________________
१०२ महामुनिश्रीव्यासपणीतं
[ १ आदिखण्डेअर्थानामुचिते पात्रे श्रद्धया प्रतिपादनम् । तदोमित्यभिनिर्दिष्टं भुक्तिमुक्तिफलप्रदम् ॥ : यो ददाति विशिष्टेभ्यः श्रद्धया परया युतः । तद्वै दत्तमहं मन्ये शेषं कस्यापि रक्षति ॥ । नित्यं नैमित्तिकं काम्यं त्रिविधं दानमुच्यते । चतुर्थ विमलं प्रोक्तं सर्वदानोत्तमोत्तमम् ॥ । अहन्यहनि यत्किंचिद्दीयतेऽनुपकारिणे । अनुद्दिश्य फलं तस्माद्राह्मणाय तु नित्यकम् ॥ ८ यत्तु पापोपशान्त्यर्थ दीयते विदुषां करे । नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुत्तमम् ॥ अपत्यविजयैश्वर्यसुखार्थ यत्प्रदीयते । दानं तत्काम्यमाख्यातमृषिभिर्धर्मचिन्तकैः ॥ यदीश्वरस्य प्रीत्यर्थ ब्रह्मवित्सु प्रदीयते । चेतसा धर्मयुक्तेन दानं तद्विमलं शिवम् ॥ दानधर्म निषेवेत पात्रमासाद्य शक्तितः । उपास्यते तु तत्पात्रं यत्तारयति सर्वतः ॥ कुटुम्बभुक्तिवसनाद्देयं यदतिरिच्यते । अन्यथा दीयते यद्वै न तदानफलप्रदम् ॥ श्रोत्रियाय कुलीनाय विनीताय तपस्विने । व्रतस्थाय दरिद्राय प्रदेयं भक्तिपूर्वकम् ॥ १३ यस्तु दद्यान्महीं भक्त्या ब्राह्मणायाऽऽहिताग्नये । स याति परमं स्थानं यत्र गत्वा न शोचति १: इक्षुभिः सततां भूमि यवगोधूमशालिनीम् । ददाति वेदविदुषे यः स भयो न जायते ॥ १३ गोचर्ममात्रामपि वा यो भूमि संप्रयच्छति । ब्राह्मणाय दरिद्राय मर्वपापैः प्रमुच्यते ॥ ११ भूमिदानात्परं दानं विद्यते नेह किंचन । अन्नदानं तेन तुल्यं विद्यादानं ततोऽधिकम् ॥ १० यो ब्राह्मणाय शान्ताय शुचये धर्मशीलिने । ददाति विद्यां विधिना ब्रह्मलोके महीयते ॥ १६ दद्यादहरहः स्वर्ण श्रद्धया ब्रह्मचारिणे । सर्वपापविनिर्मुक्तो ब्रह्मणः स्थानमामुयात् ॥ १५ गृहस्थायामदानेन फलमामोति मानवः । अन्नमेवास्य दातव्यं दत्त्वाऽऽप्नोति परां गतिम् ॥१८ वैशाख्यां पौर्णमास्यां तु ब्राह्मणान्सप्त पञ्च वा । उपोष्य विधिना शान्तः शुचिः प्रयतमानसः । पूजयित्वा तिलैः कृणेमधुना च विशेषतः । प्रीयतां धर्मराजति यदा मनसि वर्तते ॥ यावज्जीवं तु यत्पापं तत्क्षणादेव नश्यति ॥ कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी । ददाति यस्तु विप्राय सर्व तरति दुप्कृतम् ॥ २१ घृतानमुदकुम्भं च वैशाख्यां तु विशेषतः । निर्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात् ॥ २२ सुवर्णतिलयुक्तैस्तु ब्राह्मणान्सप्त पञ्च वा । तर्पयेदुदपात्रेस्तु ब्रह्महत्यां व्यपोहति ॥ २३ माघमासे तमिले तु द्वादश्यां समुपोषितः । शुक्लाम्बरधरः कृष्णस्तिलेहेत्वा हुताशनम् ॥ २४ प्रदद्याहाह्मणेभ्यस्त तिलानेव समाहितः । जन्मप्रभृति यत्पापं सर्व तरति वै द्विजः॥ २५ अमावास्यामनुप्राप्य ब्राह्मणाय तपस्विने । यत्किंचिद्देवदेवेशं दद्याच्चोद्दिश्य केशवम् ॥ २६ मीयतामीश्वरो विष्णुहृषीकेशः सनातनः । सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ २७ यस्तु कृष्णचतुर्दश्यां स्नात्वा देवं पिनाकिनम् । आराधयविजमुखे न तस्यास्ति पुनर्भवः॥ २८ कृष्णाष्टम्यां विशेषेण धार्मिकाय द्विजातये। स्नात्वाऽभ्यर्च्य यथान्यायं पादप्रक्षालनादिभिः२९ मीयतां मे महादेवो दद्याद्रव्यं स्वकीयकम् । स सर्वपापनिर्मुक्तः प्रामांति परमां गतिम् ॥ ३० द्विजैः कृष्णचतुर्दश्यां कृष्णाष्टम्यां विशेषतः । अमावास्यायां भक्तैस्तु पूजनीयस्त्रिलोचनः ॥३१ एकादश्यां निराहारो द्वादश्यां पुरुषोत्तमम् । अर्चयड्राह्मणमुखे स गच्छंत्परमं पदम् ॥ ३२ एषा तिथि(प्णपी स्यावादशी शुक्लपक्षतः । तस्यामाराधयेद्देवं प्रयत्नन जनार्दनम् ॥ ३३ यत्किंचिद्देवमीशानमुद्दिश्य ब्राह्मणे शुचौ । दीयते विष्णुमेवापि तदनन्तफलं स्मृतम् ॥ ३४ यो हि यां देवतामिच्छेत्समाराधयितुं नरः। ब्राह्मणान्पूजयेद्यत्नात्स तस्यास्तोषयेत्ततः ॥ ३५