________________
.
.
महामुनिश्रीव्यासपणीत
[ १ आदिखण्डेयमुनायां विशेषेण स्नानदानेन सत्तम । आयुरारोग्यसंपत्तौ रूपयौवनतागुणे ॥ ४ येषां मनोरथस्तैस्तु न त्याज्यं यामुनं जलम् । ये बिभ्यति नरकादेर्दारिद्याद्ये त्रसन्ति च ॥ सर्वथा तैः प्रयत्नेन सत्र कार्य निमज्जनम् ॥ दारिद्यपापदौर्भाग्यपङ्कमक्षालनाय वै । ऋते वै यामुनं तोयं न चान्योऽस्ति युधिष्ठर ॥ श्रदाहीनानि कर्माणि मतान्यर्धफलानि वै । फलं ददाति संपूर्ण यामुनं स्नानमात्रतः ॥ ७ अकामो वा सकामो वा यामुने सलिले नृप । इहामुत्र च दुःखानि मज्जनानव पश्यति ॥ ८ पक्षद्वये यथा चन्द्रः क्षीयते वर्धते यथा । पातकं नश्यते तत्र स्नानात्पुण्यं विवर्धते ॥ ९ यथान्धौ सुखमायान्ति रत्नानि विविधानि च। आयुवित्तं कलत्राणि संपदः संभवन्ति च ॥ १० कामधेनुर्यथा कामं चिन्तामणिविचिन्तितम् । ददाति यमुनास्नानं तद्वन्सर्व मनोरथम् ।। ११ कृते तपः परं ज्ञानं त्रेतायां यजनं तथा । द्वापरं च कलौ दानं कालिन्दी सर्वदा शुभा ॥ १२ सर्वेषां सर्ववर्णानामाश्रमाणां च भूपते । यामुने मजनं धर्म धाराभिः खलु वर्पति ॥ अस्मिन्वै भारते वर्षे कर्मभूमो विशेपतः । कालिन्यस्नायिनां नृणां निष्फलं जन्म कीर्तितम् १४ नेश्वर्य गगने यच्चान्द्रेऽमायां तु मण्डले । तद्वन्न भाति सत्कर्म यमुनामजनं विना ॥ १५ व्रतैर्दानैस्तपोभिश्च न तथा प्रीयते हरिः । तत्र मज्जनमात्रेण यथा प्रीणाति केशवः ॥ १६ न समं विद्यते किंचित्तेजः सौरण तेजसा । तद्वन्न यमुनास्नानसमानाः क्रतुजाः क्रियाः॥ १७ प्रीतये वासुदेवस्य सर्वपापापनुत्तये । कालिन्या मजनं कुर्यात्स्वर्गलोकाय मानवः ॥ किं रक्षितेन देहेन सुपुष्टेन बलीयसा । अध्रुवण सुदहन यमुनामजनं विना ।। अस्थिस्तम्भं स्नायुबन्धं मांसक्षतजलेपनम् । चविनद्धं दुर्गन्धपूर्ण मूत्रपुरीपयोः ॥ जराशोकविपद्याप्तं रोगमन्दिरमातुरम् । रागमूलमनित्यं च सर्वदोपसमाश्रयम् ।। परोपतापपापार्तिपरद्रोहपरेषिकम् । लोलुपं पिशुनं रं कृतघ्नं क्षणिकं तथा ।। निष्ठुरं दुर्धरं दुष्टं दोपत्रयविदूषितम् । अशुचि चापि दुर्गन्धि तापत्रयविमोहितम् ।। निसर्गतोऽधर्मरतं तृष्णाशतसमाकुलम् । कामक्रोधमहालोभनरकद्वारसंस्थितम् ।। कृमिवर्चस्तु भस्मादिपरिणामगुणावहम् । ईदृक्शरीरं व्यर्थं हि यमुनामजनं विना ।। बुबुदा इव तोयेषु प्रत्यण्डा इव पक्षिपु । जायन्ते मरणायैव यमुनास्नानवर्जिताः ॥ अवैष्णवो हतो विमो हतं श्राद्धमपिण्डितम् । अब्रह्मण्यं हतं क्षत्रमनाचारहतं कुलम् ।। २७ सदम्भश्च हतो धर्मः क्रोधेनैव हतं तपः । अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम् ।। २८ परभक्त्या हता नारी ब्रह्मचारी मदाद्धतः। अदीप्तऽनौ हता हामी हता भक्तिः समायिका।। २९ उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता । शूद्रभिक्षाहता यांगः कृपणस्य हतं धनम् ।।३० अनभ्यासहता विद्या हतो बोधो विरोधकृत । जीवनार्थं हतं तीर्थ जीवनार्थ हतं व्रतम् ॥ ३१ असत्या च हता वाणी तथा पेशुन्यवादिनी । षट्कर्णगो हतो मत्रो व्यग्रचित्ता हतो जपः॥३२ हतमश्रोत्रिये दानं हतो लोकश्च नास्तिकः । अश्रद्धया हतं सर्व यत्कृतं पारलौकिकम् ॥ ३३ इहलोको हतो नृणां दरिद्राणां यथा नृप । मनुष्याणां हतं जन्म कालिन्दीमज्जनं विना ॥ ३४ उपपातकसर्वाणि पातकानि महान्ति च । भस्मी भवन्ति सर्वाणि यमुनामजनानृप ॥ ३५
१८. 'म् । विस्तीर्ण गगनं यच्चन्द्रमुडुहुमण्डलम् । त । २ क. 'वेणाऽऽशुदै । ३ ट. 'जसंयुतम् । ४ट. '। रजस्वल । ५ अ. 'मपण्डि' । ६ट. गर्वभक्त्या । ७ ट. 'री तया हतः । ८ ख. अ. 'द्रभक्षो हतो ।