________________
२१६
महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डे[* पशुजातिमती चेयं सौष्ठवं भाषते स्फुटम् । ] स्वरव्यञ्जनसंपन्न संस्कृतमुत्तमं मम ॥ ६ हर्षेण विस्मयेनापि कृत्वा साहसमुत्तमम् । तत्रस्था सा महाभागा तं पतिं वाक्यमब्रवीत् ॥ ७ पश्य राजन्नपूर्वेयं संस्कृतं भाषते महत् । पशुयोनिगता चेयं यथा वै मानुषी वदेत् ॥ ८ तदाकर्ण्य ततो राजा सर्वज्ञानवतां वरः। अद्भुतमद्भुताकारं यन्न दृष्टं श्रुतं मया ॥ तामुवाच ततो राजा सुभियां सुश्रवां तदा । पृच्छ चैनां शुभां कान्ते का चेयं तु भविष्यति?. श्रुत्वा तु नृपतेर्वाक्यं सा पप्रच्छ च शूकरीम् । का भविष्यसि त्वं भद्रे चित्रं ते दृश्यते बहु ११ पशुयोनिगता त्वं वै भाषसे मानुषं वचः । सौष्ठवं ज्ञानसंपन्नं वद मे पूर्वचेष्टितम् ॥ १२ भर्तुश्चापि महाभागे भटस्यापि महात्मनः । कोऽयं पूर्व महावीर्यो गतः स्वर्ग पराक्रमैः॥ १३ आत्मनश्च सुभर्तुश्च सर्व पूर्वानुगं वद । एवमुक्त्वा महामार्गा विरराम नृपोत्तम ॥ १४
शूकर्युवाचयदि पृच्छसि मां भद्रे ममास्य च महात्मनः । तन्सर्व ते प्रवक्ष्यामि चरितं पूर्वचेष्टितम् ॥ १५ अयं पूर्व महामाज्ञो गन्धर्वो गीतपण्डितः । रङ्गविद्याधरो नाम सर्वशास्त्रार्थकोविदः ॥ १६ मेरुं गिरिवरश्रेष्ठं चारुकन्दरनिर्झरम् । तमाश्रित्य महातेजाः पुलस्त्या मुनिसत्तमः ॥ १७ तपश्चचार तेजस्वी निळलीकेन चेतसा । रङ्गविद्याधरस्तत्र संगतः स्वेच्छया शुभे ॥ १८ वृक्षच्छायां समाश्रित्य गीतमभ्यसते तदा । स्वरतालसमापतं लयमानसमन्वितम् ॥ तेत्तु श्रुत्वा मुनिस्तस्य ध्यानाञ्चलितमानसः । गायन्तं तमुवाचेदं गीतविद्याधरं प्रति ॥ २० भवद्गीतेन दिव्येन देवा मुह्यन्ति नान्यथा । सुस्वरेण सुपुण्येन तालमानन पण्डित ॥ लययुक्तेन भावेन मूर्छनासहितेन च । मे मनः स्खलितं ध्यानाद्गीतनानेन सुव्रत ॥ २२ इदं स्थान परित्यज्य अन्यत्स्थानं व्रजस्व ह ।।
गीतविद्याधर उवाचआत्मज्ञानसमां विद्यामहमत्र प्रसाधये । दुःखं न दमि कस्यापि सुख लोकेषु सर्वदा ॥ २४ गीतेनानेन दिव्येन सर्वास्तुष्यन्ति देवताः। शंभुश्वापि समानीतो गीतबनिरतो द्विज ॥ २५ गीतं सर्वरसं प्रोक्तं गीतमानन्ददायकम् । शृङ्गाराद्या रसाः सर्वे गीतनापि प्रतिष्ठिताः ॥ २६ शोभामायान्ति गीतेन वेदाश्चत्वार उत्तम । गीतन देवताः सर्वास्तापमायान्ति नान्यथा ॥ २७ तदेवं निन्दसे गीतमामेवं परिवादयः । न न्यायाऽयं महाभाग तवैव इह दृश्यते ॥ २८
पुलस्त्य उवाचसत्यमुक्तं त्वयाऽद्यैव गीतार्थे बहुपुण्यदम् । शृणु त्वं मामकं वाक्यं मानं त्यज महामने । २० नाहं गीतं प्रकुत्सामि गीतं वन्दामि नान्यथा । विद्याश्चतुर्दश सर्वा एकभावेन भाविताः ॥ ३०
* एतच्चिदान्तर्गतः पाठो ग. घ. ज. ट. ड पुस्तकस्थः । १ ज. ड. पि दृष्ट्वाऽऽश्चर्यमनुत्त । २ ज. च मुदेवां तु स्वप्रियां हृष्टमानमः । पृ । ३ ग.ट. सुरुचां । १ ग.घ. मि भद्रं ते चि । ५१ राजपत्नी । ६ ज. 'गा सुदेवा विरराम ह । श। ७ ग. घ. ज. ट. ड. 'वविद्यार्थ । ८ ग. घ. ट. ड. "निर्भर। ज. तच्च श्रुत्वा मुनिर्गीतं ध्या। १० ग. घ. ज. ट. ड. द रङ्गवि । ११ ग.घ. 'त । नय । १२ ज.ड. सर्वतः । १३ ग. घ. विद्याधर । ज. रडाविद्याधर । १४ ग. ड. आत्मजातिस । ज. आत्मजातिसमां विद्या महत्तम प्र। १५ ग. घ ज. ट. ड.पि मुन लोकस्य स । १६ ज न तुष्यन्ति देवताः सदा । शं । १७ ग, घ, अ.ट. ड. त्याज्यों । १८ घ. ज. वदामि । इ. विन्दामि ।
-
-
-