________________
२७ सप्तविंशोऽध्यायः ]
पमपुराणम् । विमोचन उपस्पृश्य जितमन्युर्जितेन्द्रियः । प्रतिग्रहकृतैः पापैः सर्वैः संपरिमुच्यते ॥ ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः । पुण्येन महता युक्तः स्वर्गलोके महीयते ॥ ५० यत्र योगेश्वरः स्थाणुः स्वयमेव वृषध्वजः । तमर्चयित्वा देवेशं गमनादेव सिध्यति ॥ ५१ तेजसं वारुणं तीर्थ दीप्यते स्वेन तेजसा । यत्र ब्रह्मादिभिर्देवैषिभिश्च तपोधनैः ॥ सैनापत्ये च देवानामभिषिक्तो गुहस्तदा । तैजसस्य तु पूर्वेण कुरुतीर्थ कुरूद्वह ॥ कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः । सर्वपापविशुद्धात्मा रुद्रलोकं प्रपद्यते ॥ ५४ स्वर्गद्वारं ततो गच्छेनियतो नियताशनः । अग्निष्टोममवामोति ब्रह्मलोकं च गच्छति ॥ ५५ ततो गच्छेदनरकं तीर्थसेवी नराधिप । तत्र स्नात्वा नरो राजन्न दुर्गतिमवामुयात् ॥ ५६ नत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते । अध्यास्ते पुरुषव्याघ्र नारायणपुरोगमैः ॥ सांनिध्यं चैव राजेन्द्र रुद्रवेद्यां कुरूदह । अभिगम्य तु तां देवीं न दुर्गतिमवामुयात् ॥ ५८ तत्रैव च महाराज विश्वेश्वरमुमापतिम् । अभिगम्य महादेवं मुच्यते सर्वकिल्विषैः॥ ५९ नारायणं चाभिगम्य पद्मनाभमरिंदम । शोभमानो महाराज विष्णुलोकं प्रपद्यते ॥ नीर्थेषु सर्वदेवानां स्नातमात्रो नराधिप । सर्वदुःश्वपरित्यक्तो द्योतते शिववत्सदा ॥ ६१ ततस्त्वस्थिपुरं गच्छेत्तीथसंवी नराधिप । पावनं तीर्थमासाद्य तपेयेत्पितृदेवताः ॥ अग्निष्टोमस्य यज्ञस्य फलमामाति भारत ॥ गङ्गाहदश्च तत्रैव कूपश्च भरतर्षभ । तिस्रः काव्यस्तु तीर्थानां तस्मिन्कूपे महीपते ॥ तत्र स्नात्वा नरो राजन्ब्रह्मलोकं प्रपद्यते ।।
६३ आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् । गनि परामवामोति कुलं चैव समुद्धरेत् ॥ ६४ ततः स्थाणुवटं गच्छेत्रिपु लोकेपु विश्रुतम् । तत्र स्नात्वा स्थितो रात्रि रुद्रलोकमवामुयात् ॥६५ बदरीणां वनं गच्छेद्वसिष्ठस्याऽऽश्रमं ततः । बदरी भक्ष्यते यत्र त्रिरात्रोपोपितैनरैः ॥ ६६ सम्यग्द्वादश वर्षाणि बदरी भक्षयेत्तु यः । त्रिरात्रोपोपितश्चैव भवेत्तुल्यो नराधिप ॥ ६७ इन्द्रमार्ग समासाद्य तीर्थमंत्री नराधिप । अहोरात्रांपवासेन स्वर्गलोके महीयते ॥ ६८ एकरात्रं समासाद्य एकरात्रो पितो नरः । नियतः सत्यवादी च ब्रह्मलोके महीयते ॥ ६९ तथा गच्छेच्च राजेन्द्र तीर्थ त्रैलोक्यविश्रुतम् । आदित्यस्याऽऽश्रमो यत्र तेजोराशेर्महात्मनः॥७० तस्मिंस्तीर्थ नरः स्नात्वा पूजयित्वा विभावसुम् । आदित्यलोकं व्रजति कुलं चैव समुद्धरेत्।।७१ सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूदह । सोमलोकमवामोति नरो नास्त्यत्र संशयः॥ ७२ ततो गच्छेत धर्मज्ञ दधीचस्य नराधिप । तीर्थ पुण्यतमं राजन्पावनं लोकविश्रुतम् ॥ ७३ यत्र सारस्वतो जातः सिद्धिरादतपसो निधिः। तस्मिंस्तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् ॥ सारस्वती गैतिं चैव लभते नात्र संशयः । ततः कन्याश्रमं गत्वा नियतो ब्रह्मचर्यया ॥ ७५ त्रिरात्रमुपितो राजनुपवासपरायणः । लभेत्कन्याशतं दिव्यं ब्रह्मलोकं च गच्छति ॥ ७६ ततो गच्छेत धर्मज्ञ तीर्थ संनिहितामपि । यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः॥ मासि मासि समेष्यन्ति पुण्येन महतान्विताः॥ संनिहितायामुपस्पृश्य राहुग्रस्ते दिवाकरे । अश्वमेधशतं तेन इष्टं भवति शाश्वतम् ॥ ७४
१ ट. नवतुल्यो। २ क. 'तः सो द्धिरास्तप । ट. 'तः सोऽङ्गिरास्तप'। ३ क. मति । ४ ख. अ. 'हितीम' ५ ख. ज. 'हित्यामु।
७७