________________
महामुनिश्रीव्यासप्रणीतं --
[ १ आदिखण्डे
५८
५९
६०
६१
६२
६३
ब्राह्मणानामधिष्ठानात्पृथ्वी धन्यंति गीयते । तेषां पाणौ च य दत्तं हरिपाणौ तदर्पितम् ॥ ५२ तेभ्यः कृतान्नमस्करातिरस्कारो हि पाप्मनाम् । मुच्यते ब्रह्महत्यादिपापेभ्यो विमवन्दनात् ॥ ५३ तस्मात्सतां समाराध्यो ब्राह्मणां विष्णुबुद्धितः । क्षुधितस्य द्विजस्याssस्ये यत्किंचिद्दीयते यदि । प्रेत्य पीयूषधाराभिः सिच्यते कल्पकोटिकम् । द्विजतुण्डं महाक्षेत्रमनूषरमकण्टकम् ॥ ५५ तत्र चेप्यते किंचित्कोटिकोटिफलं लभेत् । सघृतं भोजनं चास्मै दत्त्वा कल्पं स मोदते ॥ ५६ नानामष्टमन यो ददाति द्विजतुष्टये । तस्य लोका महाभोगाः कोटिकल्पान्तमुक्तिदाः ॥ ५७ ब्राह्मणं च पुरस्कृत्य ब्राह्मणेन च कीर्तितम् । पुराणं शृणुयान्नित्यं महापापदवानलम् ॥ पुराणं सर्वतीर्थेषु तीर्थे चाधिकमुच्यते । यस्यैकपादश्रवणाद्धरिरेव प्रसीदति ।। यथा सूर्यवपुर्भूत्वा प्रकाशाय चरेद्धरिः । सर्वेषां जगतामेव हरिरालोकहेतवे || तथैवान्तःप्रकाशाय पुराणावयवो हरिः । विचरेदिह भूतेषु पुराणं पावनं परम् ।। तस्माद्यदि हरेः प्रीतेरुत्पाद धीयते मतिः । श्रोतव्यमनिशं पुंभिः पुराणं कृष्णरूपिणः ॥ विष्णुभक्तेन शान्तेन श्रोतव्य (म) मिति दुर्लभम् । पुराणाख्यानममलममलीकरणं परम् ।। यस्मिन्वेदार्थमाहृत्य हरिणा व्यासरूपिणा । पुराणं निर्मितं विप्र तस्मात्तत्परमो भवेत् ॥ ६४ पुराणे निश्चितो धर्मो धर्मश्च केशवः स्वयम् । तस्मान्कृती पुराणे हि श्रुते विष्णुर्भवेदिति ॥ ६५ . साक्षात्स्वयं हरिर्विप्रः पुराणं च तथाविधम् । एतयोः सङ्गमामाद्य हरिरेव भवेन्नरः ॥ तथा गङ्गाम्बुसेकेन नाशयेकिल्विषं स्वकम् । केशव द्रवरूपेण पापात्तारयते महीम् ॥ वैष्णवो विष्णुभजनस्याssकाङक्षी यदि वर्तते । गङ्गाम्बुसकममलममलीकरणं चरेत् ।। ६८ विष्णुभक्तिप्रदा देवी गङ्गा भुवि च गीयते । विष्णुरूपा हि सा गङ्गा लोकनिस्तारकारिणी ॥६९ ब्राह्मणेषु पुराणेषु गङ्गायां गोषु पिप्पले । नारायणधिया पुंभिर्भक्तिः कार्या हेतुकी ॥ प्रत्यक्षविष्णुरूपा हि तत्रज्ञेनिश्चिता अभी । तस्मात्सततमभ्यर्च्या विष्णुभक्त्यभिलाषिणा ।। ७१ विष्णौ भक्ति विना नृणां निष्फलं जन्म चोच्यते । कलिकालपयोराशि पापग्राहसमाकुलम् ।। ७२ विषय सञ्जनावर्त दुर्बोधफेनिलं परम् । महादुष्टजनव्यालमहाभीमं भयानकम् || दुस्तरं च तरन्त्येव हरिभक्तितरिस्थिताः । तस्माद्यतेत व लोको विष्णुभक्तिप्रसाधने ॥ ७४ किं सुखं लभते जन्तुरसद्वार्तावधारणं । हरेरद्भुतलीलस्य लीलाख्यानं न सज्जते ।।
६६
1
६७
७०
७३
७५
७९
८०
चित्रकथा लोके नानाविषयमिश्रिताः । श्रोतव्या यदि वै नृणां विषये सज्जते मनः ।। ७६ निर्वाणे यदि वा चित्तं श्रोतव्या तदपि द्विजाः । हेलया श्रवणाञ्चापि तस्य तुष्टो भवेद्धरिः ।। ७७ निष्क्रियोऽपि हृषीकेश नानाकर्म चकार सः । शुश्रूषां हिनार्थाय भक्तानां भक्तवत्सलः ।। ७८ न लभ्यते कर्मणाऽपि वाजपेयशतादिना । राजसूयायुतेनापि यथा भक्त्या स लभ्यते ।। यत्पदं चेतसा सेव्यं सद्भिराचरितं मुहुः । भवाब्धितरणं सारमाश्रयध्वं हरेः पदम् ॥ रे रे विषयसंलुब्धाः पामरा निष्ठुरा नराः । रोरवे हि किमात्मानमात्मना पातयिष्यथ ॥ ८१ विना गोविन्दसौम्याङ्घ्रिसेवनं मा गमिष्यथ । अनायासेन दुःखानां तरणं यदि वाञ्छथ ॥। ८२ भजध्वं कृष्णचरणावपुनर्भवकारणे । कुत एवाऽऽगतो मर्त्यः कुत एव पुनर्व्रजेत् ॥ एतद्विचार्य मतिमानाश्रयेद्धर्मसंग्रहम् । नानानरकसंपातादुत्थितां यदि पुरुषः ।। स्थावरादितनुं लब्ध्वा यदि भाग्यवशात्पुनः । मानुष्यं लभते तत्र गर्भवासोऽतिदुःखदः ॥ ८५ १ क झ ञ. 'ह्मणाननुकी । २ ख. ट. 'निर्मिता । ३ ख न 'भ्यर्वेद्विष्णुभक्त्या मलाशयः । वि । ४ ट. गतिस्त्वथ ।
८३.
८४
११०