________________
१५० महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेदारियं केन पापेन पुत्रसौख्यं कथं न हि । एतं मे संशयं तात कस्मात्पापादस्व मे ॥ १४ महापापेन संमुग्धः प्रियया बोधितो द्विज । तयाऽहं प्रेषितस्तात तव पार्थ महामते ॥ १५ तत्सर्व त्वं समाचक्ष्व सर्वसंदेहनाशनम् । मुक्तिदाता भवस्व त्वं मम संसारबन्धनात् ॥ १६
वसिष्ठ उवाचपुत्रा मित्राण्यथ भ्राता भार्या स्वजनवान्धवाः । पञ्च भेदास्तु संबन्धात्पुरुषस्य भवन्ति हि।।१७ तद्वै सुमनया प्रोक्तं पूर्वमेव तवाग्रतः । ऋणसंबन्धिनः सर्वे ते कुपुत्रा द्विजोत्तम ॥ १८ पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम् । पुण्यप्रसक्तो यस्याऽऽत्मा सत्यधर्मरतः सदा ॥ १९ बुद्धिमाज्ञानसंपन्नस्तपस्वी वाग्विदां वरः । सर्वकर्मसुधी(रो वेदाध्ययनतत्परः ॥ २० सर्वशास्त्रप्रवक्ता च देवब्राह्मणपूजकः । याजकः सर्वयज्ञानां ध्यानी त्यागी प्रियंवदः ॥ २१ विष्णुध्यानपरां नित्यं शान्तो दान्तो जपी सदा । पितृभक्तिपरो नित्यं सर्वम्वजनवन्मलः॥२२ कुलस्य तारको विद्वान्कुलस्य परितोषकः । एवंगुणेः सुसंयुक्तः सुपुत्रः सुखदायकः ॥ २३ अन्ये संबन्धसंयुक्ताः शोकसंतापदायकाः । एतादृशेन किं कार्य फलहीनेन तेन च ॥ २४ आयान्ति यान्ति ते सर्वे तापं दत्त्वा सुदारुणम् । पुत्ररूपेण ते सर्वे संसारे दुःग्वदायकाः ॥२५ पूर्वजन्मकृतं कर्म यत्त्वया परिपालितम् । तच्च सर्व प्रवक्ष्यामि श्रृयतामद्भुतं पुनः ॥ २६
वसिष्ठ उवाचभवाञ्द्रो महाप्राज्ञ पूर्वजन्मनि नान्यथा । कृषिका ज्ञानहीनो महालोभन मंयुतः॥ २७ एकभार्योऽन्यविद्वषी बहुपुत्रो ह्यदत्तवान । धर्म नव प्रजानासि मत्यं नैव परिश्रुतम् ॥ २८ [*दानं नव त्वया दत्तं शास्त्रं नैव परिश्रुतम् ।] कता चव न्वया तीर्थे नैव यात्रा महामने ॥२९ एकं कृतं त्वया विप्र कृषिमार्ग पुनः पुनः । पशनां पालनं पूर्व गवां चैव द्विजोत्तम ॥ ३० महिषीणां च ह्यश्वानां पालनं च पुनः पुनः । एवं पूर्व कृतं कर्म त्वया वै द्विजसत्तम ॥ ३१ विपुलं तु धनं तद्वल्लोभेन परिसंचितम् । तेन द्रव्यण पुण्यं च न कृतं तु त्वया कदा ॥ ३२ पात्रे दानं न दत्तं तु दृष्ट्वा दुर्बलमेव च । कृपां कृत्वा न दत्तं तु भवता धनमेव हि ॥ ३३ गोमहिप्यादिकं सर्व पशूनां संचितं त्वया । विक्रयित्वा धनं विप्र संचितं विपुलं त्वया ।। ३४ तकं घृतं तथा क्षीरं विक्रयित्वा तता दधि । दुप्कामं चिन्तितं विप्र मोहिता विष्णुमायया।।३५ कृते महामेवात्र ह्यन्नं ब्राह्मणसत्तम । निर्दयन त्वया दानं न दत्तं तु कदा किल ।। ३६ देवानां पूजनं विप्र भवता न कृतं कदा । प्राप्य पर्वाणि विप्रेभ्यो द्रव्यं नैव समर्पितम् ॥ ३७ श्राद्धकालं तु संप्राप्य श्रद्धया न कृतं त्वया । भार्या वदति ते साध्वी दिनं चतत्समागतम् ३८ श्वशुरश्राद्धकालश्च श्वाश्चैव महामते । श्रुत्वा त्वं तद्वचस्तस्या गृहं त्यक्त्वा पलायसे ॥ ३९ धर्ममार्ग न दृष्टं ते श्रुतं नैव कदा त्वया । लोभी माता पिता भ्राता लोभः स्वजनवान्धवाः ४० पालितं लोभमवैकं त्यक्त्वा धर्म सदैव हि । तस्माहुःखी भवाञ्जातो दारिद्यणातिपीडितः ॥४१ दिने दिने महातृप्णा हृदये ते पद्यते । यदा यदा गृहे द्रव्यं वृद्धिमायाति ते सदा ॥ ४२
___ * क. ख. ग. प. उ. च. छ. ज. स. अ. ट. उ ढ.पुस्तकस्थोऽयं पाठः ।
१क.ख. घ. ङ. च. छ. झ.ट. ड. द. भावेन । २क.स्व. ग. घ.ड.च. छ. झ.ढ. समातरः । छ समागतः । ३ क.ख. ग घ. ड. च छ. ज. झ. ट. ड. ढ. अन्ये । ४ क. घ. ट. 'नां दानत्या । ५ क. ख. हु. च. छ. झ. ड, ढ, दाता। ६ क.ख. इ.च. छ. झ. औदासीन्येन । ७ क. ख. घ. ड. च, छ. स.ट. ढ, भार्यःमदा द्वे । ८ क. ख. इ. च. छ. झ. . प्रवर्धते ।