________________
६६ षट्षष्टितमोऽध्यायः] पद्मपुराणम् । पुनः प्रजायते कायो यथा हि पतनं पुरा । कथमुत्पद्यते देहस्तन्मे त्वं कारणं वद ॥ २
मातलिरुवाचअथ नारकिणां पुंसामधर्मादेव केवलात् । क्षणमात्रेण भूतेभ्यः शरीरमुपजायते ॥ ३ तद्वद्धर्मेण चैकेन देवानामपिपादिकम् । सद्यः प्रजायते दिव्यं शरीरं भूतसारतः॥ ४ कर्मणा व्यतिमिश्रेण यच्छरीरं महात्मनाम् । तद्रूपपरिमाणेन विज्ञेयं हि चतुर्विधम् ॥ ५ उद्भिजाः स्थावरा ज्ञेयास्तृणगुल्मादिरूपिणः । कृमिकीटपतङ्गाद्याः स्वेदजा नौम देहिनः ॥ ६ अण्डजाः पक्षिणः सर्वे नका मत्स्याश्च भूपते । जरायुजाश्च विज्ञेया मानुषाः सचतुष्पदाः॥ ७ तत्र सिक्ता जलभृमिरन ऊष्माऽभिजायते । वायुना धम्यमाना च क्षेत्रे बीजं प्रवर्तते ॥ ८ यर्थी तप्तानि बीजानि संसिक्तान्यम्भसा पुनः । ऊष्मणा च मृदुत्वं च मूलभावं प्रयाति च ॥९ तन्मूलादकरोत्पत्तिरङ्कुरात्पर्णसंभवः । पर्णान्नालं ततः काण्डं तन्काण्डात्प्रभवः पुनः॥ १० प्रभवाच्च भवेत्क्षीरं क्षीरात्तण्डुलमंभवः । तण्डुलाच्च ततः पकान्सृजन्त्यौषधयस्तदा ॥ ११ यवाद्याः शालिसंपूर्वाः श्रेष्ठास्तत्र दश म्मृताः। ओपथ्यः फलमारा याः शेषाः शुद्धाः प्रकीर्तिताः एतास्तृणा मर्दिनाश्च मुनिभिः पूर्वसंस्कृताः । शूर्पोलग्खलपात्रायः स्थालिकोदकवह्निभिः ॥ १३ पड्डिया हि स्वभेदेन परिणाम व्रजन्ति ताः । अन्योन्यरससंयोगादनेकस्वादतां गताः॥ १४ भक्ष्यं भोज्यं पेयलेा चोप्यं खाद्यं च भूपते । तामां भेदाः पडङ्गाश्च मधुराद्याश्च षड्गुणाः॥१५ तदन्नं पिण्डकवलासभुक्तं च देहिभिः । अन्तःस्थूलाशये सर्वप्राणान्स्थापयति क्रमात् ॥ १६ अपक्कभुक्तमाहारं स वायुः कुरुने द्विधा । संप्रविश्यान्नमध्ये तु पकं कृत्वा पृथग्गुणम् ॥ १७ अग्नेमूनि जलं स्थाप्यं तदन्नं च जलोपरि । जलस्याधः स्वयं प्राणः काष्ठाग्निं धमते शनैः ॥१८ वायुना धम्यमानोऽग्निरत्युष्णं कुरुने जलम् । नदन्नमुष्णयोगेन समन्तात्पच्यते पुनः ॥ १९ द्विधा भवति तत्पर्क कीटं चापि पृथग्रसम् । मलोदशभिः कीटं भिन्नदेहाबहिर्बजेत् ॥ २० कांक्षिनासिकाजिदादन्तोष्ठप्रजनं गुदम् । मलान्त्रवत्कप(फ)स्वेदो(दो) विण्मूत्रं द्वादश स्मृतीः॥ ताभ्यां वै प्रतिवद्धाश्च सर्वा नाड्यः समन्ततः । तासां मुग्वे तनः सूक्ष्मं माणः स्थापयते रसम्॥ रसेन तेन नाडीस्ताः प्राणः पुग्यते पुनः । संतर्पयन्ति ता नाड्यः पूर्णा देहं समन्ततः ॥ २३ ततः स नाडीमध्यस्थः श(शा)रीरेणाप्मणा रसः। पच्यते पच्यमानस्य भवेत्पाकद्वयं पुनः॥२४ त्वङ्मांसास्थि मज्जा मेदो रुधिरं च प्रजायते । रक्ताल्लोमानि मांमं च केशाः स्नायुश्च मांसतः।। स्नायोमज्जा तथाऽस्थीनि वमा मज्जास्थिसंभवा । मजाकारण वे कल्पं शुक्रं च प्रसवात्मकम् ॥ इति द्वादश अन्नस्य परिणामाः प्रकीर्तिताः । शुक्रेऽन्नस्य परीणामः शुक्रादेहस्य संभवः ॥ २७ ऋतुकाले यदा शुक्रं निर्दोष यांनिसंस्थितम् । तदा तद्वायुना स्पृष्टं स्त्रीरक्तमेकतां नयेत् ॥ २८ विसर्गकाले शुक्रस्य जीवः कारणसंयुतः । नित्यं प्रविशते योनि कर्मभिः स्वैर्विचालितः ॥ २९
१ क. ख. ड. च. छ. झ. द. न्मे विस्तरतो व । २ ड. 'त् । लक्ष्यमा । ३ अ. पादुक । ४ क. ख. घ ङ, च. छ. स. ट. ड. तद्भुतप । ५. नाभिदे । ६ इ. था तु कामिनीयोनिः संमिक्ता रेतमा। ७. उष्मतां। ८ क. ख. ङ. च. छ. झ. ड. 'लिपर्यन्ताः । ९ क. ख. ड. च. छ झ. द. श्रेष्ठाः सप्तद । १० क. ख. इ. च. छ. स. ढ. 'एता लना म । ट. एताः पुनमदि। ११ घ. ज. ट. ड. ज्यं च पेयं च लयं चोष्यं च पिच्छलम् । ता । १२ ग. सर्वे प्रा। १३ अ.रं परायः । १४ क. ख. ड. च. छ. स. द. कं पृथकीटं पृ । १५ घ. इ.'न्तोच्छिष्टमलं गु। १६ क. स. घ.स. च. छ. स. ट. ड. ढ' ताः । हृत्पादो प्र। १७ क.न. च. छ.. नखा। घ. ज. ट.इ. ततो।