________________
४२ द्विचत्वारिंशोऽध्यायः ] पद्मपुराणम् । कोशलाधिपतिर्वीरो मनुपुत्रो महाबलः । क्रीडते मृगयां कान्ते मृगान्संहरते बहून् ॥ ११ समां दृष्ट्वा महाराज एष्यते नात्र संशयः। अन्येषां लघुकानां मे नास्ति पाणभयं ध्रुवम् ॥१४ मम रूपं नृपो दृष्ट्वा क्षमां नैव करिष्यति । हर्षेण महताऽऽविष्टो बाणपाणिर्धनुर्धरः॥ १५ अभियुक्तो महातेजा लुब्धकैः परिवारितः । प्रिये करिष्यते घातं ममाप्येव न संशयः॥ १६ शूकर्युवाच
यदा यदा पश्यसि लुब्धकान्वहन्महावने कान्त समायुधान्वहून् । एभिस्तु पुत्रर्मम पौत्रकैः समं दूरं परं याहि पलायमानः ।। त्यक्त्वा सुधेये बलपौरुषं महान्महाभयेनापि विषण्णचेतनः। दृष्ट्वा नृपेन्द्रं पुरुषार्थमुत्तमं करोषि किं कान्त वदस्व कारणम् ॥ तस्यास्तु वाक्यं स निशम्य कोल उवाच तां शूकरराज उत्तरम् । यदर्थभीतोऽस्मि सुलुब्धकात्प्रिये दृष्ट्वा गतो दूरं निशम्य शूकरान् ॥ सुलुब्धकाः पापशठा महाप्रिये कुर्वन्ति पापं परिदुर्गकन्दरे । सदैव दुष्टा बहुपापचित्तका जाताश्च सर्वे परिपापिनां कुले ॥ तेषां हि हस्तान्मरणाद्विभेमि मृतोऽपि यास्यामि पुनरेव पापम् । दूरं गिरि पर्वतकन्दरं च व्रजामि कान्ते अपमृत्युभीतः ॥ अयं हि पुण्यो नृपनाथ आगतो विश्वाधिपः केशवरूपभूपः। युद्धं करिष्ये समरे महात्मना सार्धं प्रिये पौरुपविक्रमेण ॥ जेष्यामि भूपं यदि स्वेन तेजसा भोक्ष्यामि कीर्तिं त्वतुलां पृथिव्याम् । नो वा हतो वीरवरेण संगरे यास्यामि लोकं मधुसूदनस्य ॥ ममाङ्गभूतेन पलेन मेदसा तृप्तिं परां यास्यति भूमिनाथः। तृप्ता भविष्यन्ति सुलोकदेवता यस्मादयं चाऽऽगतो वज्रपाणिः ॥ अस्यैव हस्तान्मरणं यदा भवेल्लाभश्च मे सुन्दरि कीर्तिरुत्तमा।
तस्माद्यशो भूमितलं जगत्रये बजामि लोकं मधुसूदनस्य ॥ नवं भीतोऽस्मि क्षुब्धोऽस्मि गतोऽहं गिरिसानुषु । पापादीतो गतः कान्ते धर्म दृष्ट्वा स्थिरो ह्यहम् ।। न जाने पातकं पूर्वमन्यजन्मनि चार्जितम् । येनाहं शूकरी योनि गतोऽहं पापसंचयात् ॥ २७ क्षालयिष्याम्यहं घोरं पातक पूर्वसंचयम् । वाणादकर्महाघोरस्तीक्ष्णश्च निशितैः शतैः॥ २८ पुत्रान्पौत्रान्वरां कन्यां कुटुम्बं बालवृद्धकम् । गिरिं गच्छ गृहीत्वा त्वं मम मोहमिमं त्यजें ॥२९ मम स्नेहं परित्यज्य हरिरेष समागतः । अस्य हस्तात्प्रयास्यामि तद्विष्णोः परमं पदम् ॥ ३० देवेनापि ममायैव स्वर्गद्वारमनुत्तमम् । उद्घाटितकपाटं तु यास्यामि सुमंहदिवम् ३१
__ सुकलोवाचतच्छ्रुत्वा वचनं तस्य शूकरस्य महात्मनः । उवाच तत्प्रिया सख्यः सीदमानान्तरा तदा ॥ ३२
शूकर्युवाचयस्मिन्यूथे भवेत्स्वामी पुत्रपौत्रैरलंकृतः। मित्रैश्च भ्रातृभिश्चैव अन्यैः स्वजनबान्धवैः॥ ३३ . .ट. बाणभयं । २ इ. त्वचलां । ३ ड. पात्रांश्च कन्याश्च कुटुम्ब सहबालक । ४ ज. ज । मया मोहः परित्यक्तो ह'। ५ज. 'महागतिम् ।