________________
२९० महामुनिश्रीव्यासप्रणीतं
[२ भूमिखण्डेएवमाकर्ण्य तस्यापि पितुर्वाक्यं यदुस्तदा । प्रत्युवाच नृपश्रेष्ठं पितरं प्रति निग्रही ॥ ८ न हन्तव्ये तु मे तात मातरौ दोषवजिते । मातृघाते महान्दोषः कथितो वेदपण्डितैः॥ तस्माद्धातं महाराज एतयोर्न करोम्यहम् ॥ दोषाणां तु सहस्रेण युक्ता माता यदा भवेत् । भगिनी चापि राजेन्द्र दुहिता च तथाऽऽत्मनः॥ पुत्रैश्च भ्रातृभिश्चैव नैव वध्या भवेत्कदा । एवं ज्ञात्वा महाराज मातरौ नैव घातये ॥ ११ यदोर्वाक्यं तथा श्रुत्वा स च क्रुद्धोऽभ्यभाषत। [*शशाप तं सुतं पश्चाद्ययातिः पृथिवीपतिः]॥१२ यत्त्वयाऽवमतोऽहं वै तस्मात्पापमवाप्स्यसि । मातुरंशं भजस्व त्वं मच्छापकलुषीकृतः ॥ १३ एवं शप्त्वा यदुं पुत्रं ययातिः पृथिवीपतिः । पुत्रं शप्त्वा महाराजस्तया सार्ध महायशाः॥ रमते सुखभोगेन विष्णुध्यानपरायणः॥ अश्रुबिन्दुमती सा च तेन सार्धं सुलोचना । बुभुजे चारुसर्वाङ्गी दिव्यान्भोगान्मनोनुगान् ॥ एवं कालो गतस्तस्य ययातेः सुमहात्मनः ॥ अक्षया निर्जराः सर्वा अमराश्च प्रजास्तदा। [ 'सर्वे लोका महाभाग विष्णुध्यानपरायणाः] १६ तपसा सत्यभावेन विष्णोर्ध्यानेन पिप्पल । सर्वे लांका महाभाग सुग्विनः साधुसेवकाः ॥ १७ इति श्रीमहापुराणे पाये भूमिग्वण्डे वेनोपाख्यान पितृतीर्थ ययातिचरितेऽशीतितमोऽध्यायः ॥ ८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७३३९
अर्थवाशीतितमोऽध्यायः ।।
r
सुकर्मोवाचअथेन्द्रोऽसौ महाप्राज्ञः सदा भीतो महात्मनः । ययातर्विक्रमं दृष्ट्वा दानपुण्यादिकं बहु ।। मेनका प्रेषयामास स्वर्वेश्यां दौत्यकर्मणि । गच्छ भंद्र महाभागे ममाऽऽदेशं वदस्व हि ॥ २ कामकन्यामितो गत्वा देवराजवची वद । येन केनाप्युपायेन राजानं त्वमिहाऽऽनय ॥ एवं श्रुत्वा गता सा तु मेनका तत्र प्रेपिता । समाचष्टे तु तत्सर्व देवराजविभाषितम् ।। एवमुक्ता गता सा तु मेनका तत्प्रणादिता ।। गतायां मेनकायां तु रतिपुत्री मनस्विनी । राजानं धर्मसंकेतं प्रत्युवाच यशस्विनी ॥ ४ त्वयाऽहंमानिना राजन्सत्यवाक्येन वै पुरा । स्वकर मत्कर दत्त्वा सत्यधर्मसमन्वितम् ॥ ५ यद्यद्वदाम्यहं राजंस्तत्तत्कार्य हि वै त्वया । तदेव तु त्वया वीर न कृतं भाषितं मम ॥ तस्मात्त्वां तु परित्यक्ष्ये यास्यामि पितृमन्दिरम् ॥
राजोवाचयथोक्तं हि मया भद्रे तत्ते कर्ता न संशयः । असाध्य तु परित्यज्य साध्यमेव वदस्व मे ॥ ७
अश्रुबिन्दुमत्युवाचएतदर्थ मया कान्तो भवान्वै समुपाश्रितः । सर्वलक्षणसंपन्नः सर्वधर्मसमन्वितः ॥ ८ सर्व साध्यं तव ज्ञात्वा भोक्तारं सर्वसंपदाम् । कर्तारं सर्वधर्माणां स्रष्टारं पुण्यकर्मणाम् ॥ ९ त्रैलोक्यसाधकं ज्ञात्वा त्रैलोक्येऽप्रतिमं च वै । विष्णुभक्तमहं जाने वैष्णवानां महावरम् ॥ १०
ur
* एनचिहान्तर्गतः पाठः ख. र. च. छ. स. पुस्तकस्थः । । एतचिहान्तगतः पाट: ख. घ. इ.च. छ. ट.ट. ढ. पुस्तकस्थः ।