________________
३० त्रिंशोऽध्यायः]
पद्मपुराणम् । वेपन्ते सर्वपापानि यमुनायां गते नरे । नाशके सर्वपापानां यदि स्नास्यन्ति वारिणि ॥ १६ पावका इव दीप्यन्ते यमुनायां नरोत्तमाः। विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चन्द्रमाः ॥ ३७ आईशुष्कलघुस्थूल वाअनाकर्मभिः कृतम् । तत्र स्नानं दहेत्पापं पावकः समिधो यथा ॥ १८ पामादिकं च यत्पापं ज्ञानाज्ञानकृतं च यत् । स्नानमात्रेण नश्येत यमुनायां नृपोत्तम ॥ १९ निष्पापास्त्रिदिवं यान्ति पापिष्ठा यान्ति शुद्धताम् । संदेहो नात्र कर्तव्यः स्नाने वै यमुनाजले ४० सर्वेऽधिकारिणो ह्यत्र विष्णुभक्तो यथा नृप । सर्वेषां सर्वदा देवी यमुना पापनाशिका ॥ ४१ एष एव परो मत्र एतच्च परमं तपः । प्रायश्चित्तं परं चैव यमुनास्नानमुत्तमम् ॥ ४२ नृणां जन्मान्तराभ्यासात्कालिन्दीमज्जने मतिः। अध्यात्मज्ञानकोशल्यं जन्माभ्यासायथा नृप ४३ संसारकदेमालेपप्रक्षालनविशारदम् । पावनं पावनानां च यमुनास्नानमुत्तमम् ॥ ४४ स्नातास्तत्र च ये राजन्सर्वकामफलप्रदे । शुभांश्च भुञ्जते भोगांश्चन्द्रसूर्यग्रहोपमान् ॥ ४५ यमुना मोक्षदा प्रोक्ता मथुरासंगता यदि । मथुरायां च कालिन्दी पुण्याधिकविवर्धिनी ॥ ४६ अन्यत्र यमुना पुण्या महापातकहारिणी । विष्णुभक्तिमदा देवी मथुरासंगता भवेत् ॥ १७ भक्तिभावेन संयुक्तः कालिन्यां यदि मज्जयेत् । कल्पकोटिसहस्राणि वसते संनिधौ हरेः॥४८ मुक्ति प्रयान्ति मनुजा नूनं सांग्व्येन वर्जिताः। पितरस्तस्य तृप्यन्ति तृप्ताः कल्पशदिवि ॥४९ ये पिबन्ति नरा राजन्यमुनासलिलं शुभम् । पञ्चगव्यमहौस्तु सेवितः किं प्रयोजनम् ॥ ५० कोटितीर्थसहस्रेस्तु मेवितः किं प्रयोजनम् । तत्र दानं च होमश्च सर्व कोटिगुणं भवेत् ॥ ५१
इति श्रीमहापुराणे पाद्म आदिखण्डे उनत्रिशोऽध्यायः ॥ २९ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१५०२
अथ त्रिशोऽध्याय ।
नारद उवाचअत्र ते वर्णयिष्यामि इतिहासं पुरातनं । पुरा कृतयुगे राजनिषधे नगरे वरे ॥ १ आसीद्वैश्यः कुवेराभो नामतो हेमकुण्डलः । कुलीनः सक्रियो देवद्विजपावकपूजकः ॥ २ कृषिवाणिज्यकर्ताऽसो बहुधा क्रयविक्रयी । गोघोटकमहिप्यादिपशुपोषणतत्परः॥ पयोदधीनि तक्राणि गोमयानि तृणानि च । काष्ठानि फलमूलानि लवणार्दादिपिप्पलीम् ॥ ४ धान्यानि शाकतैलानि वस्त्राणि विविधानि च । धातूनिक्षुविकारांश्च विक्रीणीते स सर्वदा ॥५ इत्थं नानाविधैर्वैश्य उपायरपरैस्तथा । उपार्जयामास सदा अष्टो हाटककोटयः॥ ६ एवं महाधनः सोऽथ हाऽऽकर्णपलितोऽभवत् । पश्चाद्विचार्य संसारक्षणिकत्वं स्वचेतसि ॥ ७ तद्धनस्य षडंशेन धर्मकार्य चकार सः । विष्णोरायतनं चक्रे गृहं चक्रे शिवस्य च ॥ तडागं खानयामास विपुलं सागरोपमम् । वाप्यश्च पुष्करिण्यश्च बहुधा तेन कारिताः॥ ९ वटाश्वत्थाम्रककोल्लजम्बूनिम्बादिकाननम् । आरोपितं स्वसत्त्वेन तथा पुष्पवनं शुभम् ॥ १० उदयास्तमनं यावदन्नपानं चकार सः । पुरादहिश्चतुर्दिक्षु प्रपां चक्रेऽतिशोभनाम् ॥ ११ पुराणेषु प्रसिद्धानि यानि दानानि भूपते । ददौ तानि स धर्मात्मा नित्यं दानपरस्तदा ॥ १२ यावज्जांवकृते पापे प्रायश्चित्तमथाकरोत् । देवपूजापरो नित्यं नित्यं चातिथिपूजकः ॥ १३ तस्येत्थं वर्तमानस्य संजातो द्वौ सुतौ नृप । तो सुप्रसिद्धनामानी श्रीकुण्डलविकुण्डली ॥ १४