________________
२०६
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे
पतिहीना यदा नारी भवेत्सा भूमिमण्डले । कुतस्तस्याः सुखं रूपं यशः कीर्तिः सुता भुवि ॥७२ सुदौर्भाग्यं महादुःखं संसारे परिभुज्यते । पापभागा भवेत्सा च दुःखाचारा सदैव हि ॥ ७३ तुष्टे भर्तरि तस्यास्तु तुष्टाः स्युः सर्वदेवताः । तुष्टे भर्तरि तुष्यन्ति ऋषयो देवमानवाः ।। ७४ भर्ता नाथो गुरुर्भर्ता देवता दैवतैः सह । भर्ता तीर्थश्च पुण्यश्च नारीणां नृपनन्दन ॥ ७५ शृङ्गारं भूषणं रूपं वर्णसौगन्ध्यमेव च । कृत्वा संतिष्ठते नित्यं वर्जयित्वा सुपर्वसु ॥ शृङ्गारभूषणैः सा तु शुशुभे सा यदा पतिः । [ *पत्या विना भवत्येवं क्षीरं सर्पमुखे यथा ॥ ७७ भर्तुरर्थे महाभागा सुत्रता चारुमङ्गला । गते भर्तरि या नारी शृङ्गारं कुरुते यदि ।। रूपं वर्ण च तत्सर्व श्रमरूपेण जायते । वदन्ति भूतले लोकाः पुंश्चलीयं न संशयः ] ॥ तस्माद्भर्तुर्वियुक्ताया नार्याः शृणुत भूतले ॥
७६
७८
७९
इछन्त्या वै महासौख्यं भवितव्यं कदाचन । सुतापायाः परो धर्मो भर्ता शास्त्रेषु गीयते ॥ ८० तस्माद्वै शाश्वतो धर्मो न त्याज्यो भार्यया किल । एवं धर्म विजानामि कथं भर्ता परित्यजेत् ।। ८१ इत्यर्थे श्रूयते सख्य इतिहासं पुरातनम् । सुदेवायाश्च चरितं सुपुण्यं पापनाशनम् ॥
८२
इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने सुकलाचरित एकचत्वारिंशोऽध्यायः ॥ ४१ ॥ आदितः श्लोकानां समश्यङ्काः – ५४११
अथ द्वाचत्वारिशोऽध्यायः ।
सख्य ऊचु:
या सुदेवा त्वया प्रोक्ता किमाचारा वदस्व नः । त्वया प्रोक्तं महाभागे वद नः सत्यमेव च ॥ १ सुकलोवाच
अयोध्यायां महाराजा स आसीद्धर्मकोविदः । मनुपुत्रो महाभागः सर्वधर्मार्थतत्परः || इक्ष्वाकुर्नाम सर्वज्ञो देवब्राह्मणपूजकः । तस्य भार्या सदा पुण्या पतिव्रतपरायणा || तया सार्धं यजेद्यज्ञांस्तीर्थानि विविधानि च । देवराजस्य वीरस्य काशीशस्य महात्मनः सुदेवा नाम वै कन्या सत्याचारपरायणा । उपयेमे महाराज इक्ष्वाकुस्तां महीपतिः ॥ सुदेवां चारुसर्वाङ्गीं सत्यव्रतपरायणाम् । तया सार्धं यजेद्यज्ञान्सुपुण्यान्पुण्यनायकः ॥ स रेमे नृपशार्दूलो गृहे च प्रियया तदा । एकदा तु महाराजस्तया सार्धं वनं ययौ ।। गङ्गारण्यं समासाद्य गयायां क्रीडते सदा । सिंहान्हत्वा वराहांश्च गजान्समहिषांस्ततः || क्रीडमानस्य तस्यापि वराहश्च समागतः । बहुशूकरयूथेन पुत्रपौत्रैरलंकृतः ॥ एका च शूकरी तस्य प्रिया पार्श्वे प्रतिष्ठति । दृष्ट्वाऽथ शूकरश्चैनं राजानं मृगयारतम् ॥ पर्वताधारमाश्रित्य भार्यया सह सूकरः । तिष्ठत्येकः सुवीर्येण पुत्रान्पौत्रान्गुरू शिशून् ॥ ११ ज्ञात्वा तेषां महाराज मृगाणां कदनं महत् । तानुवाच सुतान्पौत्रान्भार्या तां च स शूकरः ।। १२ * एतचिह्नान्तर्गतः पाठो ग. घ. ज. ट. ड ढ पुस्तकस्थः ।
२
३
४
6
.
९
१ ज. सुसौभाग्यं न संसारे दौर्भाग्यं चापि भुञ्जते । २ ग घ ङ. ट. ड. सुभार्यायाः । ३ ग. घ. शास्त्रधर्मस्तु न । ४ ग. घ. ङ. छ. झ. ट. ढ. मृगयां । ड. गङ्गायां । ५ अ. ति । वराहं शुकरयूथैस्तमेव परिवारितम् । दृष्ट्वा तु राजराजेन दुर्जयो मृगयादिभिः । प ६ घ ह तिष्ठति । पुत्रपौत्रः परिवृतस्तिष्ठत्येव दिवानिशम् । ज्ञा' ।