________________
[ २ भूमिखण्डे
महामुनिश्रीव्यासमगीत
अथ चतुःसप्ततितमोऽध्यायः ।
सुकर्मोवाच
दूतास्तु ग्रामेषु वदन्ति सर्वे देशेषु दीपेष्वय पत्तनेषु ॥ लोकाः शृणुध्वं नृपतेस्तथाऽज्ञां सर्वप्रभावैर्हरिमर्चयन्तु ।। दानश्च य.बहुभिः सुकर्मभिर्धर्मादिभिर्वा यजनैर्मनोभिः ॥ ध्यायन्तु लोका मधुसूदनं तमादेशमेवं नृपतेस्तु तस्य ॥ एवं प्रकृष्टं सकलं सुपुण्यमाकर्णितं भूमितले मुलोकैः॥ तदामभृत्येवे समस्तमा ध्यायन्ति गायन्ति मुरारिमेकम् ।। जपन्ति तप्यन्ति यजन्ति चैव वेदप्रणीतैश्च सुमूक्तमत्रैः ॥ श्रोत्रैकपुण्यैरमृतोपमानः श्रीकेशवं तद्गतमानसास्ते ॥ व्रतोपवासनियमेश्च दानविहाय दोषान्विषयान्समस्तान् ॥
[*लक्ष्मीनिवासं जगतां निवासं लोकास्तु भक्त्या परिपूजयन्ति ॥ ५ इत्याज्ञा तस्य भूपस्य वर्तते क्षितिमण्डले । वैष्णवेन प्रभावन जनाः] सर्वे यजन्ति ते ॥ ६ नामभिः कर्मभिर्विष्णुं यजन्ते यज्ञकोविदाः। तख्यानास्तब्धवसिता विष्णुपूजापरायणाः॥ ७ यावमण्डलं सर्व यावत्तपति तिग्मगुः । तावद्धि मानवा लोकाः सर्वे भागवतास्तु ते ॥ ८ विष्णोश्चैव प्रभावेन पूजास्तोत्रैश्च नामभिः । आधिहीनाश्च ते भूमौ संजाता मानवास्तदा ॥ ९ वीतशोकाश्च पुण्याश्च सर्वे चैव तपोधनाः । संजाता वैष्णवा विम प्रसादात्तस्य चक्रिणः ॥ १० आमयैश्च विहीनास्ते दोषै रोषैश्च वर्जिताः । [*सर्वैश्वर्यसमापन्नाः सर्वरोगविवर्जिताः ॥ प्रसादात्तस्य देवस्य संजाता मानवास्तदा ॥ अमरा निर्जराः सर्वे धनधान्यसमन्विताः । महाविष्णुप्रसादेन पुत्रपौत्रैरलंकृताः ॥ १२ तेषामेव महाभाग गृहद्वारेषु नित्यदा । कल्पद्रुमाः सुपुण्यास्ते सर्वकामफलप्रदाः॥ १३ सर्वकामदुघा गावः सचिन्तामणयस्तथा । सन्ति तेषां गृहे पुण्याः सर्वकामप्रदायकाः॥ १४ अमरा मानवा जाताः पुत्रपौत्रैरलंकृताः । सर्वदोषविहीनास्ते विष्णोश्चैव प्रसादतः ॥ १५ सर्वसौभाग्यसंपनाः पुण्यमङ्गलसंयुताः । सुपुण्या दानसंपन्ना ज्ञानध्यानपरायणाः॥ १६ न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् । तस्मिशासति धर्मज्ञे ययाती नृपतौ तदा ॥ १७ वैष्णवा मानवाः सर्वे विष्णुव्रतपरायणाः । तख्यानास्तज्जपाः सर्वे संजाता भावतत्पराः॥१८ तेषां गृहाणि दिव्यानि पुण्यानि द्विजसत्तम । पताकाभिस्तु शुभ्राभिः शक्युक्तानि तानि च १९ * एतचिहान्तर्गतः पाठः क.ख.घ.८.च छ.झ.ट.ठ.ड.ट. पुस्तकस्थः । * एतचिहान्तर्गतः पाठो ड. ढ. पुस्तकस्थः ।
क.ख. ड. च. छ. म. द. हुभिस्तपोभिर्धमामिलापर्यज । २ क.ख. घ. ङ. च. छ. स. १.४.४..व यजन्ति म . 'न्ति तमर्चयन्ति । ज। ४ घ. ट. ठ. ह.म् । ध्यायन्ति गायन्ति यजन्ति मा वे। ५ ट. क्तपाठः । श्री। ६ क. ख. घ. ङ. च. छ. ज. स. ट. ठ. ढ. 'सं तं श्रीनिवासं प। ७ क. ख. घ. ङ. च. छ. झ. ट. ठ. इ. इ. 'न्ते शानकों। ८. स्तगतप्राणा वि। ९. छ. म. द. "धिव्याधिविहीनास्ते सं। १० घ. ङ. छ. स. ट. ठ... ह. ३ वै स्थिरयौवनाः । ११ घ. ङ. च. छ.स. ट. ठ... द. मा वि। १२. छ.स. इ. घ. ध्यानप। १३ घ.ट. ठ. शुद्धाभिः।