________________
३९ एकोनचत्वारिंशोऽध्यायः ]
पद्मपुराणम् ।
७३
२२ २३
अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम् । समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम् ॥ यत्र ब्रह्मादयो देवा मुनयश्च तपोधनाः । भूतयक्षाः पिशाचाश्च किंनराः समहोरगाः ॥ सिद्धचारणगन्धर्वा मानुषाः पन्नगास्तथा । सरितः सागराः शैला उपासत उमापतिम् ॥ २४ तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः । दशाश्वमेधानाप्नोति गाणपत्यं च विन्दति ॥ २५ उपोप्य द्वादशं रात्रं कृतार्थो जायते नरः । तस्मिन्नेव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम् ॥ २६ त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत् । निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप । गायत्री पठते यस्तु योनिसंकरजी द्विजः । गाथा वा गीतिका वाणी तस्य संपद्यते नृप ।। २८ अब्राह्मणस्य पठतः सावित्री तूपनश्यति । संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम् ।। रूपस्य भागी भवति सुभगश्चाभिजायते ॥
२७
1
२९
३०
३२
३५
३६
३७
३८
ततो वर्णोचमासाद्य तर्पयेत्पितृदेवताः । मयुरहंससंयुक्तं विमानं लभते नरः ॥ ततो गोदावरी प्राप्य नित्यसिद्धनिषेविताम् । गवामयमवासोति वायुलोकं च गच्छति ॥ वेणायाः संगमे स्नात्वा वाजपेयफलं लभेत् । वरदासंगमे स्नात्वा गोसहस्रफलं लभेत् ॥ ब्रह्मस्थूणां समासा त्रिरात्रोपोषितो नरः । गोसहस्रफलं विन्द्यात्स्वर्गलोकं च गच्छति ॥ ३३ कुब्जावनं समासाद्य ब्रह्मचारी समाहितः । त्रिरात्रोपोषितः स्नात्वा गोसहस्रफलं लभेत् ॥ ३४ ततो देवहदे स्नात्वा कृष्णवर्णजलोद्भवे । ज्योतिर्मादे चैव तथा कन्याश्रमे नृप । यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः । अग्निष्टोमशतं विन्यासनादेव तत्र तु ॥ सर्वदेवहदे स्नात्वा गोसहस्रफलं लभेत् । जानिमात्र स्नात्वा भवेज्जातिस्मरो नरः ॥ नतो वापीं महापुण्यां पयोष्णीं सरितां वराम् । पितृदेवार्चनरतो गोसहस्रफलं लभेत् ।। दण्डकारण्यमासाद्य महाराज उपस्पृशेत् । सरभङ्गाथमं गत्वा शुकस्य च महात्मनः ॥ न दुर्गतिमवामोति पुनाति स्वकुलं नरः ॥ ततः सूर्यारिकं गच्छेज्जमदग्निनिषेवितम् । रामतीर्थे नरः स्नात्वा विन्धादुसुवर्णकम् ॥ सप्तगोदावरी स्नात्वा नियतो नियताशनः । महापुण्यमत्रानोति देवलोकं च गच्छति ॥ ततो देवपथं गच्छेन्नियतो नियताशनः । देवसत्रस्य यत्पुण्यं तदवामांति मानवः तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः । वेदानध्यापयत्तत्र मुनीन्सारखतः पुरा ॥ as वेदान्नस्तु मुनेरङ्गिरसः सुतः । उपविष्टो महर्षीणामुत्तरीयेषु भारत । ओंकारेण यथान्यायं सम्यगुच्चारितेन ह । येन यत्पूर्वमभ्यस्तं तस्य तत्समुपस्थितम् ॥ ऋपयस्तत्र देवाथ वरुणोऽग्निः प्रजापतिः । हरिर्नारायणो देवो महादेवस्तथैव च ॥ पितामहश्च भगवान्देवैः सह महाद्युतिः । भृगुं नियोजयामास याजनार्थे महाद्युतिम् ॥ ततः स चक्रे भगवानृषीणां विधिवत्तदा । सर्वेषां पुनराधानं वेददृष्टेन कर्मणा ॥ आज्यभागेन वै तत्र तर्पितास्तु यथाविधि । देवास्त्रिभुवनं याता ऋषयश्च यथासुखम् ॥ तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम । पापं विनश्यते मद्यः स्त्रिया वै पुरुषस्य वा ॥ तत्र मासं वसेद्धीरो नियतो नियताशनः । ब्रह्मलोकं व्रजेद्राजन्पुनीते च कुलं पुनः ॥ मेधावनं समासाद्य पितृदेवांश्च तर्पयेत् । अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति ॥
३९
४०
४१
४२
४३
४४
४५
४६
४७
४८
४९
५०
५१
५२
१८. योऽनिशं कण्ठतो द्वि । २ ८. तो वेणां समा । ३. मू । राजसूय । ४. प्णवेणज । ५ ख. म. सूर्यार्यकं । ८. गुर्दारकं ।
१०