________________
७२
महामुनिश्रीव्यासप्रणीतं—
सन्नदीं समासाद्य कृतार्थो भवति द्विजः । सर्वपापविशुद्धात्मा स्वर्गलोकं च गच्छति । ऋषभदीपमासाद्य सेव्य क्रौञ्चनिषूदनम् । सरस्वत्यामुपस्पृश्य विमानस्थो विराजते ॥ औद्यानकं महाराज तीर्थ मुनिनिषेवितम् । तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते || ब्रह्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम् । वाजपेयमवाप्नोति नरो नास्त्यत्र संशयः ॥ ततश्चम्पां समासाद्य भागीरथ्यां कृतोदकः । दण्डार्पणं समासाद्य गोसहस्रफलं लभेत् ॥ mini ततो गच्छेत्पुण्यां पुण्यनिषेविताम् । वाजपेयमवाप्रोति विमानस्थश्च पूज्यते ॥ इति श्रीमहापुराणे पाच आदिखण्डे गयादितीर्थमाहात्म्यकथन नामाष्टात्रिंशोऽभ्याय. ॥ ३८ ॥ आदितः श्लोकानां समश्यङ्काः – २०३४
[ १ आदिखण्डे
resioचत्वारिंशोऽध्याय ।
मारद उवाच --
अथ संध्यां समासाद्ये संविद्यां तीर्थमुत्तमम् । उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः ॥ रामस्य च प्रसादेन तीर्थराजं कृतं पुरा । तल्लौहित्यं समासाविन्यासुवर्णकम् || करतोयां समासाद्य त्रिरात्रोपोषितो नरः । अश्वमेधमवाप्नोति शक्रलोकं च गच्छति ॥ गङ्गायास्त्वथ राजेन्द्र सागरस्य च मंगमे । अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥ गङ्गायास्तु परं द्वीपं प्राप्य यः स्नाति भारत । त्रिरात्रोपोषितो राजन्सर्वकाममवामुयात् ॥ ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम् । विरजं तीर्थमासाद्य विराजति यथा शशी ।। भावे च कुलं गत्वा सर्वपापं व्यपोहति । गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नरः ॥ शोणस्य ज्योतिरथ्याश्च सङ्गमे निवस शुचिः । तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ।। शोणस्य नर्मदायाश्च प्रभवे कुरुपुङ्गव । वंशगुल्ममुपस्पृश्य वाजिमेधफलं लभेत् ॥ ऋषभं तीर्थमासाद्य कोशलायां नराधिप । वाजिमेधमवाप्नोति त्रिरात्रांपापिता नरः ॥ कोशलायां समासाद्य कालतीर्थमुपस्पृशेत् । वृषभैकादशगुणं लभते नात्र संशयः || पुष्पषत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः । गोमहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत् || ततो बदरिकातीर्थे स्नात्वा प्रयतमानसः । दीर्घायुष्यमवाप्नोति स्वर्गलोकं च गच्छति ॥ ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम् । रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् ॥ मतङ्गस्य तु केदारं तत्रैव भरतर्षभ । तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ श्रीपर्वतं समासाद्य नदीतीरमुपस्पृशेत् । अश्वमेधमवाप्रांति परां सिद्धिं च गच्छति ॥ श्रीपर्वते महादेवो देव्या सह महाद्युतिः । न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः । तत्र देवहदे स्नात्वा शुचिः प्रयतमानसः । अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति ॥ ऋषभं पर्वतं गत्वा भाण्डेषु सुरपूजितम् । वाजपेयमवाप्रांति नाकपृष्ठे च मोदते ॥ ततो गच्छेत कावेरीं हृतामप्सरसां गणैः । तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ तत्र तीर्थे समुद्रस्य कन्यातीर्थमुपस्पृशेत् । तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते ॥
६६
६७
६८
६९
७०
७१
9
२
3
४
ም
६
७
८
५५
3
१४
१५
१६
१७
१८
१९
२०
२१
१८. लावटिकां । २ ख. अ. द्य विद्यातीर्थमनुत्त। ३ ८. सद्विद्यां । ४ ख. ञ. विराज । ५ ग व प्रभव मेकले ग ६ ख. ञ. नतच्गस्य । ७ ख. अ. तिः । रमते पर । ८८. पाण्डेषु ।