________________
rm" i9 ...
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डेततो गयां समासाद्य ब्रह्मचारी समाहितः । अश्वमेधमवामोति गमनादेव भारत ॥ यत्राक्षय्यवटो नाम त्रिषु लोकेषु विश्रुतः । पितृणां तत्र वै दत्तमक्षयं भवति प्रभो ॥ महानद्यामुपस्पृश्य तर्पयेपितृदेवताः । अक्षयानामुयाल्लोकान्कुलं चैव समुद्धरेत् ॥ ततो ब्रह्मसरो गच्छेद्ब्रह्मारण्योपसेवितम् । पुण्डरीकमवामोति प्रभातमिव शर्वरी ॥ सरसि ब्रह्मणा तत्र यूपश्रेष्ठः समुच्छ्रितः । यूपं प्रदक्षिणं कृखा वाजपेयफलं लभेत् ॥ ततो गच्छेत राजेन्द्र धेनुकं लोकविश्रुतम् । एकरात्रीषितो राजन्प्रयच्छत्तिलधेनुकाम् ॥ ७ सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्धृवम् । तत्र चिह्न महाराज अद्यापि हि न संशयः॥ ८ कपिला सहवत्सा वै पर्वते विचरत्युत । सवत्सायाः पदान्यस्या दृश्यन्तेऽद्यापि भारत ॥ ९ तेषपस्पृश्य राजेन्द्र पदेषु नृपसत्तम । यत्किंचिदशुभं पापं तत्प्रणश्यति भारत ॥ १० ततो गृध्रवटं गच्छेत्स्थानं देवस्य शूलिनः । स्नायात्तु भस्मना तत्र संगम्य वृषभध्वजम् ॥ ११ ब्राह्मणेन भवेच्चीर्ण व्रतं द्वादशवार्षिकम् । इतरेषां तु वर्णानां सर्वपापं प्रणश्यति ॥ गच्छेत तत उद्यन्तं पर्वतं गीतनादितम् । सावित्रं तु पदं तत्र दृश्यते भरतर्षभ ॥ सत्र संध्यामुपासीत ब्राह्मणः संशितव्रतः । उपास्ता हि भवेत्संध्या तेन द्वादशवार्षिकी ॥ १४ योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ । तत्राभिगम्य मुच्येत पुरुषो योनिसंकटात् ॥ १५ शुक्लकृष्णावुभी पक्षो गयायो यो वसेन्नरः । पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः ॥ १६ एष्ठव्या बहवः पुत्रा यद्यप्येको गयां व्रजेत् । यजेत वाऽश्वमेधेन नीलं वा वृपमुत्सृजेत् ॥ १७ खतः फल्गुं व्रजेद्राजस्तीर्थसेवी नराधिप । अश्वमेधमवाप्नोति सिद्धिं च परमां व्रजेत् ॥ १८ ततो गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः । यत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर ॥ १९ धर्म तत्राभिसंगम्य वाजिमंधफलं लभेत् । ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम् ॥ २० तत्राभिगम्य ब्रह्माणमर्चयेन्नियनव्रतः । राजसूयाश्वमेधाभ्यां फलं प्रामानि भारत ॥ २१ ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप । उपस्पृश्य ततस्तत्र कक्षीवानिव मादत ॥ यक्षिण्या नैत्यकं तत्र प्रागग्निः पुरुषः शुचिः । यक्षिण्यास्तु प्रसादन मुच्यते ब्रह्महत्यया ॥ २३ मणिनागं ततो गच्छेगोसहस्रफलं लभेत् । नत्यकं भुञ्जत यस्तु मणिनागस्य मानवः ॥ २४ दष्टस्याऽऽशीविषेणास्य न विषं क्रमते नृप । तत्रोप्य रजनीमेकां सर्वपापैः प्रमुच्यते ॥ २५ ततो गच्छेत ब्रह्मर्षेौतमस्य वनं नृप । अहल्याया हृद स्नात्वा ब्रजंत परमां गतिम् ॥ २६ अभिगम्य श्रियं राजन्विन्दते श्रियमुत्तमाम् । तत्रादपानी धर्मज्ञ त्रिपु लोकेपु विश्रुतः ॥ तत्राभिषेकं कुर्वीत वाजिमेधमवाप्नुयात् ॥
२७ जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः । तत्राभिषेकं कृत्वा तु विष्णुलोकमवाप्नुयात् ॥ २८ ततो विनाशनं गच्छेत्सर्वपापप्रमोचनम् । वाजिमेधमवामोति सोमलोकं च गच्छति ॥ २९ गण्डकी च समासाद्य सर्वतीर्थजलोद्भवाम् । वाजपेयमवामोति सूर्यलोकं च गच्छति ॥ ३० ततो ध्रुवस्य धर्मज्ञ समाविश्य तपोवनम् । गुह्यकेषु महाभाग मोदते नात्र संशयः ॥ ३१ कर्मदा तु समासाद्य नदी सिद्धनिषेविताम् । पुण्डरीकमवामीति सोमलोकं च गच्छति ॥ ३२ ततो विशालामासाद्य नदीं त्रैलोक्यविश्रुताम् । अग्निष्टोममवामोति स्वर्गलोकं च गच्छति ॥ ३३ अथ माहेश्वरी धारां समासाद्य नराधिप । अश्वमेधमवामोति कुलं चैव समुद्धरेत् ॥ ३४
१ ट. वाजिमेधम' । २ ख. न. नर्मदां । ट. सर्वदा ।
.
.
.
-