________________
६१ एकषष्टितमोऽध्यायः ] पद्मपुराणम् ।
१०९ जन्म जन्म हृषीकेशसेवनं यैः कृतं द्विजाः। द्विजे दत्तं हुतं वह्नौ विरतिस्तत्र तत्र हि ॥ २० नारीणां किल के नाम सौन्दर्य परिचक्षते । भूषणानां च वस्त्राणां चोकचक्यं तदुच्यते ॥ २१ स्नेहात्मज्ञानरहितं नारीरूपं कुतः स्मृतम् । पूयमूत्रपूरीपासक्त्व दोस्थिवसान्वितम् ॥ २२ कलेवरं हि तन्नाम कुतः मौन्दर्यमत्र हि । तदेव पृथगाचिन्त्य स्पृष्ट्वा स्नात्वा शुचिर्भवेत् ॥ २३
संहितं शरीरं हि दृश्यते सुन्दरं जनैः । अहोऽतिदुर्दशा नृणां दुर्दैवघटिता द्विजाः॥ २४ कुचाहतेऽङ्गे पुरुषो नारी बुद्ध्वा प्रवर्तते। का नारी वा पुमान्को वा विचारे सति किंच न॥२५ तस्मात्सर्वात्मना साधु रीसङ्गं विवर्जयेत् । को नाम नारीमासाद्य सिद्धिं पामोति भूतले ॥२६ कामिनीकामिनीसङ्गिसङ्गमित्यपि संत्यजेत् । तत्सङ्गाद्रौरवमिति साक्षादेव प्रतीयते ॥ २७ अज्ञानाल्लोलुपा लोकास्तत्र देवेन वश्चिताः । साक्षानरककुण्डेऽस्मिन्नारीयोनौ पचेन्नरः॥ २८ यत एवाऽऽगतः पृथ्व्यां तस्मिन्नेव पुना रमेत् । यतः प्रसरते नित्यं मूत्रं रेतो मलोत्थितम् ॥ २९ तत्रैव रमते लोकः कस्तस्मादशुचिर्भवेत् । तत्रानिकष्टं लोकेऽस्मिन्नहो दैवविडम्बना ॥ ३० पुनः पुना रमेत्तत्र अहो नित्रपता नृणाम् । तस्माद्विचारयेद्धीमानारीदोषगणान्बहून् ॥ ३१ मेथुनादलहानिः स्यान्निदानितरुणायते । निद्रयाऽपहृतज्ञानो ह्यल्पायुर्जायते नरः॥ ३२ तस्मात्प्रयन्ननो धीमानारी मृत्युमिनाऽऽत्मनः। पश्येद्गोविन्दपादाब्जे मनो वै रमयेद्बुधः॥ ३३ इहामुत्र सुखं तद्धि गोविन्दपदसंवनम् । विहाय को महामढी नारीपादं हि सेवते ॥ ३४ जनार्दनानिमेवा हि ह्यपुनर्भवदायिनी । नारीणां योनिसेवा हि योनिसंकटकारिणी॥ ३५ पुनः पुनः पतेयोनो यत्रनिप्पाचितो यथा । पुनस्तामेवाभिलपेद्विद्यादस्य विडम्बनम् ॥ ३६ ऊर्ध्वबाहुरहं वच्मि शृणु मे परमं वचः । गोविन्द धहि हृदयं न योनी याननाजुपि ॥ ३७ नारीसङ्ग परित्यज्य यश्चापि परिवर्तते । पदे पदेऽश्वमेधस्य फलमामानि मानवः ॥ ३८ कुलाङ्गना दैवेदोषादृढा यदि नृणां सती। पुत्र उत्पाद्यते यस्मिस्तत्सङ्ग परिवर्जयेत् ॥ ३९ तस्य तुष्टो जगन्नाथो भवत्येव न संशयः । नारीसङ्गो हि धर्मज्ञैग्सत्मङ्गः प्रकीर्त्यते ॥ ४० तस्मिन्मति हरी भक्तिः सुदृढा नव जायते । सर्वसङ्ग परित्यज्य हरौ भक्ति समाचरेत् ॥ ४१ हरिभक्तिश्च लोकंत्र दुर्लभा हि मता मम । हरौ यस्य भवेद्भक्तिः स कृतार्थो न संशयः॥४२ तत्तदेवाऽऽचरेकर्म हरिः प्रीणाति येन हि । तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते पीणितं जगत् ॥ ४३ हरौ भक्तिं विना नृणां वृथा जन्म प्रकीर्तितम् । ब्रह्मादयः सुरा यस्य यजन्ते प्रीतिहेतवे ॥ ४४ नारायणमनाव्यक्तं न तं मेवेत को जनः । यस्य माता महाभागा पिता तस्य महाकृती ॥ जनादनपदद्वंद्वं हृदय येन धायन ।। जनार्दन जगद्वन्द्य शरणागतवत्सल । इतीरयन्ति ये मां न तेषां निरये गतिः॥ ४६ ब्राह्मणान्हि विशेषेण प्रत्यक्षं हरिरूपिणः । पूजययुर्यथायोगं हरिस्तेषां प्रसीदति ॥ ४७ विष्णुर्ब्राह्मणरूपेण विचरन्पृथिवीमिमाम् । ब्राह्मणेन विना कर्म सिद्धि प्रामोति नैव हि ॥ ४८ द्विजपादाम्बु भक्त्या यः पीत्वा शिरसि चार्पितम् । नर्पिताः पितरस्तन आत्माऽपि किल तारितः ब्राह्मणानां मुखे येन दत्तं मधुरमर्चितम् । माक्षात्कृष्णमुखे दत्तं तदै भुङ्क्ते हरिः स्वयम् ॥ ५० अहोऽतिदुर्भगा लोकाः प्रत्यक्ष केशवे द्विजे । प्रतिमादिषु सेवन्ते तदभावे हि तक्रिया ॥ ५१
१८. चारुचिक्यं । २ ख. अ त् । ईदृशं तु श' । ३ क संघट्टका'। ४ ख अ. 'वयोगाद। ५ ख. अ. 'त्रमुत्पा। ६ ख. यस्मिन्मता सा गृहमाधिनी । त। ट.मपित ।