________________
"50,
१०२ द्यधिकशततमोऽध्यायः ]
पद्मपुराणम् । मेमोरसि महादेव महदेतत्सुदोहदम् । दर्शयस्व ममाग्रे त्वं काननं काननोत्तमम् ॥ ३
महादेव उवाचएवमस्तु महादेवि नन्दनं देवसंकुलम् । दर्शयिष्यामि ते पुण्यं द्विनसिद्धनिषेवितम् ॥ एवमाभाष्य तां देवीं तया सह गणैस्ततः । जग्मतुर्वत्स तौ देवी नन्दनं नवमेव तु ॥ सर्वाङ्गसुन्दरं पुष्पमाल्याद्याभरणैर्युतम् । घण्टामालाभिसंयुक्तं किङ्किणीजालमालिनम् ॥ ६ वसनैः पद्मपुप्पैस्तु मुक्तामाल्यसुशोभितम् । हंसचन्द्रप्रतीकाशं वृषभं चारुलक्षणम् ॥ ७ समारूढो महादेवो गणकोटिसमातृतः । नन्दिभृङ्गिमहाकालस्कन्दचण्डमनोहराः ॥ वीरभद्रो गणेशश्च पुष्पदन्तो जनेश्वरः। सुबलोऽतिवलो नाम मेघनादो घंटावहः ॥ . ९ घण्टाकर्णश्च कालिन्दः पुलिन्दो वीरवाहुकः । केशारिः किंकरो नाम चन्द्रहासः प्रजापतिः॥१० एते चान्ये च बहवः सनकाद्यास्तपोधनाः । गणश्च कोटिसंख्यातः स शिवः परिवारितः ॥ ११ नन्दनं वनमेवापि सेवितं देवकिंनरैः । प्रविवेश महादेवो गणैर्देव्या च सेवितः ॥ १२ दर्शयामास देवेशो गिरिजायै सुशोभितम् । नानापादपसंछन्नं फलपुष्पसमाकुलम् ॥ १३ [*दिव्यरम्भासमाकीर्ण पुष्पवद्भिश्च चम्पकैः । मल्लिकाभिः सुपुष्पाभिर्मालतीजालसंकुलम् ] १४ नित्यपुष्पितशाखाभिः पादपैः शोभितं वनम् । राजमानं महावृक्षश्चन्दनैश्चारुगन्धिभिः॥ १५ देवदारुवनैर्जुष्टं लवङ्गश्च समाकुलम् । [+सरल रिकेलैश्च तद्वन्पूगीफलद्रुमः॥ खजूरपनसैर्दिव्यैः फलभारावनामितैः । परिमलोदारसंयुक्तगुरुवृक्षसमाकुलम् ॥] अग्नितेजःसमाभामैः सप्तपणः सुपुप्पितैः ॥
१७ राजवृक्षः कदम्बैश्च पुप्पशोभासमन्वितम् । जम्बुनिम्बमहाक्षातुलिङ्गसमाकुलम् ॥ १८ नारङ्गः सिन्दुवारैश्च पिप्पलैः शालनिन्दुकैः ।[+उदुम्बरः कपित्थश्च जम्बुपादपशोभितम् ॥ १९ लकुचैः पुष्पसौगन्धैः स्फुटनॉरैः समाकुलम् ] । चूतैश्च फलराजानीलश्चव घनोपमः ॥ २० शोभितं नन्दनं पुण्यं शिवेन परिदर्शितम् । शोभितं च द्रुमैश्वान्यैः सनीलवनोपमः ॥ २१ सर्वकामफलोपेतैः केल्याणफलदायकैः । कल्पद्रुमैमहापुण्यैः शोभितं नन्दनं वनम् ॥ २२ नानापक्षिनिनादैश्च संकुलं मधुरस्वनैः । कोकिलानां रुतेः पुण्यरुदघुष्टं मधुकारिभिः ॥ २३ मकरन्दविलीनाभिभ्रमरीभिर्विराजितम् । नानावृक्षः समाकीर्ण नानामृगगणाकुलम् ॥ २४ वृक्षेभ्यः पतितैः पुष्पैः सुगन्धैः पतितैर्भुवि । मा च भू राजते पुत्र पूजिनेव सुगन्धिभिः ॥ २५ तत्र वाप्यो महापुण्याः पद्मसौगन्धनिर्मलाः । तोयस्ताः क्षुभिताः पुत्र हंसकारण्डवोषिताः॥ २६ तडागैः सागरप्रख्यस्तोयसौगन्थ्यपूजितः । नन्दनं भाति सर्वत्र गणैरप्सरसां महत् ॥ २७ विमानः कलशैः शुभैमदण्डः सुशोभनः । नन्दनं वनराजस्तु प्रासादेश्च सुशोभितः॥ २८ यत्र तत्र प्रभात्येव किंनराणां महागणः । [*गन्धर्वैरप्सरोभिश्च सुरूपाभिद्विजोत्तम ॥] २९
* एच्चिद्वान्तर्गतः पाठः क. ख. दु. च. छ. घ. इ. द. पुस्तकस्थः । + एतचिहान्तर्गतः पाठः क. ख. ड. च. छ. झ. ड. ढ. पुस्तकस्थः । + एतच्चिदान्तर्गतः पाठः क. ख. च. छ. झ. . पुस्तकस्थः । * एतच्चिदान्तर्गतः पाठः क. ख. घ. ङ. च छ. झ.ट. ठ. ड. दृ पुस्तकस्थः ।
१. महोदय म । २ ड. म् । वेणुमा । ३ छ. झ. 'म् । भ्रमरैः पुष्पवस्त्रैश्च मु। ४ इ. घटेश्वरः । ५ घ. ठ. इ. पाटलानां वनोत्तमम् । ६.. बकलः । ७ ख. ड. च. छ. स. १. "नाग: स। ८ क. ख. ङ.चम् । नील: शालवनदिव्यस्तालानां तु वनस्ततः । छ. झ. द.म् । तमालैस्तु विशालस्तैः शोभितं तपनोपमः । ९ ङ. छ. स. द. कल्पनारणदा । १० क. ख. घ. ङ. च. छ. झ. ट. ट.ड. ' यर्मधुरैर्मधु। ११ ह नद्यो । १२ क.ख.इ.च.छ.स.ह. सुधान्वितैः ।