________________
१०१
६७ सप्तपश्चाशत्तमोऽध्यायः] पद्मपुराणम् । द्विजानां वपुरास्थाय नित्यं तिष्ठन्ति देवताः। पूज्यन्ते ब्राह्मणालाभे प्रतिमादिषु तैः कचित् ॥ ३६ प्रतिमादिषु यत्नेन तस्मात्फलमभीप्सया । द्विजेषु देवता नित्यं पूजनीया विशेषतः॥ ३७ विभूतिकामः सततं पूजयेद्धि पुरंदरम् । ब्रह्मवर्चसकामस्तु ब्रह्माणं ज्ञानकामुकः ॥ ३८ आरोग्यकामोऽथ रवि धनकामो हुताशनम् । कर्मणां सिद्धिकामस्तु पूजयेद्वै विनायकम् ॥ ३९ भोगकामस्तु शशिनं बलकामः समीरणम् । मुमुक्षुः सर्वसंसारात्पयत्नेनार्चयेद्धरिम् ॥ ४० यस्तु योग तथा मोक्षमन्विच्छेज्ज्ञानमैश्वरम् । अर्चयेत विरूपाक्षं प्रयत्नेन सुरेश्वरम् ॥ ४१ ये वाञ्छन्ति महाभोगाज्ञानानि च महेश्वरम् । ते पूजयन्ति भूतेशं केशवं चापि भोगिनः॥४२ वारिदस्तृप्तिमामोति जलदानं ततोऽधिकम् । तैलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ ४३ भूमिदः सर्वमानोति दीर्घमायुर्हिरण्यदः । गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ॥ ४४ वामोदचन्द्रसालोक्यमश्वदो यानमुत्तमम् । अन्नदाता श्रियं स्खेष्टां गोदो बनस्य विष्टपम् ॥ ४५ यानशय्यापदो भार्यामेश्वर्यमभयपदः । धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्म शाश्वतम् ॥ ४६ धान्यान्यपि यथाशक्ति विप्रेषु प्रतिपादयेत् । वेदविद्याविशिष्टेषु प्रेत्य स्वर्ग समश्नुते ॥ ४७ गवां चानप्रदानेन सर्वपापैः प्रमुच्यते । इन्धनानां प्रदानेन दीप्ताग्निर्जायते नरः॥ फलमूलानि पानानि शाकानि विविधानि च । प्रदद्याद्राह्मणेभ्यस्तु मुदा युक्तः सदा भवेत् ४९ औषधं स्नेहमाहारं रोगिणो रोगशान्तये । ददानो रोगरहितः सुखी दीर्घायुरेव च ॥ ५० असिपत्रवनं मार्ग शुरधारासमन्वितम् । तीक्ष्णतापं च तरति च्छत्रोपानत्प्रदो नरः॥ ५१ यद्यदिष्टतमं लोके यच्चास्यापेक्षितं गृहे । तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥ ५२ अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः । संक्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम् ॥ ५३ प्रयागादिषु तीर्थेषु पुण्येप्वायतनेषु च । दत्त्वा चाक्षयमामोति नदीषु च वनेषु च ॥ ५४ दानधर्मात्परो धर्मो भूतानां नेह विद्यते । तस्माद्विप्राय दातव्यं श्रोत्रियाय द्विजातिभिः ॥ ५५ स्वर्गाय भूतिकामेन तथा पापोपशान्तये । मुमुक्षुणा तु दातव्यं ब्राह्मणेभ्यस्तथाऽन्वहम् ॥ ५६ दीयमानं तु यो मोहागोविप्राग्निसुरेषु च । निवारयति पापात्मा तिर्यग्योनि व्रजेत सः॥ ५७ यस्तु द्रव्यार्जनं कृत्वा नार्चयेद्राह्मणान्सुरान् । सर्वस्वमपहृत्यैनं राजा राष्ट्रात्मवासयेत् ॥ ५८ यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति । म्रियमाणेषु विप्रेषु ब्राह्मणः स तु गर्हितः॥ ५९ न तस्मात्पतिगृह्णीयुर्न वसेयुश्च तेन हि । अङ्कयित्वा स्वकाद्राष्ट्राद्राना तं विप्रवासयेत् ॥ ६० पश्चात्सद्भ्यो ददातीह स्वद्रव्यं धर्मसाधनम् । स पूर्वाभ्यधिकः पापी नरके पच्यते नरः॥ ६१ स्वाध्यायवन्तो ये विप्रा विद्यावन्तो जितेन्द्रियाः । सत्यसंयमसंयुक्तास्तेभ्यो दद्याद्विजोत्तमाः६२ प्रभुक्तमपि विद्वांसं धार्मिकं भोजयेद्द्विजम् । न च मूर्खमवृत्तस्थं दशरात्रमुपोषितम् ॥ ६३ संनिकृष्टमतिक्रम्य श्रोत्रियं यः प्रयच्छति । स तेन कर्मणा पापी नात्यासप्तमं कुलम् ॥ ६४ यदि स्यादधिको विप्रः शीलविद्यादिभिः स्वयम् । तस्मै यत्नेन दातव्यमतिक्रम्य च संनिधिम् ॥ योऽचितं प्रति गृह्णीयाद्दद्यादर्चितमेव च । तावुभौ गच्छतः स्वर्ग नरकं तु विपर्यये ॥ ६६ न वार्यपि प्रयच्छेत नास्तिकेऽहैतुकेऽपि च । न पाखण्डेषु सर्वेषु नावेदविदि धर्मवित् ॥ ६७ रूप्यं चैव हिरण्यं च गामश्वं पृथिवीं तिलान् । अविद्वान्मतिगृह्णीयाद्भस्मी भवति काष्ठवत् ॥ ६८
१ ट. 'हाभागा ज्ञाना' । २ ख. प्र. 'दः सदामिष्टं दी । ३ क. रणेषु । ४ ख. अ. पी दहत्या' ।