________________
१९२ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेपाप उवाचकरोष्येवं च्या भावं महामूढो न संशयः । अहं धर्मस्य सर्वस्वमहं पूज्यतमः सुरैः॥ १२ अहं ज्ञानमहं सत्यमहं धाता सनातनः । अहं धर्म अहं मोक्षः सर्वदेवमयो ह्यहम् ॥ १३ ब्रह्मदेहात्समुद्भूतः सत्यसंधोऽस्मि नान्यथा । जिनरूपं विजानीहि सत्यधर्मकलेवरम् ॥ मम रूपं हि ध्यायन्ति योगिनो ज्ञानतत्पराः ॥
वेन उवाचतवैव कीदृशो धर्मः किं ते दर्शनमेव च । किमाचारो वदस्वैहि इत्युक्तं तेन भूभुजा ॥ १५
पाप उवाचअर्हन्तो देवता यत्र निर्ग्रन्थो गुरुरुच्यते । दया वै परमो धर्मस्तत्र मोक्षः प्रदृश्यते ॥ १६ ईदृशोऽस्मिन्न संदेह आचारं प्रवदाम्यहम् । यजनं याजनं नापि वेदाध्ययनमेव च ॥ १७ नास्ति संध्या तपो दानं स्वधास्वाहाविवर्जितम् । हव्यकव्यादिकं नास्ति नास्ति यज्ञादिका क्रिया पितॄणां तर्पणं नास्ति नातिथिवैश्वदेविकम् । कृष्णस्य न तथा पूजा ह्यहन्तध्यानमुत्तमम् ॥ १९ एवं धर्मसमाचारो मैनमार्गे प्रदृश्यते । एतत्ते सर्वमाख्यानं जैनधर्मस्य लक्षणम् ॥ २०
वन उवाचवेदे प्रोक्तो यथा धर्मो यत्र यज्ञादिकाः क्रियाः। पितॄणां तर्पणं श्राद्धं वैश्वदेवं न दृश्यते ॥२१ न दानं न तपो वाऽस्ति किं वे धर्मस्य लक्षणम् । वद सत्यं ममाग्रे त्वं दयाधर्मश्च कीदृशः ॥ २२
पाप उवाचपञ्चतचर्मद्धोऽयं प्राणिनां काय एव च । आन्माँ वायुस्वरूपोऽयं तेपा नास्ति प्रसङ्गना॥ २३ यथा जलेषु भूनानामपि सङ्गमवहि तत् । जायते बुबुदाकारं तद्वद्भुतसमागमः ॥ २४ पृथ्वीभावो रजःस्थस्तु चाऽऽपस्तत्रैव संस्थिताः। ज्योनिस्तत्र प्रदृश्येत वायुरावर्तते च त्रीन् ॥२५ आकाशमाणोत्पश्चाबुबुदत्वं प्रजायते । अप्सु मध्य प्रभात्येव सुतेजो वर्तुलं परम् ॥ २६ क्षणमात्र प्रदृश्येत तत्क्षणं नैव दृश्यते । तद्वद्भूतसमायोगः सर्वत्र परिदृश्यते ।। अन्तकाले प्रयात्यात्मा पञ्च पञ्चसु यान्ति ने। मोहमुग्धास्तता मर्त्या वर्तन्ते च परस्परम् ॥२८ श्राद्धं कुर्वन्ति मोहेन क्षयाहे पितृतर्पणम् । काऽऽस्ते मृतः समश्नाति कीदृशोऽमा नरोत्तमः।।२९ किं ज्ञानं कीदृशं कार्य केन दृष्टं वदस्व नः । मिष्टमन्नं प्रभुक्त्वा त तृप्ति यान्ति च ब्राह्मणाः३० कस्य श्राद्धं पदीयेत सा तु श्रद्धा निरर्थिका । अन्यदेवं प्रवक्ष्यामि वेदानां कर्म दारुणम् ।।३१ यदाऽतिथिहं याति भोजनं लभते ध्रुवम् । तदा चाऽऽहत्य राजेन्द्र अतिथि परिभोजयेत ॥३२ अश्वमेधे मख त्वश्वं गोमध वृषमेव च । नरमध नरं राजन्वाजपय तथा ह्यजम् ॥ राजसूये महाराज प्राणिनां घातनं बहु । पुण्डरीक गजं हन्याद्रजमधे तु कुञ्जरम् ॥ ३४ सौत्रामण्यां पशु मध्यमेवमेव प्रदृश्यते । नानारूपेषु सर्वेषु श्रूयतां नृपनन्दन ॥
१ क, ख. इ. च. छ झ. ढ. राज्यं । २ क, ख. ड, च... झ. ड शं कर्म कि। ३ क ख. इ. च. छ. झ. ते। दर्शनेऽस्मि । ग. घ. ट. ड, 'ते । दशितोऽस्मि । ४ क. ख. च. छ. झ. द. क्षपणस्य वरा । ५ञ. जा अहे तु ध्या। ६ ज. प्रमेयोऽयं । ७ क. ख. च. त्मावपुःस्व । ८ ज. 'मनो हि । ९ अ. 'यना तितं पृथक् । आ। १० ब. श्वात्तमुद्ध्यर्थ प्र'। ११ क. ख. र. च. छ. स. नपोत्तम । १२ क. ख. इ. च. छ झ. ढ. 'ति महाक्षं पचते द्विजः। अजं या राजरा । १३ क. ख. ह. च. छ. स. ड. द. मेधे मेषमेव ।