________________
४६ षट्चत्वारिंशोऽध्यायः] पद्मपुराणम् ।
२१७ प्राणिनां सिद्धिमायान्ति मनसा निश्चलेन च । तपश्च तद्वन्मत्राश्च सिध्यन्त एकचिन्तया ॥ ३१ इपीकाणां महावर्गश्चपलोऽयमसंमतः । विषयेष्वेव सर्वेषु नयत्यात्मानं सर्वदा ॥ ३२ चालयित्वा मनस्तस्माख्यानादेव न संशयः । यत्र शब्द न रूपं च युवती नैव तिष्ठति ॥ ३३ मनयस्तत्र गच्छन्ति तपःसिद्ध्यर्थ हेतवे । अयं गीतः पुनीतस्ते बहुसौख्यमदायकः॥ ३४ तपसे मर्वदा वीर तिष्ठामो वनसंस्थिताः । अन्यस्थानं प्रयाहि त्वं नो वा वयं व्रजामहे ॥ ३५
गीतविद्याधर उवाचइन्द्रियाणां बलं वर्ग जितं येन महात्मना । सनपाः कथ्यते योगी स च धीरः स साधकः।।३६ शनं श्रुत्वाऽथ वा दृष्ट्वा रूपमेवं महामते । चलने नैव यो ध्यानात्स धीरस्तपसाधकः ।। ३७ भवन्तस्तेजसा हीना जितेन्द्रियास्तु नान्यथा । स्वर्गेऽपि नास्ति सामर्थ्य मम गीतस्य दूषणे ३८ वर्जयन्ति वनं सर्व हीनवीर्या न मंशयः । इदं माधारणं विप्र वनमेव न संशयः ॥ ३९ देवानां सर्वजीवानां यथा मम तथा तव । कथं गच्छाम्यहं त्यक्त्वा वनमेवमनुत्तमम् ॥ ४० यूयं गच्छन्तु तिष्ठन्तु यद्भव्यं तत्तु नान्यथा । एवमाभाष्य नं विषं गीतविद्याधरस्तर्दा ॥ ४१ समाकर्ण्य ततस्तेन मुनिना नस्य उत्तरम् । चिन्तयामास मेधावी किं कृत्वा सुकृतं भवेत् ॥ ४२ क्षमां कृत्वा जगामाथ अन्यत्स्थानं द्विजोत्तमः । तपश्चचार धर्मान्मा योगासनगतः मदा ॥ ४३ कामं क्रोधं परित्यज्य मोहं लोभं तथैव च । सर्वेन्द्रियाणि संयम्य मनसा सममेव च ॥ एवं स्थितस्तदा योगी पुलस्त्यो मुनिसत्तमः ।।
सुकलोवाच --- गते तस्मिन्महाभागे पुलस्त्य मुनिपुङ्गव । कालादिष्टन तेनापि गीतविद्याधरण च ॥ चिन्तिनं सुचिरं कालं नष्टोऽयं हि भयान्मम । क गतस्तिष्ठते कापि किं करोति कथं च संः ४६ ज्ञात्वाऽयमात्मजं तेन एकान्तवतशालिनम् । गतो वगहरूपेण तस्याऽऽश्रममनुत्तमम् ॥ ४७ आसनस्थं महात्मानं तेजोज्वालासमाविलम् । दृष्ट्वा चकार व क्षाभं विप्रस्य तस्य भामिनि।।४८ धर्षयेन्नियतं विमं तुण्डाग्रेण कुचेष्टया । पशुं ज्ञात्वा महागज क्षमते तस्य दुप्कृतम् ॥ ४९ मूत्रते पुरतो गत्वा विष्ठां च कुरुने तनः । नृत्य क्रीडते तत्र पतन प्राङ्गणे पुनः॥ ५० पशुं ज्ञात्वा परित्यक्तो मनिना तेन भूपते । एकदा तु तदाऽऽयातस्तेन रूपेण वै पुनः॥ ५१ अट्टाहासेन पुन:स्यमेवं कृतं तदा । रोदनं च कृतं तत्र गीतं गायति सुस्वरम् ॥ ५२ चालयेत्तं तथा विमं गीतविद्याधगे नृप । चेष्टितं तस्य वै दृष्ट्वा घोणी एप भवेन हि ॥ ५३ ज्ञात्वा तस्य तु वृत्तान्तमामेवं परिचालयेत् । पशुं ज्ञात्वा मया त्यक्तो दुष्ट एष सुनिघृणः ॥ ५४ एवं ज्ञात्वा महात्मानं गन्धर्वाधममेव हि । चुकोप मुनिशार्दूलस्तं शशाप महामतिः ।। ५५ यस्माच्छुकररूपेण मामेवं परिचालयः । तस्माद्वज महापाप योनि चैव च शौकरीम् ॥ ५६ शप्तस्तेनापि विप्रेण गतो देवं पुरंदरम् । तमुवाच महात्मानं कम्पमानो वरानने ॥ ५७ शृणु वाक्यं महस्राक्ष तव वाक्यं कृतं मया । तप एव हि कुर्वन्तं दारुणं मुनिपुंगवम् ॥ ५८
१ ग घ. 'तः प्रणीत । २ ज. 'च-जितन्द्रियस्तु व योगी तपते सर्वदाऽऽत्म। ३ ज. धीरः कृच्छ्रमा । ४ ग. घ. वरं । ५ ग.घ.ट.ड. यच्छ्रेष्ठ तत्प्रकुर्वताम् । ए । ज. यथेष्टं तत्प्रकुर्वताम् । ए ६ ज. दा । विरराम मुनिश्चापि श्रुत्वा तस्य तथोत्त । ७ ज. सः। गत्वा प्रतापयाम्येनमकान्त कृच्छशालि'। ८ क. ख. ग. घ. ड. च. छ. ह. ढ. 'त्वा पद्मात्म।
ज. ट. आश्रमस्थं । १. ज. विघ्नं । ११ अ. प्रावृणे । १२ ज. 'दा स तु दुष्टात्मा तेन । १३ ड ण देवरूपं प्रणाशिवम् । तस्मात्स्थानादत: सोऽपि प्रणनाम प। १४ क.ख. ग. घ.. घ. छ.स. ट... कार्य।