________________
३८ अष्टात्रिंशोऽध्यायः ] पद्मपुराणम् । दिवौकसां पुष्करिणी समासाद्य नरः शुचिः । न दुर्गतिमवानोति वाजपेयं च विन्दति ॥ ३५ माहेश्वरपदं गच्छेब्रह्मचारी समाहितः । माहेश्वरपदे स्नात्वा वाजिमेधफलं लभेत् ॥ तत्र कोटिस्तु तीर्थानां विश्रुता भरतर्षभ । कर्मरूपेण राजेन्द्र असुरेण दुरात्मना।। हियमाणा हृता राजन्विष्णुना प्रभविष्णुना। तत्राभिषेकं कुर्वीत तीर्थकोव्यां नराधिप ॥ पुण्डरीकमवामोति विष्णुलोकं च गच्छति ॥ ततो गच्छेन्नरश्रेष्ठ स्थानं नारायणस्य च । सदा संनिहितो यत्र हरिवसति भारत ॥ यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः। आदित्या वमवो रुद्रा जनार्दनमुपासते ॥ शालग्राम इति ख्यातो विष्णोरमृतकर्मणः। अभिगम्य त्रिलोकेशं वरदं विष्णुमच्युतम् ॥ ४१ अश्वमेधमवामोति विष्णुलोकं च गच्छनि । तत्रोदपानो धर्मज्ञ सर्वपापविमोचनः॥ ४२ समुद्रास्तत्र चत्वारः कृपे संनिहिताः सदा । तत्रोपस्पृश्य राजेन्द्र न दुर्गतिमवानुयात् ॥ अभिगम्य महादेवं वरदं विष्णुमव्ययम् । विराजते यथा सोम ऋणैर्मुक्तो युधिष्ठिर ॥ ४४ जातिस्मर उपस्पृश्य शुचिः प्रयतमानसः । जानिस्मरत्वं प्रामोति स्नात्वा तत्र न संशयः ॥ ४५ वटेश्वरपुरं गत्वा अर्चयित्वा च केशवम् । ईप्सिताल्लँभते लोकानुपवासान्न संशयः ॥ ४६ ततस्तु वामनं गत्वा सर्वपापप्रमोचनम् । अभिवाद्य हरिं देवं न दुर्गतिमवामुयात् ॥ ४७ भरतस्याऽऽश्रमं गत्वा सर्वपापप्रमोचनम् । कोशिकीं तत्र सेवेत महापातकनाशिनीम् ॥ राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ततो गच्छेत धर्मज्ञ चम्पकारण्यमुत्तमम् । तत्रोप्य रजनीमेकां गोसहस्रफलं लभेत् ।। अथ गोविन्दमासाद्य तीर्थ परममंमतम् । उपोप्य रजनीमेकामग्निष्टोमफलं लभेत् ॥ तत्र विश्वेश्वरं दृष्ट्वा देव्या मह महाद्युतिम् । मित्रावरुणयोर्लोकान्मामुयाद्भरतर्षभ । त्रिरात्रोपोपितस्तत्र अग्निष्टोमफलं लभेत् ॥ कन्योसंवेधमासाद्य नियतो नियताशनः । मनोः प्रजापतेर्लोकानामांति भरतर्षभ । कन्यायां ये प्रयच्छन्ति दानमण्वपि भारत । तदक्षयमिति प्राक्रपयः संशितव्रताः॥ ५३ निष्ठावासं ममासाद्य त्रिषु लोकेषु विश्रुतम् । अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ ५४ ये तु दानं प्रयच्छन्ति निष्ठायाः मंगमे नराः । ते सान्ति नरशार्दूल ब्रह्मलोकमनामयम् ॥ ५५ तत्राऽऽश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः । तत्राभिपेकं कुर्वाणो वाजपेयमवामुयात् ॥ ५६ देवकूटं समासाद्य देवर्षिगणमेवितम् । अश्वमेधमवामोति कुलं चैव समुद्धरेत् ॥ ततो गच्छेत राजेन्द्र कौशिकस्य मुनेईदम् । यत्र सिद्धिं परां पाप विश्वामित्रोऽथ कौशिकः ५८ तत्र मासं वसेद्धीरः कौशिक्यां भरतर्षभ । अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति॥ ५९ सर्वतीर्थवरं चैव यः सेवेत महाहदम् । न दुर्गतिमवाप्नोति विन्द्याबहुमुवर्णकम् ॥ ६० कुमारमभिगम्याथ वीराश्रमनिवासिनम् । अश्वमेधमवामोति शकलोकं च गच्छति ॥ ६१ नन्दिन्यां च समासाद्य कूपं त्रिदशसेवितम् । नरमेधस्य यत्पुण्यं तत्मामोति कुरूद्वह ॥ ६२ कालिकासंगमे स्नात्वा कौशिक्यारुणयोर्यतः । त्रिरात्रोपोषितो विद्वान्सर्वपापैः प्रमुच्यते ॥ ६३ उर्वशीतीर्थमासाद्य तथा सोमाश्रमं बुधः । कुम्भकर्णाश्रमे स्नात्वा पूज्यते भुवि मानवः ॥ ६४ तथा कोकामुखे स्नात्वा ब्रह्मचारी समाहितः । जातिस्मरत्वं प्रामोति दृष्टमेतत्पुरातनैः॥ ६५
१ ट. गोष्टं समा । २ ख. ज. 'न्यावमथमा ।