________________
२७५
७३ त्रिसप्ततितमोऽध्यायः ]
पद्मपुराणम् । गच्छन्तु दूता मम शासनेन स्वीयेषु देशेषु परेषु चैव । शृण्वन्तु सर्वेऽपि तथैव लोका जुषन्तु वाक्यं मम धर्मयुक्तम् ॥ वजन्तु लोकाः सुपथं हरेश्च भावः सुपुण्यैरमृतोपमानः॥ मुकर्मभिश्चापि च ज्ञानध्यानस्तपोभिरित्थं सततं नियुक्ताः। यज्ञेश्च दानैर्मधुसूदनैकमर्चन्तु लोका विषयान्विहाय ॥ सर्वत्र पश्यन्तु मरारिमेकं शुष्केषु चाऽऽद्देप्वपि स्थावरेषु ॥ अभ्रेषु भूमौ सचराचरेषु स्वीयेषु कायेप्वपि जीवरूपम् ॥ देवं तमुद्दिश्य ददन्तु दानान्यानिथ्यभावः परिज्ञानकैश्च ॥ नारायणं देववरं यजध्वं दोषविमुक्ता अचिराद्भविप्यथ । यो मामकं वाक्यमिहैव मानवा लोभाद्विमोहादपि नैव कारयेत् ॥ स शास्यतां यानि सुनिनो ध्रुवं ममापि चौरो हि यथा निकृष्टः॥ आकर्ण्य वाक्यं नृपनेश्च दूताः संहृष्टभावाः सकलां च पृथ्वीम् ॥ संश्रावयन्ति स्म नृपप्रणीतमादेशभावं मकलं प्रजासु ॥ विप्रादिमा अमृतं सुपुण्यमानीतमेवं भुवने च राज्ञा । पिबन्तु पुण्यं परिवैष्णवाख्यं दोषविहीनं परिणाममिष्टम् ।। श्रीकेशवं क्लेशहरं वरेण्यमानन्दरूपं परमार्थमेव ॥ नामामृतं दोपहरं तु राज्ञा आनीनमंत्रच पिबन्तु लोकाः ॥ श्रीपद्मनाभं कमलेक्षणं च आधाररूपं जगतां महेशम् ।। नामामृतं दोपहरं तु गज्ञा आनीतमत्रव पिवन्तु लोकाः॥ पापापहं व्याधिविनाशरूपमानन्ददं दानवदैत्यनाशनम् ।। नामामृतं दोपहरं तु राज्ञा आनीनमत्रैव पिबन्नु लोकाः ॥ [*यज्ञाङ्गरूपं च रथाङ्गपाणिं पुण्याकरं सौख्यमनन्तरूपम् ॥ नामामृतं दोपहरं तु गज्ञा आनीनमत्रव पिबन्तु लोकाः ] ॥ विश्वाधिवामं विमलं विगमं गमाभिधानं रमणं मुगरिम् ।। नामामृनं दोपहरं तु गज्ञा आनीनमत्रव पिवन्नु लोकाः ।। आदित्यरूपं तमसां विनाशं चन्द्रप्रकाशं मलपङ्कजानाम् ।। नामामृतं दोपहरं तु राज्ञा आनीतमत्रव पिबन्तु लोकाः ॥ सखड्गपाणिं मधुसूदनाख्यं तं श्रीनिवासं मगुणं सुरेशम् ।। नामामृतं दोपहरं तु राज्ञा आनीनमत्रेव पिबन्तु लोकाः॥ नामामृतं दोपहरं सुपुण्यमधीत्य यो मांधवविष्णुभक्तः ॥
प्रभातकाले नियती महात्मा स यानि मुक्तिं न हि कारणं च ॥ इति श्रीमहापुराणे पाझे भूमिखण्डे वनोपाख्याने मातापितृतीर्थे ययातिचरिते त्रिसप्ततितमोऽध्यायः ॥ ३ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७०२७ एतच्चिदान्तर्गतः पाठो घ. ट. १. पुस्तकस्थः ।
१क. ख. छ. झ. ड. रिपत्रिक' । घ. ट.ट. रिजातके। २ क.ख. छ. झ. जपध्वं । ड. भजन । ३. ठ... मद्यव । ४ क.खरच.छ. झ.. मनप । ५क.ख.इ.च. छ. झ. ड. द. मानव।