________________
२४ चतुर्विंशोऽध्यायः ] पद्मपुराणम् । एवं ते कथितो राजन्नर्मदागुणसंश्रयः । इतिहासो महापुण्यः श्रवणात्पापनाशनः ॥
इति श्रीमहापुराणे पान आदिखण्डे त्रयोविंशो .ध्यायः ॥ २३ ॥
आदितः श्लोकानां समष्टयङ्काः-११५१
अथ चतुर्विशोऽध्यायः ।
युधिष्ठिर उवाचअथान्यानि तु तीर्थानि वसिष्ठोक्तानि मे वद । श्रुत्वा यानि च पापानि विलयं यान्ति नारद॥१
नारद उवाचशृणुष्वात्र हि तीर्थानि वसिष्ठोक्तानि पार्थिव । दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः ॥ अग्निष्टोममवाप्नोति विमानं चाधिरोहति ॥ चर्मण्वती समासाद्य नियतो नियताशनः । रन्तिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत् ॥ ३ ततो गच्छेत धर्मज्ञ हिमवत्सुनमव॒दम् । पृथिव्या यत्र वै च्छिदं पूर्वमासीधुधिष्ठिर ॥ तत्राऽऽश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः । नत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ पिङ्गातीर्थमुपस्पृश्य ब्रह्मचारी नराधिप । कपिलानां नरव्याघ्र शतस्य फलमानुयात् ॥ ६ नतो गच्छंत धर्मज्ञ प्रभासं लोकविश्रुतम् । यत्र मंनिहितो नित्यं स्वयमेव हुताशनः ॥ ७ देवतानां सुखं वीर अनलोऽनिलमारथिः । तस्मिस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः ॥ अग्निष्टोमातिरात्राभ्यां फलं पामोति मानवः ॥
८ ततो गत्वा सरस्वत्याः सागरस्य च संगमम् । गोमहस्रफलं प्राप्य स्वर्गलोके महीयते ॥ . दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ । तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः॥ त्रिरात्रमुषितस्तत्र तर्पयेपितृदेवताः । विराजति यथा सोमो वाजिमेधं च विन्दति ॥ ११ वरदानं ततो गच्छेत्तीर्थ भरतसत्तम । विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर ॥ १२ वरदान नरः स्नात्वा गांसहस्रफलं लभेत् । ततो द्वारवतीं गच्छन्नियतो नियताशनः ॥ १३ पिण्डारके नरः स्नात्वा लभेदहसुवर्णकम् । तस्मिस्तीर्थे महाराज पद्मलक्षणलक्षिताः॥ १४ अन्या(द्या)ऽपि मुद्रा दृश्यन्ते तदद्भुतमरिंदम । त्रिशूलाङ्गानि पानि दृश्यन्ते कुरुनन्दन ॥ १५ महादेवस्य सांनिध्यं तत्रैव भरतर्षभ । सागरस्य च सिन्धोश्व संगमं प्राप्य भारत ॥ १६ तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः । तर्पयित्वा पितृन्देवानृषींश्च भरतर्षभ ॥ पामोति वारुणं लोकं दीप्यमानः स्वतेजसा । शङ्ककर्णेश्वरं देवमर्चयित्वा युधिष्ठिर । अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥ प्रदक्षिणमुपादृत्य गच्छेत भरतर्षभ । तीर्थ कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् ॥ तिमीति नाना विख्यातं सर्वपापप्रमोचनम् । यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम् ॥ २० तत्र स्नात्वाऽर्चयित्वा च रुद्रं देवगणेतम् । जन्मप्रभृति पापानि कृतानि नुदते नरः ॥ २१ तिमिरत्र नरश्रेष्ठ सर्वदेवैरभिष्टुतः। तत्र स्नात्वा नरश्रेष्ठ हयमेधमवाप्नुयात् ॥ जित्वा तत्र महामाज विष्णुना दितिनन्दनम् । पुरा शौचं कृतं राजन्हत्वा दैवतकण्टकम् ॥ २३ ततो गच्छेत धर्मज्ञ वसुधारामभिष्टुताम् । गमनादेव तस्यां हि हयमेधमवामुयात् ॥ २४