________________
४१ एकचत्वारिंशोऽध्यायः ]
पद्मपुराणम् ।
२०५
हाहाकारं प्रमुञ्चन्ती निश्वसन्ती सुदुःखिता । वियोगवह्निना दग्धा कृष्णाङ्गी मलधारिणी ।। ४६ एवं दुःखसमाचारा सुकृशा विहला तदा । रोदमाना दिवारात्रौ निद्रां लेभे न वै निशि ॥ ४७ क्षुधा न विन्दते राजन्दुःखेन विदली कृता । अथ सख्यः समायाताः पप्रच्छुः सुकलां तदा ॥ ४८ सख्य ऊचुः
--
सुकले चारुसर्वाङ्गे कस्माद्रोदिषि सांप्रतम् । ततो नः कारणं ब्रूहि दुःखस्य च वरानने ॥ ४९ सुकलोवाच
समां त्यक्त्वा गतो भर्ता धर्मार्थ धर्मतत्परः । तीर्थयात्राप्रसङ्गेन त्वटते मेदिनीं ततः ।। ५० मां त्यक्त्वा स गतः स्वामी निर्दोषां पापवर्जिताम् । अहं साध्वी समाचारा सदापुण्या पतिव्रता ५१ मां त्यक्त्वा स तो भर्ता तीर्थसाधनतत्परः । तेनाहं दुःखिता मख्यो वियोगेनापि पीडिता ।। ५२ जीवनाशो वरं श्रेष्ठं वरं वै विषभक्षणम् । वरमभिप्रवेशो वै वरं कायविनाशनम् ।। ५३ नारी प्रियां परित्यज्य भर्ता याति सुनिपुरः । भर्तृत्यागो वरं नैव प्राणत्यागो वरं सखि ।। ५४ वियोगं न समर्थाऽहं सहितुं नित्यदारुणम् । तेनाहं दुःखिता सख्यो वियोगेनापि नित्यशः ।। ५५
सख्य ऊचुः
1
तीर्थयात्रां गतो भर्ता पुनरेष्यति ते पतिः । वृथा शोषयसे कार्य वृथा शोकं करोषि वै ॥ ५६ वृथा त्वं तपसे वाले वृथा भोगान्परित्यजेः । पिवस्व चान्नं भुङ्क्ष्व स्वं यद्दत्तं पूर्वजन्मनि ॥५७ कस्य भर्ता सुताः कस्य कस्य स्वजनवान्धवाः । कः कस्य नास्ति संसारे संबन्धं केन वै न हि ॥ भक्ष्यते भुज्यते वाले संसारस्य हि तत्फलम् । मृते प्राणिनि कोऽश्नाति को हि पश्यति तत्फलम् पीयते भुज्यते बाल एतत्संसारसत्फलम् ॥
५९.
सुकलोवाच
६४
भवतीभिः प्रयुक्तं तन्न स्याद्वेदेन संमतम् । [ स्वभर्तुर्वा पृथग्भूता तिष्ठत्येका सदैव हि ।। ६० पापरूपा भवेन्नारी तां न मन्यन्ति मज्जनाः । ] भर्तुः सार्धं सदा सख्यो दृष्टो वेदेषु सर्वदा ॥ ६१ संबन्धः पुण्यसंसर्गाज्जायते नान्यकारणात् । नारीणां च सदा तीर्थ भर्ता शास्त्रेषु पठ्यते ॥ ६२ मेवाssवाहयेन्नित्यं वाचा कायेन कर्मभिः । मनसा पूजयेन्नित्यं सत्यभावेन तत्परा ॥ ६३ एतत्पार्श्व महातीर्थ दक्षिणाङ्गं सदैव हि । तमाश्रित्य यदा नारी गृहस्था परिवर्तते ॥ यजते दानपुण्यैश्च तस्य दानस्य यत्फलम् । वाराणस्यां च गङ्गायां यत्फलं न च पुष्करे ॥ ६५ द्वारकायां न चावन्त्यां केदारे शशिभूषणे । लभते नैव सा नारी यजमाना सदा किल । ६६ तादृशं फलमेवं सा न प्राप्नोति कदा सखि । सुसुखं पुत्रसौभाग्यं स्नानं दानं च भूषणम् ॥ ६७ वस्त्रालंकारसौभाग्यं रूपं तेजः फलं सदा । यशः कीर्तिमवाप्नोति गुणं च वरवर्णिनि । भर्तुः प्रसादाच्च सर्वं लभते नात्र संशयः ।।
६८
७०
farara यदा कान्ते अन्यधर्म करोति या । निष्फलं जायते तस्याः पुंश्चली परिकथ्यते ।। ६९ नारीणां यौवनं रूपमवतारं स्मृतं ध्रुवम् । एकश्वापि हि भर्तुश्च तस्यार्थे भूमिमण्डले || सुपुत्रा सुयशा नारी परिकथ्येत वै सदा । तुष्टे भर्तरि संमारं दृश्या नारी न संशयः ॥ * एतचिहार्न्तगतः पाठः क ख ग घ ङ च छ झ. ड. ट. पुस्तकस्थः ।
७१
१ ग. घ. ड. सुकला विमनास्तदा । २ ग. घ. ट. ड. मह्यं । ३ ग घ ङ. झ. ट. ड. द. पानं । ४ ङ. छ. ट. ड. तमेवाऽऽराधये । ५ ज ट 'स्यां गयायां च यौं ।
1