________________
१७० महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेपुण्यं यशस्यमायुष्यं स्वर्गवासकरं शुभम् । धन्यं पवित्रं विख्यातं पुत्रदं वुद्धिकारकम् ॥ २० यः शृणोति नरो भक्त्या भावध्यानसमन्वितः । अश्वमेधसहस्रस्य पुण्यं संजायते ध्रुवम् ॥ ३० इति श्रीमहापुराणे पाझे मिखण्डे पृथुचरितप्रस्तावो नाम षड्विंशोऽध्यायः ॥ २६ ॥
आदितः श्लोकानां समष्टयङ्काः-४५२०
अथ मप्तविंशोऽध्यायः ।
ऋपय ऊचु:विस्तरेण समाख्याहि जन्म तस्य महात्मनः । पृथोश्चैव महाभाग श्रीतुकामा वयं पुनः॥ १ राज्ञा तेन यथा दुग्धा चेयं धात्री महात्मना । पुनर्देवैश्व पितृभिमुनिभिस्तत्ववेदिभिः॥ २ यथा देत्येश्च नागेश्च वृक्षश्च पर्वतादिकः । [*शैलेश्चैव पिशाचैश्च गन्धर्वैः पुण्यकर्मभिः॥ । ब्राह्मणेश्च तथा सिद्धाह्मणेभीमविक्रमः । पूर्वमेव यथा दुग्धा ह्यन्यश्चैव महात्मभिः ॥ तेषामेव हि सर्वेषां विशेष पात्रधारणम् ॥ क्षीरस्यापि विधि अहि विशेषं च महामते । वनस्यापि नृपस्यैव पाणिग्व महात्मनः॥ ५ मथितो मुनिभिः पूर्व क्रुद्धश्चापि महात्मभिः । अकस्मान्कारणं सर्व सूतपुत्र वदस्व नः ॥ ६ विचित्रेयं महापुण्या कथा पातकनाशिनी । श्रीतुकामा वयं पुण्यां तृप्तिनव प्रजायते ॥
सूत उवाचवैन्यस्य च पृथोरेव तस्य विस्तरमेव च । जन्म वीर्य यथा क्षात्रं पारुपं द्विजसत्तमाः ॥ प्रवक्ष्यामि यथा सर्व चरितं तस्य धीमतः। शृणुध्वं भा महाभागा मत्ता व द्विजसत्तमाः॥ ९ अभक्ताय न वक्तव्यमश्रद्धाय शठाय च । सुमर्खाय सुमोहाय कुशिप्याय तथव च ।। १० उदासीनाय कुटाय धर्मनाशाय च द्विजाः । अन्यथा पठन यो हि निरयं च प्रयानि हि ॥ ११ भवन्तो भावयुक्ताश्च सत्यधर्मपरायणाः । भवतामग्रतः सर्व चरितं पापनाशनम् ॥ १२ संप्रवक्ष्याम्यशेषेण शृण्वतां सुमहात्मनाम् । स्वर्य यशस्यमायुप्यं धन्यं वदैश्च संमतम् ।। १३ रहस्यमृपिभिः प्रोक्तं प्रवक्ष्यामि द्विजोत्तमाः । यश्चैनं कथन्नित्यं पृथार्वन्यस्य विस्तरम् ॥ १४ ब्राह्मणेभ्यो नमस्कृत्य नैव शोचेत्कृताकृतम् । सप्तजन्मानितं पापं श्रुतमात्रेण नश्यति ॥ १५ ब्राह्मणो वेदवेत्ता च क्षत्रियो विजयी भवेत् । वैश्यो धनसमृद्धः स्याच्छद्रस्तु श्रवणात्सुखी १६ एवं फलमवामोति पठनाच्छ्यणादपि । पृथोर्जन्म चरित्रं च पवित्रं पापनाशनम् ॥ १७ धर्मगोप्ता महामाज्ञो वेदशास्त्रार्थकोविदः । अत्रिवंशसमुत्पन्नः पूर्वमंत्रिसमः प्रभुः ॥ १८ स्रष्टा सर्वस्य धर्मस्य अङ्गो नाम प्रजापतिः । य आसीत्तस्य पुत्रो वै वना नाम प्रजापतिः ॥ १९
* एतच्चिदान्तर्गतोऽय पाटः क. ख. ४. च. छ झ. ढ. पुस्तकस्थः । १ क. ख. ग. घ. ङ. च. छ. झ ट. ड. ढ. 'द वृद्धि' । २ क. ख. ड. च. छ. झ. 'श्च यथा यक्षर्यथा द्रुमः । शै'। ३ क. ख. ग. ध. च. छ. झ. महात्मभिः । ४ क. ख. च. ड. झ. ट. ड. 'स कस्मादिह कारणात् । ऋद्धश्चैव महापुण्यैः । ५ क. ख. इ.च. छ झ. द. मा महाभाग तु । ग घ. ज. ट. ड. मा महापण्यां त। ६ ढ. च । श्रद्धाहीनाय कटाय सर्वना । ७ क. ख. ग. घ. ङ. च. छ. झ. द. संमित । ८ क, ख ग. घ. च... झ. ट. ड. ति यः शृणोति न संशयः । । ९ ज. मन्त्रिम।