________________
४२
महामुनिश्रीव्यासप्रणीतं -
[ आदिखण्डे -
२५
२६
२७
२८
२९
३०
३१
स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः । तर्पयित्वा पितॄन्देवान्विष्णुलोके महीयते || तीर्थं चाप्यपरं तत्र वसूनां भरतर्षभ । तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत् ॥ सिन्धुतममिति ख्यातं सर्वपापप्रणाशनम् । तत्र स्नात्वा नरश्रेष्ठ लभेद्बहुसुवर्णकम् || ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः । ब्रह्मलोकमवामोति सुकृती विरजा नरः ॥ कुमारिकाणां शक्रस्य तीर्थ सिद्धनिषेवितम् । तत्र स्नात्वा नरश्रेष्ठ शक्रलोकमवाप्नुयात् ॥ रेणुकायाश्च तत्रैव तीर्थ देवनिषेवितम् । स्नात्वा तत्र भवेद्विप्रो विमलचन्द्रमा इव ॥ अथ पञ्चनदं गत्वा नियतो नियताशनः । पञ्चयज्ञानवामोति क्रमशो ये तु कीर्तिताः ॥ ततो गच्छेत धर्मज्ञ भीमायाः स्थानमुत्तमम् । तत्र स्नात्वा न योन्यां वै नरो भरतसत्तम ।। ३२ देव्याः पुत्रो भवेद्राजंस्तत्र कुण्डलविग्रहः । गवां शतसहस्रस्य फलं चैवाऽऽमुयान्महत् ॥ ३३ गिरिकु समासाद्य त्रिषु लोकेषु विश्रुतम् । पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ॥ ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम् । अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः || वत्र स्नात्वा नरश्रेष्ठ वाजपेयमवामुयात् । सर्वपापविशुद्धात्मा गच्छेत्परमिकां गतिम् ।। इति श्रीमहापुराणे पाद्म आदिखण्डे चतुविंशोऽध्यायः ॥ २४ ॥ आदितः श्लोकानां समश्यङ्काः - ११८७
अथ पaविशsध्याय ।
३४
३५
३६
नारद उवाच -
वितस्तां च समासाद्य संतर्प्य पितृदेवताः । नरः फलमवामीति वाजपयस्य भारत ।। काश्मीरेष्वेव नागस्य भवनं तक्षकस्य च । वितस्ताख्यमिति ख्यातं सर्वपापप्रमोचनम् ॥ तत्र स्नात्वा नरो नूनं वाजपेयमवानुयात् । सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम् ॥ ततो गच्छेत मलदं त्रिषु लोकेषु विश्रुतम् । पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि ।। चरुं सप्तार्चिषे राजन्यथाशक्ति निवेदयेत् । पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः ॥ गर्वा शतसहस्त्रेण राजसूयशतेन च । अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्वरुः ॥ सतो निलो राजेन्द्र रुद्रास्पदमथाऽऽविशेत् । अभिगम्य महादेवमश्वमेधफलं लभेत् ।। मणिमन्तं समासाद्य ब्रह्मचारी समाहितः । एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत् ॥ अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम् । प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ ॥ त्रिशूलपाणेः स्थानं च यत्र लोकेषु विश्रुतम् । देविकायां नरः स्नात्वा अभ्यर्च्य च महेश्वरम् ॥ १० यथाशक्ति नरस्तत्र निवेद्य भरतर्षभ । सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् || कामाख्यं तत्र रूद्रस्य तीर्थ देवर्षिसंमतम् । तत्र स्नात्वा नरः क्षिप्रं सिद्धिमामोति भारत ।। १२ यजनं याजनं गत्वा तथैत्र ब्रह्मवालकम् । पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः ।। अर्धयोजनविस्तारां पञ्चयोजनमायताम् । एतावदेविकामाहुः पुण्यां देवर्षिसंमताम् || ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् । यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः ।। दीर्घसत्रमुपासन्ते दीक्षिता नियतव्रताः । गमनादेव राजेन्द्र दीर्घसत्रमरिंदम ||
११
१३
१४
१५
१६
१८. वालुक ।
9
४
५
८