________________
महामुनिश्रीव्यासप्रणीतं
[ आदिखण्डेकेदारे चैव राजेन्द्र कपिलस्य महात्मनः । ब्रह्माणमभिगम्याथ शुचिः प्रयतमानसः ॥ ६८ सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते । कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम् ॥ ६९ अन्तर्धानमवामोति तपसा दग्धकिस्विषः । ततो गच्छेत राजेन्द्र सेवकं लोकविश्रुतम् ॥ ७० कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम् । लभते सर्वकामान्हि स्वर्गलोकं च गच्छति ॥ । तिनः कोव्यश्च तीर्थानी सैवरे(?)कुरुनन्दन । रुद्रकोव्यां तथा कूपे हदेषु च समन्तकः ॥ ७२ इलास्पदं च तत्रैव तीर्थ भरतसत्तम । तत्र स्नात्वाऽर्चयित्वा च दैवतानि पितनपि । न दुर्गतिमवामोति वाजपेयं च विन्दति ॥ किंदाने च नरः सात्वा किंयज्ञे च महीपते । अप्रमेयमनामोति दानं यज्ञं तथैव च ॥ ७४ कैफस्यां वायुपस्पृश्य श्रवधानो जितेन्द्रियः । अग्निष्टोमस्य यबस्य फलं पामोति मानवः ॥ ७५ संरकस्य तु पूर्वेण नारदस्य महात्मनः । कुरुश्रेष्ठ शुभं तीर्थ रामजन्मेति विश्रुतम् ॥ ७६ तत्र तीर्थे नरः स्नात्वा पाणांचोत्सृज्य भारत । नारदेनाभ्यनुज्ञातो लोकानामोति दुर्लभान् ।। ७७ शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेत् । तत्र स्नात्वा नरो राजन्पुण्डरीकफलं लभेत् ॥ ७८ ततत्रिविष्टपं गच्छेत्रिषु लोकेषु विश्रुतम् । तत्र वैतरणी पुण्या नदी पापप्रमोचनी ॥ ७९ तत्र स्नात्वाऽचयित्वा च शूलपाणि वृषध्वजम् । सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम् ॥ ८० सतो गच्छेत राजेन्द्र फलेकीवनमुत्तमम् । तत्र देवाः सदा राजन्फैलकीवनमाश्रिताः॥ ८१ तपश्चरन्ति विपुलं बहुवर्षसहस्रकम् । दृषद्वत्यां नरः स्मात्वा तर्पयित्वा च देवताः। अमिष्टोमातिरात्राभ्यां फलं विन्दति मानवः ॥ तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम । गोसहस्रस्य राजेन्द्र फलमामोति मानवः॥ ८३ पाणिख्याते नरः स्नात्वा तर्पयित्वा च देवताः । अवामुते राजसूयमृषिलोकं च गच्छति ॥ ८४ ततो गच्छेत धर्मज्ञ मिश्रकं लोकविश्रुतम् । तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना ॥ ८५ व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम् । सर्वतीर्थेषु स नाति मिश्रके स्नाति यो नरः॥८६ ततो व्यासवनं गच्छेनियतो नियताशनः । मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ८७ गत्वा मधुवटीं चापि देव्याः स्थानं नरः शुचिः। तत्र स्नात्वाऽर्चयदेवान्पितंश्च नियतः शुचिः॥ स देव्या समनुज्ञातो गोसहस्रफलं लभेत् ॥
८८ कौशिक्याः संगमे यस्तु दृषद्वत्याश्च भारत । स्नातो वे नियताहारः सर्वपापैः प्रमुच्यते ॥ ८९ सतो व्यासस्थली नाम यत्र व्यासेन धीमता । पुत्रशोकाभितप्तेन देहत्यागाय निश्चयः ॥ ९० कृतो देवैश्च राजेन्द्र पुनरुत्थापितस्तथा । अभिगम्य स्थली तस्य गांसहस्रफलं लभेत् ॥ ९१ ऋणान्तं कूपमासाथ तिलपस्थं प्रदाय च । गच्छेत परमां सिद्धिमृणैर्मुक्तो नरेश्वर ॥ घेदीतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ अहश्च सुदिनश्चैव द्वे तीर्थे तु सुदुर्लभे । तयोः स्नात्वा नरश्रेष्ठ सूर्यलोकमवाप्नुयात् ॥ ९३ मगधूमं ततो गच्छेत्रिषु लोकेषु विश्रुतम् । तत्र रुद्रपदे स्नात्वा समभ्यर्च्य च मानवः ॥ ९४ शूलपाणिं महात्मानमश्वमेधफलं लभेत् । कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ९५
१ ख. अ. 'न्द्र शिवं त्रैलोक्यवि । २ इ. च. ढ. सवक । झ. ट. सर्वक । ३ ट. नां साधं च कु। ४ ख. अ. सर्वा हि कु'। कु. ढ. सबरं । ५ क. 'कोटीत । ६ ख. भ. 'दे पश्चममन्तक । इ। . ट कृपस्थ । ८ ख. प्र. शंकरस्य । ९ क. 'लग्रीव । १० क. लडाव । ११ स्त्र.अ. 'णिखाते । १२ अ देवीतीर्थे ।