________________
२५५
६४ चतुःषष्टितमोऽध्यायः]
पद्मपुराणम् । दृष्टान्तो दृश्यते मूत प्रत्यहं मर्त्यमण्डले । विशेष नैव पश्यामि धर्मपुण्यस्य चाधिकम् ॥ ५६ सत्यधर्मादिकं पुण्यं येन कायेन मानवः । सैमर्जयति वै मर्त्यस्तं कस्माद्विपसर्जयेत् ॥ ५७ आत्मा कायश्च द्वावेतौ मित्ररूपावुभावपि । कार्य मित्रं परित्यज्य आत्मा याति सुनिश्चितम् ५८
मातलिरुवाचसत्यमुक्तं त्वया राजन्कायं त्यक्त्वा प्रयाति सः। संबन्धो नास्ति तेनापि समं कायेन चाऽऽत्मनः यस्मात्पश्चस्वरूपोऽयं संधिजर्जरितस्तदा । जरया पीड्यमानस्तु स जीवं त्यक्तुमिच्छति ॥ ६० जरादोषप्रभने च तत्र स्थातुं में नेच्छति । आकुलव्याकलो भूत्वा जीवं त्यक्त्वा प्रयाति सः६१ सत्येन धर्मपुण्यैश्च दानैनियमसंयमैः । अश्वमेधादिभिर्यज्ञैस्तीर्थैः संयमनैस्तथा ॥ सुकृतेश्चैव पुण्यैश्च जरा नैव प्रवाधतं । पातकैश्च महाराज पचते कायमेव सा ॥ ६३
___ ययातिवाचकस्माजरा समुत्पन्ना कस्मात्कायं प्रपीडयेत् । मम विस्तरतः सूत वक्तुमर्हसि सत्तम ॥ ६४
मातलिरुवाच--- हन्त ते वर्णयिष्यामि जरायाः परिकारणम् । यस्माच्चैवं समुद्भूना कायमध्ये नृपोत्तम ॥ ६५ पञ्चभूतात्मकः कायो विषयैः पञ्चभिर्वृतः । यमात्मा त्यजने राजन्स कायः परिधक्ष्यते ॥ ६६ वहिना दीप्यमानस्तु सरसः प्रज्वले नृप । तस्माद्विजायते धूमो धूमान्मेषश्च जायते ॥ ६७ मेघात्मवर्तते चाम्भस्ततः पृथ्वी प्रजायने । ऊर्ध्वमायाति मा पृथ्वी यथा नारी रजस्वला ॥६८ तस्मात्पजायते गन्धो गन्धाद्रसो नृपोत्तम । रमात्प्रभवते चान्नमनाच्छुक्रं न संशयः॥ ६९ शुक्राद्धि जायते कायः कुरूपः काय एव च । यथा पृथ्वी मजेद्गन्धान्र संश्चरति भूतले ॥ ७० तथा कायश्वरेन्नित्यं रसाधारो हि सर्वशः । गन्धश्च जायते तस्माद्धाद्रसो भवेत्पुनः ॥ ७१ तस्माज्जज्ञे महावह्निदृष्टान्तं पश्य भूपते । यथा काष्ठाद्भवेद्वह्निः पुनः काष्ठं प्रकाशयेत् ॥ ७२ कायमध्ये रसादग्निस्तद्वदेव प्रजायते । नत्र संचरते नित्यं कायं पुष्णाति भूपते ॥ ७३ यावद्रसस्य चाऽऽधिक्यं तावजीवः प्रशान्तिमान । चरित्वा तादृशं वह्निः क्षुधारूपेण वर्तते।।७४ अन्नमिच्छत्यसौ तीव्रः पयसा च समन्वितम् । प्रदा(धा)नं लभने चान्नमुदकं चापि भूपते ।।७५ शोणितं चरते वह्निस्तद्वीर्य न संशयः । यक्ष्मगंगो भवेत्तस्मान्मर्वकायमणाशकः ॥ ७६ रसाधिक्यं भवेद्राजन्नथ वह्निः प्रशाम्यति । रमन पीड्यमानस्तु ज्वररूपोऽभिजायते ॥ ७७ ग्रीवापृष्ठं कटिं पायुं मस्वेिव तु संधिषु । आरुध्य निष्ठते वह्निः कार्य वह्निः प्रवर्तते ॥ ७८ तस्याऽऽधिक्यं चरेन्नित्यं कायं पुष्णाति संमतः । रसस्तु वृद्धिमायाति बलरूपो भवेत्तदा ॥ ७९ अतिरिक्तो वलेनैव वीयान्ममाणि चालयेत् । तनव जायते कामः शोषवान्पुरुषो भवेत् ॥ ८० स कामाग्निः समारख्याता बलनाशकरां नृप । मथुनम्य प्रसङ्गन विनाशत्वं कलेवरे ॥ ८१ नारीणां संश्रयेत्पाणी पीडितः कामवह्निना । मैथुनस्य प्रसङ्गन मूर्छते मर्म कृन्तति ॥ ८२ तेजोहीनो भवेत्कायो बलहीनश्च जायते ॥ बलहीनो यदा स्याद्वै दुर्बलो वह्निनेरितः । [*स वह्निः प्रचरेत्कायः(ये) शोणितं शुक्रमेव च ८४
* क. ख. इ. च. छ. झ. ड. ढ. पुस्तकस्थमेतत् । १ क. ख. घ. ङ. च. छ. झ. ट. ड. ढ. प्रत्यक्षं । २ ङ. ढ. 'मि पापपु। ३ घ. ट. स सर्जति ततो म। ४. ख. घ. च. छ. स. ट. ड, ढ. ति स निश्चितः । मा। ङ. द. ति सुनिश्चितः । मा। ५ छ. प्रजायते । ६. भपते। ७ क. ख. ङ, च. छ. झ. ट. ड. द. 'मः शल्यरूपी भवेन्नप।स। ८ क. ख. च. छ. झ. 'सिपीडितः ।