________________
१०८
महामुनिश्रीव्यासप्रणीतं -
[ १ आदिखण्डे
३८
३९
नान्यं देवं महादेवाद्व्यतिरिक्तं प्रपश्यति । तमेवाऽऽत्मानमन्वेति यः स याति परं पदम् || ३६ मन्यन्ते ये स्वमात्मानं विभिन्नं परमेश्वरात् । न ते पश्यन्ति तं देवं वृथा तेपां परिश्रमः || ३७ एकमेव परं ब्रह्म विज्ञेयं तत्त्वमव्ययम् । स देवस्तु महादेवो नैतद्विज्ञाय वध्यते ॥ तस्माद्यतेत नियतं यतिः संयतमानसः । ज्ञानयोगरतः शान्तो महादेवपरायणः ॥ एष वः कथितो विप्रा यतीनामाश्रमः शुभः । पितामहेन मुनिना विभुना पूर्वमीरितः ।। नापुत्रशिप्ययोगिभ्यो दद्यादिदमनुत्तमम् । ज्ञानं स्वयंभुवा प्रोक्तं यतिधर्माश्रयं शिवम् ॥ इति यतिनियमानामेतदुक्तं विधानं सुरवरपरितोषे यद्भवेदेकहेतुः । न भवति पुनरेषामुद्भवो वा विनाशः प्रणिहितमनसो ये नित्यमेवाऽऽचरन्ति ।। इति श्रीमहापुराणे पाद्म आदिखण्डे पष्टितमोऽध्यायः ॥ ६० ॥ आदितः श्लोकानां समथ्र्यङ्काः
४०
४१
– ३०३२
अथकपष्टितमोऽध्यायः ।
४२
सूत उवाच
६
एवमुक्तं पुरा विमा व्यासेनामिततेजसा । एतावदुक्त्वा भगवान्व्यासः सत्यवतीसुतः ॥ समाश्वास्य मुनीन्सर्वाञ्जगाम च यथागतम् । भवद्भयस्तु मया प्रोक्तं वर्णाश्रमविधानकम् ॥ एवं कृत्वा प्रियां विष्णोर्भवत्येव न चान्यथा । रहस्यं तत्र वक्ष्यामि शृणुत द्विजसत्तमाः ॥ ये चात्र कथिता धर्मा वर्णाश्रमनिवन्धनाः । हरिभक्तिकलांशांशसमाना न हि ते द्विजाः ॥ पुंसामह वै साध्या हरिभक्तिः कलौ युगे । युगान्तरेऽन्यधर्मा हि सेवितव्या नरेण हि ।। कलौ नारायणं देवं यजते यः स धर्मभाक । दामोदरं हृषीकेशं पुरुहूतं सन्दातनम् ॥ हृदि कृत्वा परं शान्तं जितमेत्र जगत्रयम् । कलिकालोरंगादंशात्किल्विपात्कालकूटतः ॥ ७ हरिभक्तिसुधां पीत्वा उल्लघ्यां भवति द्विजः । किं जपः श्रीहनाम गृहीतं यदि मानुषैः ॥ ८ किं स्नानैर्विष्णुपादाम्भां मस्तकं येन धार्यते । किं यज्ञेन हरेः पादपद्मं येन हृदि धृतम् ॥ किं दानेन हरेः कर्म सभायां यः प्रकाशितम् । हरेर्गुणगणाञ्श्रुत्वा यः प्रहृष्येत्पुनः पुनः ॥ १० समाधिना प्रहृष्टस्य स गतिः कृष्णचेतसः । तत्र विघ्नकराः प्रोक्ताः पाखण्डाः पापपेशलाः नार्यस्तत्सङ्गिनश्वापि हरिभक्तिविधानकाः ॥
॥
२
३
४
११
१५
नारीणां नयनादेशः सुराणामपि दुर्जयः । स येन विजितां लांके हरिभक्तः स उच्यते ।। १२ माद्यन्ति मुनयोऽप्यत्र नारीचरितलोलुपाः । हरिभक्तिः कुतः पुंसां नारीभक्तिजुषां द्विजाः ।। १३ राक्षस्यः कामिनीवेषाच्चरन्ति जगति द्विजाः । नराणां बुद्धिकवलं कुर्वन्ति सततं हि ताः ।। १४ तावद्विद्या प्रभवति तावज्ज्ञानं प्रवर्तते । तावत्सुनिर्मला मेधा सर्वशास्त्रविधारिणी ॥ तावज्जपस्तपस्तावत्तावत्तीर्थनिषेवणम् । तावच्च गुरुशुश्रूषा तावद्धि तरणे मतिः ।। तावत्प्रबोधो भवति विवेकस्तावदेव हि । तावत्सतां सङ्गरुचिस्तावत्पौराणलालसा ॥ यावत्सीमन्तिनीलोलनयनान्दोलनं न हि । जनोपरि पतेद्विप्राः सर्वधर्मविलोपनम् ।। तत्र ये हरिपादाब्जमधुलेशममोदिताः । तेषां न नारीलोलाक्षिक्षेपणं हि प्रभुर्भ (भ) वेत् ॥
१६
१७
१८
१९
१ . ट. द्वित । २ ख म. "वत्प्रोत्तीर्णला ।