________________
१०४
महामुनिश्रीव्यासप्रणीतं—
[ १ आदिखण्डे
७० ७१
द्विजातिभ्यो धनं लिप्सेत्प्रशस्तेभ्यो द्विजोत्तमः । अपि राजन्यवैश्याभ्यां न तु शूद्रात्कथंचन ६९ वृत्तिसंकोचमन्विच्छेन्ने हेत धनविस्तरम् । धनलोभे प्रसक्तस्तु ब्राह्मण्यादेव हीयते ।। वेदानधीत्य सकलान्यज्ञांश्वावाप्य सर्वशः । न तां गतिमवामोति संतोषाद्यामवामुयात् ।। प्रतिग्रहरु चिर्न स्याच्छूद्रान्न तु समाहरेत् । स्थित्यर्थादधिकं गृह्णन्ब्राह्मणो यात्यधोगतिम् ॥ ७२ यस्तु याति न संतोषं न स स्वर्गस्य भाजनम् । उद्वेजयति भूतानि यथा चौरस्तथैव सः ॥ ७३ गुरून्भृत्यांश्वोज्जिहीर्षुस्तर्पयन्देवतातिथीन् । सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः ॥ एवं गृहस्थो युक्तात्मा देवतातिथिपूजकः । वर्तमानः संयतात्मा याति तत्परमं पदम् । ७५ पुत्रेषु भार्या निक्षिप्य गत्वाऽरण्यं तु तत्त्ववित् । एकाकी विचरेन्नित्यमुदासीनः समाहितः ॥ ७६ एष वः कथितो धर्मो गृहस्थानां द्विजोत्तमाः । ज्ञात्वा तु तिष्ठेन्नियतं तथाऽनुष्ठापयेद्विजान् ॥ ७७ इति देवमनादिमेकमीशं गृहधर्भेण समर्चयेदजस्रम् ।
७४
समतीत्य स सर्वभूतयोनिं प्रकृतिं याति परं न याति जन्म ||
इति श्रीमहापुराणे पाद्म आदिखण्डे गृहस्थधर्मनिर्णयो नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥ आदितः श्लोकानां समथ्यङ्काः - २९२३
अथाष्टपञ्चाशत्तमोऽध्यायः ।
७८
व्यास उवाच -
४
७
८
एवं गृहाश्रमे स्थित्वा द्वितीयं भागमायुषः । वानप्रस्थाश्रमं गच्छेत्सदारः सारेिव च ॥ निक्षिप्य भार्या पुत्रेषु गच्छेदनमथापि वा । दृष्ट्वाऽपत्यये वाऽपत्यं जर्जरीकृतविग्रहः ॥ शुक्लपक्षस्य पूर्वाह्णे प्रशस्ते चोत्तरायणे । गत्वाऽरण्यं नियमवांस्तपः कुर्यात्ममाहितः ।। फलमूलानि पूतानि नित्यमाहारमाहरेत् । यदाहारो भवेत्तेन पूजयेत्पितृदेवताः ॥ पूजयेदतिथिं नित्यं स्नात्वा चाभ्यर्चयेत्सुरान् । गृहादादाय चाश्नीयादष्टां ग्रासान्समाहितः।। ५ जटाश्च विभृयान्नित्यं नखरोमाणि नोत्सृजेत् । स्वाध्यायं सर्वथा कुर्यान्नियच्छेद्वाचमन्यतः || ६ अग्निहोत्रं तु जुहुयात्पञ्चयज्ञान्समाचरेत् । उत्पन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा ।। चीरवासा भवेन्नित्यं स्नायात्रिषवणं शुचिः । सर्वभूतानुकम्पश्च प्रतिग्रहविवर्जितः || दर्शेन पौर्णमासेन यजेत नियतं द्विजः । ऋत्विष्ट्याग्रयणे चैव चातुर्मास्यानि कारयेत् ।। उत्तरायणं च क्रमशो दक्षस्यायनमेव च । वासन्तशारदैर्मेध्यैरुत्पन्नैः स्वयमाहृतैः ।। पुरोडाशांश्वरूंश्चैव विधिवन्निर्वपेत्पृथक् । देवताभ्यश्च तद्धुत्वा वन्यं मेध्यतरं हविः ॥ शेषं समुपभुञ्जीत लवणं च स्वयं कृतम् । वर्जयेन्मद्यमांसानि भौमानि करकानि च ॥ भूस्तृणं शेष्पकं चैव श्लेष्मातकफलानि च । न फालकृष्टमश्रीयादुत्सृष्टमपि केनचित् ॥ न ग्रामजातान्यार्तोऽपि पुष्पाणि च फलानि च । श्रावणेनैव विधिना वह्निं परिचरेत्सदा ॥ १४ न त्सर्वभूतानि निर्द्वद्वो निर्भयो भवेत् । न नक्तं किंचिदश्नीयाद्रात्रौ ध्यानपरो भवेत् ।। १५ जितेन्द्रियो जितक्रोधस्तत्त्वज्ञानविचिन्तकः । ब्रह्मचारी भवेन्नित्यं न पत्नीमपि संश्रयेत् ।। १६ यस्तु पत्न्या वनं गत्वा मैथुनं कामतश्चरेत् । तद्व्रतं तस्य लुप्येत प्रायश्चित्तीयते द्विजः ।। १७ १ अ. 'ति पुनर्न या । २ क. 'स्य दांप ं । ३ ञ. कवकानि । ४ ख. ज. कवच ।
१२
१३
२
९
१०
११