्धो महाप्राज्ञ मामेव हि क्षमस्व च। [*नेव क्षमसि विमेन्द्र दासीपुत्रं हि मां कुरु।। ११६ राजानं तु न कर्तव्यं चाण्डालं च महामुने । प्रसादसुमुरवां विप्र प्रणतस्य सदैव हि ॥ दुर्वासाश्च ततः क्रुद्धो धर्म चैव शशाप ह ॥
दुवोसा उवाचराजा भव त्वं धर्माद्य दासीपुत्रश्च नान्यथा । गच्छ चाण्डालयांनि च धर्म त्वं स्वेछया ब्रज ११८ एवं शापत्रयं दत्त्वा गतोऽसो द्विजसत्तमः । अनेनापि प्रसङ्गन दृष्टो धर्मः पुरा किल ॥ ११०
सोमशर्मोवाच-- धर्मस्तु कीदृशो जातस्तेन शप्तो महात्मना । तद्भोगं तस्य में शूहि यदि जानासि भामिनि १२०
सुमनोवाच"" भरतानां कुले जातो धर्मो भूत्वा युधिष्ठिरः । विदुगे दासिपुत्रम्तु अन्यच्चैव वदाम्यहम् ।।१२१ यदा राजा हरिश्चन्द्रो विश्वामित्रेण कर्पितः । तदा चाण्डालता प्राप्तः स हि धर्मो महामतिः ॥ दुर्वाससो हि शापाद्वै सत्यमुक्तं तवाग्रतः ॥
इति श्रीमहापुराणे पाद्मे भूमिखण्डे मोमश सुमनामवाद द्वादशोऽध्याय ॥ १२ ॥
आदितः श्लोकानां समष्टयङ्काः-३५१६
अथ त्रयोदशोऽध्यायः ।
सोमशर्मोवाचलक्षणं ब्रह्मचर्यस्य तन्मे विस्तरतो वद । कीदृशं ब्रह्मचर्य च यदि जानासि भामिनि ॥ ?
सुमनोवाचनित्यं सत्ये रतिर्यस्य पुण्यात्मा सँछुतां व्रजेत् । ऋती प्राप्त व्रजेन्नारी स्वीयां दोपविवर्जितः॥२ स्वकुलस्य सदाचारं कदा नैव विमुश्चति । एतत्ते हि सामख्यातं गृहस्थस्य द्विजोत्तम ॥ ३
क. ख, ग, घ, च, झ, ट.द. पुस्तकस्थीऽयं पाटः ।
१ अ. ह्यन्येना। छ. स. स्वच्छतां।
२ क. ख. ग. घ. च. छ. ज. झ. ट. द. नि व मच्छापाद्विज नान्यथा ए ।३ क. ख. च.