________________
१९८
महामुनिश्रीव्यासप्रणीतं -
अकोनचत्वारिंशोऽध्यायः ।
[ २ भूमिखण्डे -
वेन उवाच
कालस्य तस्य मे ब्रूहि लक्षणं बुद्धिपूर्वकम् । [तीर्थस्यापि च यद्रूपं पात्रस्यापि सुलक्षणम् ] || ? दानस्यापि जगन्नाथ विधिं विस्तरतो वद । प्रसादसुमुखो भूत्वां श्रद्धा श्रोतुं प्रवर्तते ॥
२
विष्णुरुवाच --
1
३
I
१०
१३
दानकालं प्रवक्ष्यामि नित्यनैमित्तिकं नृप । काम्यं चापि महाराज चतुर्थ प्रायिकं पुनः ॥ सूर्यस्योदयवेलायां पापं नश्यति सर्वतः । अन्धकारादिकानां च घोराणां नाशकारकः । ४ दिवि सूर्यो ममांशोऽयं तेर्जेसां कल्पितो निधिः । तस्यैव तेजसा दग्धं भस्मतां याति किल्विषम् ॥५ उदयन्तं ममांशं यो दृष्ट्वा दत्ते तु वार्यपि । तस्य किं कथ्यते भ्रूप नित्यं पुण्यविवर्धकम् ।। ६ प्राप्तायां हि सुवेलायां तस्यां दानं करोति यः । स्नात्वाऽभ्यर्च्य पितॄन्देवञ्श्रद्धाभक्तिसमन्वितः यथाशक्तिप्रभावेन दयायुक्तेन चेतसा । अन्नं फलं पयः पुष्पं वस्त्रं ताम्बूलभूषणम् ॥ हेमरत्नादिकं चैव तस्य पुण्यमनन्तकम् । मध्याह्ने च तथा राजन्नपराह्ने तथैव च ।। मामुद्दिश्य हि यो दद्यात्तस्य पुण्यमनन्तकम् । खानपानादिकं सर्वमिष्टं लेपनकुङ्कुमम् ॥ कर्पूरो(रा)दिकमेवापि वस्त्रालंकार भूषणम् । अविच्छिन्नं ददात्येवं भोगसौख्यप्रदायकम् ।। ११ नित्यकालो मयाऽऽख्यातो दानपूजार्थिनां शुभः । अथातः संप्रवक्ष्यामि नैमित्तिकमनुत्तमम् १२ त्रिकालेष्वपि दातव्यं दानमेव न संशयः । शून्यं दिनं न कर्तव्यमात्मनो हितमिच्छता ।। यस्मिन्काले प्रदत्तं हि किंचिद्दानं नराधिप । तत्प्रभावान्महाप्राज्ञो बहुसामर्थ्यसंयुतः ।। १४ धनाढ्यो गुणवान्युक्तः पण्डितोऽतिविचक्षणः । पक्षमासदिनं यावन्न दत्तं वै यदाऽशनम् ॥ १५ तावद्वै वारयाम्येनं भक्ष्याच्चैव नरोत्तमम् । स्वमलं भक्षितं चैव ह्यदत्वा दानमुत्तमम् ॥ उत्पादयाम्यहं रोगं सर्वभोगनिवारणम् । तेषां कायेषु संसृष्टं बहुपीडाप्रदायकम् ।। ['मन्दानलेन संयुक्तं ज्वरं संतापकारकम् ।] त्रिकालेषु न दत्ते या ब्राह्मणेषु सुरेषु च ।। स्वयमश्नाति मिष्टं तु तेन पापं महत्कृतम् । प्रायश्चित्तेन रौद्रेण तमेवं परिशाषयेत् ॥ उपवासैर्महाराज कायशोषकरादिभिः । चर्मकारो यथा चर्म कुण्डस्योपरि निर्घृणः ॥ शोधयेच्च कषायैश्च तच्चर्म स्फोटयत्यथ । तथाऽहं पापकर्तारं शोधयामि न संशयः ॥ ओषधीनां प्रयोगैश्च कषायैः कटुकैर्भुवम् । उष्णोदकैश्च संतापैर्वायुरूपेण नान्यथ ॥ सुखं भुंक्ते ततः सोऽग्रे भोगान्पुण्यान्मनोनुगानं । न करोति समर्थः सन्सर्वदानमनुत्तमम् ॥ २३ * एतच्चिद्वान्तर्गतः पाठः क. ख. ड.च. छ. झ. ट. पुस्तकस्थः । एतविदान्तर्गतोऽयं पाठः क.ख.ड.च. छ. झ. ड.ट. पुस्तकस्थः ।
१६
१७
१८
२२
८
१९
२०
२१
१ क. स्व. ग.घ. ड.च. छ. झ.ट.ड.इ. सर्वे । २ क.ख.ड.च. छ. झ.ड.ट. 'त्वा दया में यदि व । ३ क.ख.ग.घ.ङ.च. छ. झ. ट.ड.उ. वासुदेव उवाच । ४ क. ख. ड.च. छ. झ. ड. ट. 'जसा में प्रकल्पितः । त। ग घ 'जमामेव कल्पितः । तं । ५ ङ. यो धामचक्रं सुदारुणम् । तत्र मे कथ्यते कालो बहुपुण्यप्रवर्धकः । प्रा । ६ उ. वान्दानदाता भवेत्पुनः । य । ७ क. ख.ग. घ. ङ.च.ड.ढ श्रद्धापूतेन । ८ क.ख.ग. घ. ङ.च. छ.झ.ड.ट. 'कं मिष्टं लेपनाङ्गं तु कु । ९ ग घ वै तदा बहु । तमेवं धारयत्येव बुद्ध्या चैव नरोत्तम । स्वं । १० क. ख. ड.च. छ. झ.ड.ट. शोधयेत् । ११ क. ख. ङ. च. छ. झ.ट. कुद्रव्यं । १२ क. ख. च. ड. पैर्विश्वरू ं । ग. घ. छ. ‘पैर्वैद्यरू ं। ट. 'पैर्बोधरू ं । ८. 'पैर्वेदरू ं । १३ क. ख. ङ. च. छ. झ. था । अन्ये भुञ्जन्ति तस्याप्रे भो । १४ ग. घ. ८. ड. भुञ्जन्ति तस्या । १५ क. ख. ङ. च. छ. झ ेनू । किं करोति समर्थश्च न दत्तं दाग. घ. ट. नू । किं करोति समर्थः सन्स ।