________________
८० अशीतितमोऽध्यायः ] पद्मपुराणम् ।
२८९ यज्ञान्ते च महाराजस्तामुवाच वराननाम् । अन्यच्च सुप्रियं बाले किं करोमि वदस्व मे ॥ तत्सर्व देवि कर्ताऽस्मि यथासाध्यं वरानने ।।
२६ सुकर्मोवाचइत्युक्ता तेन सा राजा भूपालं प्रत्युवाच ह । [*जातं मे दोहदं राजस्तत्कुरुष्व ममानघ] ॥२७ इन्द्रलोकं ब्रह्मलोकं शिवलोकं तथैव च । विष्णुलोकं महाराज द्रष्टुमिच्छामि सुप्रिय ॥ २८ [दर्शयस्व महाभाग यदहं सुप्रिया तब ] । एवमुक्तस्तया राजा तामुवाच स सुप्रियाम् ।। २९ साधु साधु महाभागे पुण्येनेवं प्रभाषसे । स्त्रीस्वभावाच्च चापल्यात्कौतुकाच वरानने ॥ ३० यच्चयोक्तं महाभागे तदसाध्यं विभाति मे । तत्साध्यं पुण्यदानेन यज्ञेन तपसाऽपि च ॥ ३१ अन्यथा न भवेन्माध्यं यत्त्वयोक्तं वरानने । [*असाध्यं तु भवत्या वै भाषितं पुण्यमिश्रितम् ] ३२ मर्त्यलोकाच्छरीरेण अनेनापि च मानवः । श्रुतो दृष्टो न मेऽद्यापि गतः स्वर्ग सुपुण्यकृत ।। ३३ ततोऽसाध्यं वरारोहे यत्त्वया भापितं मम । अन्यदेव करिप्यामि प्रियं ते तद्वद प्रिये ॥ ३४
देव्युवाचअन्यैश्च मानुषे राजन्नसाध्यं स्यान्न संशयः । त्वयि माध्यं महाराज सत्यं सत्यं वदाम्यहम् ३५ तपसा यशसा वीर्यनिदानमखनृप । भवादशोऽन्यो नवास्ति लोकेऽस्मिन्नृप मानवः॥ ३६ क्षात्रं बलं सुतंजश्च त्वयि सर्व प्रतिष्ठितम् । तस्माचया प्रकर्तव्यं मप्रियं नहुपात्मज ॥ ३७ इति श्रीमहापुराणे पाझे भभिवण्डे वनोपाख्यान पितृनार्थकयनं ययानिचारत उनाशातितमोऽध्यायः ।। ७९ ॥
आदिनः श्लोकानां समष्ट्यङ्काः-७३२२
अथाशीतितमोऽध्यायः ।
पिप्पल उवाचकामकन्यां यदा राजा उपयमे द्विजोत्तम । किं चक्रानं तदा ते द्वे पूर्वभार्ये सुपुण्यके ॥ १ देवयानी महाभागा शर्मिष्ठा वापपर्वणी । तयोश्चरित्रं यत्सर्व कथयस्व ममाग्रतः ॥
सुकर्मोवाचयदाऽऽनीता कामकन्या स्वगृहं तेन भूभुजा । अन्यर्थ स्पर्धते सा तु देवयानी तेरस्विनी ॥ ३ तस्यार्थे तु सुता शप्ता क्रोधेनाऽऽकालतान्मना । शर्मिष्ठां च समाहूर्य शब्दं चके यशस्विनी ॥ ४ रूपेण तेजसा दानः सत्यपुण्यवतस्तदा । [ शर्मिष्ठा देवयानी ते स्पर्धेते तु तया सह ॥ ५ दुष्टभावं तयोश्चापि सा ज्ञात्वा कामजा तदा । राज्ञे सर्व तया विप्र कथितं तत्क्षणादिह ] ॥ ६ यदुं पुत्रं समाहूय नृपो वाक्यमथाब्रवीत् । मात्रोस्त्वमुभयोस्तात शिरश्छिन्धि सुपुत्रक । [*सुमियं कुरु मे वत्स यदि श्रेयो हि मन्यसे ।
* एतचिह्नान्तर्गतः पाठः क ख. च. छ. द.पुस्तकस्थः । । एतच्चिदान्तगतः पाठो ह. छ. ढ. पुस्तकस्थः । * एतचिहान्तर्गतः पाठो घ.ट. ठ. पुस्तकस्थः । । एतचिहान्तगतः पाट: ख. हु.च. छ. द. पुस्तकस्थः । एतांचहान्तर्गतः पाठः ख. ड. पुस्तकस्थः ।
१ ख. हु. च. छ.ट.. साध्यासाध्यं । २ क.ड. च. छ. झ. ह.मनस्विनी। ३ ख.घ..च.छ.टा . लितेक्षणा । श। ४ ख. ड. च छ. ढ. य सख्यं चक्रे मनस्वि ।