________________
२६ षड्रिंशोऽध्यायः ]
पद्मपुराणम् । राजसूयाश्वमेधाभ्यां फलं पामोति मानवः । ततो विनाशनं गच्छेभियतो नियताशनः ॥ १७ गच्छत्यन्तहिता यत्र मेरुपृष्ठे सरस्वती । चमसे च शिवो दे नागोद्भेदे च दृश्यते ॥ १८ स्नात्वा तु चपसोद्भेदे अग्निष्टोमफलं लभेत् । शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत्।। १९ मागो दे नरः स्नात्वा नागलोकमवामुयात् । शर्शयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम् ॥ २० शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत । सरखत्यां महाभाग अनुसंवत्सरं हि ते ॥ २१ स्नायन्ते भरतश्रेष्ठ हेत्तां वै कार्तिकी सदा । तत्र स्नात्वा नरव्याघ्र द्योतते शिववत्सदा ॥ २२ गोसहस्रफलं चैव प्रामुयाद्भरतर्षभ । कुमारकोटिमासाद्य नियतः कुरुनन्दन ॥ तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः । गवामयुतमामोति कुलं चैव समुद्धरेत् ॥ २४ ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः । पुरा यत्र महाराज ऋषिकोटिः समाहिता ॥ २५ हर्षेण च समाविष्टा देवदर्शनकाङ्क्षया । अहं पूर्वमहं पूर्व द्रक्ष्यामि वृषभध्वजम् ॥ २६ एवं संस्थिता राजभूषयः किल भारत । ततो योगीश्वरेणापि योगामस्थाय भूपते ॥ २७ तेषां मन्युमशान्त्यर्थमृषीणां भावितात्मनाम् ।। सृष्टा तु कोटी रुद्राणामृषीणामग्रतः स्थिता ॥२८ मया पूर्व हरो दृष्ट इति ते मेनिरे पृथक् । तेषां तुष्टो महादेव ऋपीणामुग्रतेजसाम् ॥ भक्त्या परमया राजन्वरं तेषां प्रदत्तवान् ॥ अग्रप्रभृति युष्माकं धर्मवृद्धिर्भविष्यनि । तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः ॥ ३० अश्वमेधमवामोति कुलं चैव समुद्धरेत् ॥ ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम् ॥ ३१ सरस्वत्यां महापुण्यमुपासीत जनार्दनम् । यत्र ब्रह्मादयो देवा ऋपयः सिद्धचारणाः ॥ ३२ अभिगच्छन्ति राजेन्द्र चैत्र शुक्लचतुर्दशीम् ॥ तत्र स्नात्वा नरव्याघ्र विन्देद्बहुसुवर्णकम् ॥ ५ सर्वपापविशुद्धान्मा शिवलोकं च गच्छति । ऋपीणां यत्र सत्राणि समाप्तानि नराधिप ।। तत्रावसानमासाद्य गोसहस्रफलं लभेत् ॥
इति श्रीमहापुगणे पाद्म आदिखण्डे पञ्चविंशोऽध्यायः ॥ २५ ॥
श्लोकानामादिनः समश्यङ्काः-१२२१
-
-
--
-
अय पतिशोऽध्याय ।
नारद उवाचसतो गच्छेन राजेन्द्र कुरुक्षेत्रमभिष्टुतम् । पापेभ्यो विप्रमुच्यन्ते तद्गातः सर्वजन्तवः ॥ १ कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ।। य एवं सततं ब्रूयात्सर्वपापैः प्रमुच्यते ॥ तत्र मासं वसेद्धीरः सरस्वत्यां नराधिप । यत्र ब्रह्मादया देवा यत्र ब्रह्मर्षिचारणाः ॥ ३ गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते । ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत ॥ ४ मनसाऽप्यभिकामस्य कुरुक्षेत्रे युधिष्ठिर । पापानि विप्रणश्यन्ति ब्रह्मलोकं च मच्छति ॥ ५ गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह । राजसूयाश्वमेधाभ्यां फलं पामोति मानवः॥ ६ ततो मत्तर्णकं राजन्द्वारपालं महाबलम् । यं वै समभिवाद्यैव गोसहस्रफलं लभेत् ।।
ar po mrt & wa
स. म. शपानं। ३ ख.
१ ख. अ. 'ती। रममाण: शिवस्तत्र शिवोद्भद च दृश्यते। स्नात्वा तत्र शिवोद्भदे । हता वै कातिके म । ४ क. पर्वतर ।