________________
१३८
महामुनिश्रीव्यासप्रणीतं - अथैकादशोऽध्यायः ।
[ २ भूमिखण्डे
ऋषय ऊचु:
सर्वज्ञेन त्वया प्रोक्तं दैत्यदानवसंगरम् । इदानीं श्रोतुमिच्छामः सुव्रतस्य महात्मनः । कस्य पुत्रो महाप्राज्ञः कस्य गोत्रसमुद्भवः । किं तपस्तस्य विमस्य कथमाराधितो हरिः ॥ सूत उवाच -
१
२
मया प्रज्ञाप्रभावेन पूर्वमेव यथाश्रुतम् । तथा विप्राः प्रवक्ष्यामि सुव्रतस्य महात्मनः ॥ चरितं पावनं दिव्यं वैष्णवं श्रेय आवहम् । भवतामग्रतः सर्व विष्णांश्चैव प्रसादतः ॥ पूर्वकल्पे महाभागाः सुक्षेत्रे पापनाशनं । रेवातीरे सुपुण्ये च तीर्थे वामनसंज्ञके ॥ कौशिकस्य कुले जातः सोमशर्मा द्विजोत्तमैः । स तु पुत्रविहीनस्तु बहुदुःखसमन्वितः ॥ दारिद्येण सुदुःखेन सर्वदेव प्रपीडितः । पुत्रेोपायं धनस्यापि दिवारात्रौ प्रचिन्तयेत् ॥ एकदा तु प्रिया तस्य सुमना नाम सुत्रता । भर्तारं चिन्तयोपेतमधोमुखपलक्षयत् ॥ समालोक्य तदा कान्तं तमुवाच यशस्विनी । दुःखजालैरसंख्यैस्तु तव चित्तं प्रधर्षितम् ।। व्यामोहेन प्रमूढोऽसि त्यज चिन्तां महामते । मम दुःखं समाचक्ष्व स्वस्थो भव सुखं व्रज ।। १० नास्ति चिन्तासमं दुःखं कायशोषणमंत्र हि । यस्तां संत्यज्य वर्तेत स सुखेन प्रमोदते ॥ ११ चिन्तायाः कारणं विम कथयस्व ममाग्रतः । प्रियावाक्यं समाकर्ण्य सोमशर्माऽब्रवीन्प्रयाम् ।। १२ सोमशर्मोवाच --
९.
इच्छया चिन्तनं भद्रे चिन्ता दुःखस्य कारणम् । तत्सर्वं तु प्रवक्ष्यामि श्रुत्वा चैवावधार्यताम् ।। १३ न जाने केन पापेन धनहीनोऽस्मि सुत्रते । तथा पुत्रविहीनश्च तद्दुःखस्य कारणम् || १४ सुमनोवाच
४
6 ू
८
श्रूयतामभिधास्यामि सर्वसंदेहनाशकम् । स्वरूपमुपदेशस्य सर्वविज्ञानदर्शनम् ।।
२०
लोभः पापस्य बीजं हि मोहां मूलं च तस्य हि । असत्यं तस्य स्कन्धां वै माया शाखासुविस्तरः१६ दम्भकौटिल्यपत्राणि कुबुद्ध्या पुष्पितः सदा । नृशंसं तस्य सौगन्धं फलमज्ञानमेव च ।। १७ छद्मपाखण्डचौर्येर्ण्याः क्रूराः कृटाश्च पापिनः । पक्षिणी मोहवृक्षस्य मायाशाखा समाश्रिताः ।। १८ अज्ञानं यत्फलं तस्य रसोऽधर्मः प्रकीर्तितः । भावोदकेन संवृद्धिस्तस्याश्रद्धा ऋतुः प्रिय ।। १९ अधर्मः सुरसस्तस्य चोत्कटैर्मधुरायते । यादृशैश्च फलैश्चैव सुफको लोभपादपः ।। तस्य च्छायां समाश्रित्य यो नरः परितुष्यते । फलानि तस्य चाश्नाति सुपकानि दिने दिने ।। २१ फलानां तु रसेनापि ह्यधर्मेण तु पालितः । स संतुष्टां भवेन्मर्त्यः पतनायाभिगच्छति ।। २२ तस्माश्चिन्तां परित्यज्य पुमालोभं न कारयेत् । धनपुत्रकलत्राणां चिन्तामेव न कारयेत् ॥ २३ यो हि विद्वान्भवेत्कान्त मूर्खाणां पथमति हि । सुभार्यामिह विन्दामि कथं पुत्रानहं लभे ।। २४ एवं चिन्तयते नित्यं दिवारात्रौ विमाहितः । क्षणमेकं प्रपश्येत चिन्तामध्ये महत्सुखम् ॥ पुनश्चैतन्यमायाति महादुःखन पीड्यते । चिन्तामोहौ परित्यज्य ह्यनुवर्तस्व च द्विज ।। संसारे नास्ति संबन्धः केन सार्धं महामते ।।
२५
१५
२६
१ क. ख. च. छ. श. ड. चामरकण्टके । २ क. ख. च छ झ. मः । धन । ३ क. ख. ग. घ. इ. च. छ. ज. अ. ट. ड, ढ, अनृतं ।