________________
४४
महामुनिश्रीव्यासप्रणीतं -
[ आदिखण्डे
ततो गच्छेत धर्मज्ञ विष्णोः स्थानमनुत्तमम् । सततं नाम राजेन्द्र यत्र संनिहितो हरिः ॥ ८ तत्र स्नात्वा च दृष्ट्वा च त्रिलोकप्रभवं हरिम् । अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ।। ९ ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् । अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ।। १० पृथिव्यास्तीर्थमासाद्य गोसहस्रफलं लभेत् । ततः शाल्बिकिनिं गत्वा तीर्थसेवी नराधिप ।। ११ दशाश्वमेधिके स्नात्वा तदेव लभते फलम् । सेपिर्नदीं समासाद्य नागानां तीर्थमुत्तमम् ।। १२ अग्निष्टोममवाप्रोति नागलोकं च गच्छति । ततो गच्छेत धर्मज्ञ द्वारपालमतर्णकम् || तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ।।
ततः पश्ञ्चनदं गत्वा नियतो नियताशनः । कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ।। अश्विनोस्तीर्थमागम्य रूपवानभिजायते । ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम् ॥ विष्णुर्वराहरूपेण पुरा यत्र स्थितोऽभवत् । तत्र स्थित्वा नरव्याघ्र अग्निष्टोमफलं लभेत् ।। १६ ततो जयिन्यां राजेन्द्र सोमतीर्थ समाविशेत् । स्नात्वा फलमवाप्नोति राजसूयस्य मानवः || १७ एैकत्वंसे नरः स्नात्वा गोसहस्रफलं लभेत् । कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह || पुण्डरीकमवाप्नोति कृतशौचो भवेच्च सः ।।
१३
१४
ܕ
१८
१९
ततो मुञ्जर्ट नाम महादेवस्य धीमतः । तत्रोष्य रजनीमेकां गाणपत्यमवाप्नुयात् ।। तत्रैव च महाराज पैम्पो लोकपरिश्रुताम् । स्नात्वाऽभिगम्य राजेन्द्र सर्वकामानवाप्नुयात् ॥ २० कुरुक्षेत्रस्य तद्वारं विश्रुतं भरतर्षभ । प्रदक्षिणमुपादृत्य तीर्थसेवी समावृतः ॥ संस्मृ(स्रु)ते पुष्कराणां तु स्नात्वाऽर्च्य पितृदेवताः । जामदग्न्येन रामेण आहृते वै महात्मना ॥ कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति ॥
२१
२२
२९
ततो रामहदं गच्छेत्तीर्थसेवी नराधिप । यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा । क्षत्रमुत्सार्य वीर्येण हृदाः पञ्च निषेविताः । पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् ॥ पितरस्तर्पिताः सर्वे तथैव प्रपितामहाः । ततस्ते पितरः प्रीता राममूचुर्महीपते । राम राम महाभाग मीताः स्म तव भार्गव । अनया पितृभक्त्या च विक्रमेण च तेऽनघ वरं वृणीष्व भद्रं ते किमिच्छसि महामते । एवमुक्तः स राजेन्द्र रामः प्रवदतां वरः || २७ अब्रवीत्प्राञ्जलिर्वाक्यं पितृन्स गगने स्थितान् । भवन्तो यदि मे मीता यद्यनुग्राह्यता मयि ।। २८ पितृप्रसादादिच्छेयं तपसाऽऽप्यायनं पुनः । यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया ॥ ततश्च पापान्मुच्येयं युष्माकं तेजसा यहम् । हृदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः ।। एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा । प्रत्यूचुः परमप्रीता रामं तोषसमन्विताः ।। तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः । यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया ॥ ततश्च पापान्मुक्तस्त्वं निहतास्ते स्वकर्मणा । हृदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः ॥ हृदेष्वेतेषु यः स्नात्वा पितॄन्संतर्पयिष्यति । पितरस्तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम् ईप्सितं मनसः कामं स्वर्गलोकं च शाश्वतम् । एवं दत्त्वा वरं राजन्रामस्य पितरस्तदा ॥ आमच्य भार्गवं मीतास्तत्रैवान्तर्दधुस्ततः । एवं रामहृदाः पुण्या भार्गवस्य महात्मनः ॥ स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभवतः । राममभ्यर्च्य राजेन्द्र लभेद्वहुसुवर्णकम् ।।
२३
२४
२५
।। २६
३०
३१
१ क. सपिर्नवी । झ. सपि वीं । २ ट. एक दिवसे । ३ म. ट. मुञ्जः । ४ ख. जपान. जया ट, जायां । ५. "स्मृत्य एष्कराणां त खात्वाऽप्स पि ।
३२
३३
॥ ३४
३५
३६
३७