________________
२६ षड्विंशोऽध्यायः ]
पमपुराणम् । वंशमूलं समासाद्य तीर्थसेवी कुलदह । स्ववंशमुद्धरेद्राजन्नात्वा वै वंशमूलके । कायशोधनमासाद्य तीर्थ भरतसत्तम । शरीरशुद्धिमामोति स्नातस्तस्मिन संशयः॥ ३९ शुद्धदेहस्तु संयाति शुभाल्लोकाननुत्तमान् । ततो गच्छेत राजेन्द्र तीर्थ त्रैलोक्यदुर्लभम् ॥ ४० लोका यत्रोद्धृताः पूर्व विष्णुना प्रभविष्णुना । लोकोद्धारं समासाद्य तीर्थ त्रैलोक्यविश्रुतम् ॥४१ स्नात्वा तीर्थवरे राजल्लौकानुद्धरते स्वकान् । श्रीतीर्थ च समासाद्य विन्दते श्रियमुत्तमाम् ॥ ४२ कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः । तत्र स्नात्वाऽर्चयित्वा च देवानिह पितूंस्तथा॥ ४१ कपिलानां सहस्रस्य फलं विन्दति मानवः । सूर्यतीर्थ समासाद्य स्नात्वा नियतमानसः॥ ४४ अर्चयित्वा पितृन्देवानुपवासपरायणः । अग्निष्टोममवामोति सूर्यलोकं च गच्छति ॥ ४५ गवां भवनमासाद्य तीर्थसेवी यथाक्रमम् । तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् ॥ ४६ गङ्गातीर्थ समासाद्य तीर्थसेवी नराधिप(?)। केव्या(?)स्तीर्थे नरः स्नात्वा लभते वीर्यमुत्तमम् ४७ ततो गच्छेत राजेन्द्र द्वारपालं लवर्णकम् । तस्य तीर्थ सरस्वत्यां यथेन्द्रस्य महात्मनः ॥ ४८ तत्र स्नात्वा नरो राजनग्निष्टोमफलं लभेत् ॥ नतो गच्छेन धर्मज्ञ ब्रह्मावर्त नराधिप । ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् ॥ ५० ततो गच्छेन धर्मज्ञ सुतीर्थकमनुत्तमम् । यत्र संनिहिना नित्यं पितरो दैवतैः मह ॥ नत्राभिषेकं कुर्वीत पितृदेवाचने रतः । अश्वमेधमवानोति पितृलोकं च गच्छति ।। ततोऽन्यतीर्थ धर्मज्ञ समासाद्य यथाक्रमम् । काशीश्वरस्य नीर्थेषु स्नात्वा भरतसत्तम । सर्वव्याधिविनिमुक्तो ब्रह्मलोके महीयते ।। मातृतीर्थ च नत्रैव यत्र स्नानस्य पार्थिव । प्रजा विवर्धते राजन्स्वर्गतिं समवामुयात् ॥ ततः शीतवनं गच्छन्नियतो नियताशनः । तीर्थे नत्र महाराज महदन्यत्र दुर्लभम् ।। पुनाति दर्शनादेव देण्डेनकं नराधिप ॥ केशानभ्यर्च्य वै तस्मिन्पूतो भवति भारत । तत्र तीर्थवरं चान्यत्नातलोकार्तिहं स्मृतम् ॥ ५६ तत्र विप्रा नरव्याघ्र विद्वांसस्तत्वतत्पराः । गतिं गच्छन्ति परमां स्नात्वा भरतसत्तम ।। ५७ स्वर्णलामापनयन नीर्थे भरतसत्तम । प्राणायामनिर्हरन्ति स्वलोमानि द्विजोत्तमाः॥ ५८ पृतात्मानश्च राजेन्द्र प्रयान्ति परमां गतिम् । दशाश्वमोधिके चैव तस्मिंस्तीर्थे महीपते ॥ ५९ तत्र स्नात्वा नरव्याघ्र गच्छन्ति परमां गतिम् । ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम् ॥६० तत्र कृष्णा मृगा राजन्व्याधेन शरपीडिताः । विगाद्य तस्मिन्सरसि मानुषत्वमुपागताः ॥ ६१ तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी समाहितः । सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥ ६२ मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते । आपगा नाम विख्याता नदी सिद्धनिषेविता ॥ ६३ श्यामाकभोजनं तत्र यः प्रयच्छति मानवः । देवान्पितॄन्समुद्दिश्य तस्य धर्मफलं महत् ॥ ६४ एकस्मिन्भाजिते विप्रे कोटिर्भवति भोजिता । तत्र स्नात्वाऽचेयित्वा च देवतानि पितूंस्तथा ६५ उपिन्वा रजनीमकामग्निष्टोमफलं लभेत् । ततो गच्छेत धर्मज्ञ ब्रह्मणः स्थानमुत्तमम् ।। ६६ ब्रह्मानुस्वरमित्येवं प्रकाशं भुवि भारत । तत्र सप्तर्षिकुण्डेषु स्नातस्य भरतर्षभ ॥ ६७
१ अ. कोन्यास्तीथें । ट. कन्यास्तीर्थे । २ ८. 'जन्दुर्गति न च गच्छति । त' । ३ ख. अ. दण्डेकं च न । ४ अ.
'शानावप्य वै।५ तीर्थ नरः सात्वा विष्णलोक च गच्छति । त। ६ट. म । नखलों । ७ ख. प्र. या तिष्ठति निय च ।